Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । २८१
रूपशाखासमं तच्च कर्तव्यमतिसुन्दरम् । ऊर्ध्व समन्ताचाष्टांशमात्रे तच्चतुरश्रकम् ॥ ७॥ तदूर्ध्व भरणोच्छ्रायः स्यात् पादोनसमुच्छ्रितिः । surentresशीर्षगर्भः : स च विधीयते ॥ ८ ॥ सरथालयपत्रो वा स्वोदयार्धविनिर्गमः । तस्योपरिष्टात् कर्तव्यं स्यादुच्छालयपत्रकम् (१) ॥ ९ ॥ रथिका (तु) विधातव्या द्वयोरप्युच्छ्रितिस्तयोः । सार्धप्रमाणभरणाद् भूषा स्यात् पुष्पकादिभिः ॥ १० ॥ रूपकैर्वा यथाशोभं स्तम्भिकाभिश्च सर्वतः । कण्टको त्रिभागोन (१) कूटाकारं भवेदतः ॥ ११ ॥ विभूषितं सिंहचक्रैर्हस्तितुण्डैरथापि वा । कपोतादि विधातव्यमन्तरे रूपशाखयोः ॥ १२ ॥ कार्यं विषमसंख्यं च सर्वमेतद् विचक्षणैः । तस्माद वहिर्विधातव्या सर्वतः परिमण्डली ॥ १३ ॥ अन्त्यशाखासमा सा च प्रमाणेन विधीयते । तस्यां सद्वारशाखायां (प्रा) यशः पद्मपत्रिकाः ॥ १४ ॥ कार्या(or afar द्वार) शाखायास्तद्विस्तारसमुच्छ्रिताः । भवेदधस्तादर्थेन ग्रीवाया रसना तथा ।। १५ । ग्रीवया साया तुल्यमन्तरं पत्रकाण्यधः । भागद्वयं प्रकुर्वीत जङ्घा त्र्यंशा ततोऽप्यधः ॥ १६ ॥ पेद्यापिण्डप्रमाणेन खल्वशाखा विधीयते । पेद्यापिण्डसम बाह्यशाखान्यासः प्रकीर्तितः ॥ १७ ॥ क्रमेणानेन कर्तव्याः शाखीः स्वल्पा यदृच्छया । न नवभ्यः परं कार्या द्वारशाखाः कथञ्चन ॥ १८ ॥
निर्गमो वा प्रवेशो वा विस्तारेण समन्वितः । पेद्याया यदि वार्धेन शाखानां स विधीयते ॥ १९ ॥ १. 'वि', २. खास्तत्रय', ३, 'वा सवि', ४. ' संमितः ' ख. पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346