Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 334
________________ जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः । पीडां च स्वामिनः कुर्युर्यदन्यदपि गर्हितम् । तस्मादेते विधातव्या दूषिता नान्यजातिभिः ॥ २८ ॥ इति वैराजजातानामुत्पत्तिः परिकीर्तिता । वैराजजन्मनुरसद्मपरम्परेय मुक्तैवमत्र शुभलक्ष्मवती समासात् । आनन्दकीर्त्तिधनधान्यकरी कुता स्यादन्यादृशी पुनरनर्धफलैव कर्तुः ॥ २९ इति महाराजाधिराजश्री भोजदेवविरचिते समगङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्र प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः ॥ २९॥ २७९ अथ जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः । मो जघन्यवास्तूनां द्वारमानमतः परम् । विस्तारं सतलोच्छ्रायं द्रव्यव्यासविधिं तथा ॥ १ ॥ कथिता ये निराधाराः प्रासादास्तिर्यगायताः । तेषां भागचतुष्केण गर्भवासं विभाजयेत् || २ || द्वारं सार्धेन भागेन कुर्वीत स्वार्थविस्तृतम् । द्वारविस्तारपादेन पेद्याया विस्तृतिर्भवेत् || ३ || विस्तारार्थेन पिण्डः स्यात् तत्समः स्यादुदुम्बरः । सार्धमूलादुम्बरकः (?) शाखा व्यासवशाद् भवेत् ॥ ४ ॥ चतुर्विधव कर्तव्यः पेद्यापिण्डः प्रमाणतः । शाखा तु पेद्यापिण्ड (अस्य) विस्तारेण विधीयते ॥ ५ ॥ शाखाविस्तारतो रूपशाखा स्यात् सार्थविस्तृतिः । अर्धे पेद्यापिण्डस्य खल्वशाखा विधीयते ॥ ६ ॥ रूपशाखासमाः कार्या विस्तारात् तुङ्गशाखिकाः । तुमाया वाह्यतः शाखाः क्रियन्ते यास्तु काश्चन ॥ ७ ॥ अशाभ्यधिकाः सर्वाः कर्तव्या विस्तरेण ताः । द्वारस्यायामविस्तारयोगात् सङ्ख्या भवेत् तु या ॥ ८ ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346