Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 340
________________ प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । २८५ वितानमेतत् कथितं यश्चिकीर्षति मानवः । ऊर्वतिर्यग्गतै लैः क्रियते यनिरन्तरम् ॥ ५८॥ पुष्पमालाकुलं श्रीमत् पुष्पकं तदुदाहृतम् । अशोकपल्लवाकीर्णलुमाभ्रमनिवन्धनम् ॥ ५९॥ चतुरश्रक्रियायुक्तं सा प्रोक्ता भ्रमरावली । आध्माता कर्णमायाता तुम्बिकास्थानसंश्रया ।। ६०॥ तुम्बिनी यत्र मध्ये तु हंसपक्षं तदुच्यते । अस्यैव पक्षे तु यदा सम्बध्येत मनोरमा ।। ६१ ॥ तुम्बिनी च विपक्षेषु करालं तदुदाहृतम् । कोला लुमा स्याद् विकटे शङ्के शान्ता प्रकीर्तिता ॥ ६२ ॥ शङ्कानाभिसमं मूत्रं तुम्बिकायाः प्रवर्तते ।। सर्वेष्वपि लुमास्थानेष्वेकरेखान्वितं भवेत् ।। ६३ ॥ शङनाभिरिति प्रोक्तं वितानमिदमुत्तमम् । एतस्येव लुमास्थाने तुम्बिका पद्मकाता ॥ ६४ ।। वलयैर्भूषिता यत् स्यात् सपुष्पमिति तद् विदुः । क्षेत्रे वृत्तायताकारे कारयेच्छुक्तिसंज्ञकम् ॥ ६५ ।। वृत्ताकारे भवेत् क्षेत्रे वृत्तं वलयकर्मणा । चतुरश्रे समे क्षेत्रे यल्लुमालुमर्ध(ते?तः) ॥६६॥ वृत्तक्षोभणभङ्गानि तन्मन्दारकमुच्यते । कुमुदं कुमुदस्येव लुमाक्षेपादिहार्धतः ।। ६७ ॥ पद्मके स्यादधःक्षिप्ता विकासे मध्यमा लुमा । गरुडे' गरुडो मध्ये नागाभरणशोभितः ॥ ६८ ॥ पुरोगतं तद् यदधो गत्वा स्यादैर्ध्वगं पुनः । अधो गत्वा पुरारोहमूर्ध्वमूर्ध्वं ततोऽप्यधः ।। ६९ ॥ विचित्रक्षोभणाकीर्णमन्ते वृत्तं मुहुर्मुहुः । अष्टभिश्वाश्रिभिर्मध्ये विद्युन्मन्दारकं भवेत् ।। ७० ॥ १. 'नामतः' ख. पाठः। २. 'स' क. पाठः । ३. 'त्रा', ४. 'दर्धगतं पु' ख. पाठः। पुरोहतमिति तु लक्ष्ये पठितम्! "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346