Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२८२
समराङ्गणसूत्रधारे सार्धपेद्यापिण्डसमः पिण्डस्योदुम्बरो भवेत् । तलन्यासस्तदर्धेन भूमिर(ङ्गा च?ङ्गाश्च) तत्समाः ॥ २० ॥ उदुम्बरकपिण्डस्य मानात् सिंहमुखानि च । उदुम्बरात् पादहीनस्तुल्यो वाभ्यधिकोऽथवा ॥ २१ ॥ पटैस्य पिण्डस्त्रिविधो विस्तारात् स्तम्भतोऽधिकः । भागपादसमस्तम्भो द्वादशांशं प्रपीडितः ॥ २२ ॥ भागद्वये च कर्तव्यो रूपलक्षणसंयुतः । चतुष्पष्टिप्रकारोऽयं नानारूपप्रपञ्चतः ।। २३ ॥ स्तम्भविस्तारविस्तीर्ण पिण्डे तत्पादवर्जितम् ।। विस्तारात् त्रिगुणं दैाद्धीरग्रहणमिष्यते ॥ २४ ॥ प्रविष्टौ स्तम्भमाने स्तः कुम्भिकोत्कालको सदा । तलपट्टसमं पट्टमुत्तरं परिकल्पयेत् ।। २५ ॥ (ती?ही)रं तस्य त्रिभागेन समुत्सेधाद विधीयते । किञ्चिद् विनिगेतं पट्टाद् यथाशोभं प्रकल्पयेत् ॥ २६ ॥ अत ऊर्ध्वं यथाशोभं कण्ठकेंनासनेन च । रथकैश्चित्ररूपैश्च कूटागारैः सतोरणः ॥ २७ ।।
अलिन्दे मण्डपे वापि चतुष्के वलभीपु वा । वितानानि विचित्राणि समुक्षिप्ततलानि च ।। २८ ।। लक्षणेन च युक्तानि विदधीत यथोचितम् । लुमाः फलकवर्तीभिः कृताः समभिदध्महे ॥ २९ ॥ उत्क्षिप्तानां च ये भेदा जायन्ते सर्ववास्तुपु । तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमी ॥ ३० ॥ आध्माता चेति सप्तैता नामतः कथिता लुमाः । चतुरश्रीकृते क्षेत्रे कान्ते भूमितले शुभे ॥ ३१ ॥ मूत्रं क्षेत्रसमं कृत्वा कर्णात कर्ण विभाजयेत् । विन्यस्येद् गर्भमूत्राणि तयोमध्यगतानि च ॥ ३२ ॥ १. 'र्धा' ख. पाठः। २. 'मा', ३. 'ह' क. पाटः । ४. 'रस्त, .. 'दः' इत्र, पाठः । ६. 'नी', ७. 'को' क. पाठः । ८. 'न' ख. पाठः । १. 'माफ', ५०. 'ता स' क. ख. पाठः । ११. सचिनी', १२. 'मा:', १३. 'पूर्व का' ख. पाठः।
"Aho Shrut.Gyanam"

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346