Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 344
________________ प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः। २८९ ऊर्ध्वदेशात् तु भागेन स स्याद् भागचतुष्टये । लिखेट् वृत्तं त्रिभागोनयंशकर्कटकोद्भवम् ।। १०९ ॥ तस्योपरिष्टात् तदनु ग्रीवा कार्यकभागिनी । गर्भे शृङ्गाग्रयोर्मध्ये तिर्यग् भागद्वयं भवेत् ।। ११० ॥ मध्ये कर्णाग्रयोस्तिर्यक कार्य भागत्रयं बुधैः । ग्रीवाया उपरिष्टाच्च भागमेकं शिखा भवेत् ।। १११ ॥ शिखाग्रमुपरिष्टाच कर्तव्यं गर्भसङ्गतम् । शिरखाग्रंमूर्ध्वतस्तद्वदर्धभागावलम्बितम् ।। ११२ ॥ भागावलम्बि कर्णाग्रं स्कन्धाग्रं तावदेव तु । स्यात् कर्णखण्डयोर्मूलं स्कन्धदेशस्य सङ्गतम् ।। ११३ ॥ स्वस्तिको व्यंशविस्तारायामः प्राग्वृत्तमध्यतः।। एवं शकुमधास्त्राचं भा(गोगे) निवेशयेत् ॥ ११४ ।। भागे निवेशितं कुर्यात् पूर्ववृत्तीचशेषतः।। स्वस्तिकान्तं च पूर्वोक्तं पूर्ववत् सर्वमाचरेत् ।। ११५ ।। तलमूत्रादुपर्यशैश्चतुर्मिर्गर्भतः स(मः१मम्) । द्वाभ्यां द्वाभ्यामुभयतो भागाभ्यां तिर्यगेव च ॥ ११६ ॥ भागेन तद्वदेवाधःसूत्रादुपरि गर्भतः । चतुर्भिश्च चतुर्भिश्च भागैरुभयतः समम् ॥ ११७ ॥ वृत्तार्धानि लिखेदेककर्णयुक्तानि पूर्ववत् । । एकशृङ्गाणि च ग्रीवास्वस्तिकायुतानि च ॥ ११८ ॥ तलमूत्रबहिर्देशाद् बाह्यवृत्तसमुद्भवः। पदत्रयप्रविष्टः स्यात् पाणिरत्र परिस्फुटः ॥ ११९ ।। त्रिवलीललितो नाम सिंहकर्णोऽयमीरितः । दशभागीकृते प्राग्वदुदये तत्प्रमाणतः ॥ १२० ॥ ... 'शौ त्रिभागोनैः स', २. 'य', ३. 'कैः', ४. 'ध्यं ', ५. '' ६. 'ग', ७. 'कस्कन्धवि', ८. 'मः', ९. 'गर्भ नि' ख. पाठः । १०. 'त्या' क. पाठः। ११. 'तु', १२. 'मुपाच' ख. पाठः । १३. 'द्वे', १४. 'टा' १५. 'पुरः स्फु' क. पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 342 343 344 345 346