Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 333
________________ समराङ्गणसूत्रधारे नन्द्यावर्तो विमानश्च सर्वतोभद्र एव च । विमुक्तकोणप्रासाद इति वैराजसंभवाः ॥ १४ ॥ एकैकस्मात् क्रमेणैवमेकैकः समजायत । स्वस्तिकाद् रुचको ज्ञेयः श्रीतरोः सिंहपञ्जरः ॥ १५ ॥ क्ष्माभूषणात् तु शाला स्याद भूजयाद् गजयूथपः । विजयादवतंसश्च भद्रान्नन्दी विनिर्गतः ।। १६ ।। श्रीकूटाचित्रकूटाख्य उष्णीपात् प्रमदाप्रियः । व्यामिश्रो नन्दिकावर्ताद विमानाद्धस्तिजा(व?ति)कः ॥१७॥ कुबेरः सर्वतोभद्रान्मुक्तकोणाद् धराधरः। एतेभ्योऽपि च संभूताः कनीयांसोऽभिधानतः ॥ १८ ॥ तद्भेदास्ते तदाकारैर्लक्ष्याः स्वैः स्वैः पृथग्विधैः । भागैस्तेषूत्तमैः पूर्वान् मध्यमान् मध्यमैस्तथा ॥ १९ ॥ कनीयसः कनीयोभिः प्रासादानुपकल्पयेत् । शिखरैरपरैः श्लिष्टाः प्रासादा जज्ञिरे ततः ॥ २० ॥ प्रथमो रुचकस्तेषु द्वितीयो वर्धमानकः । अवतंसस्तृतीयस्तु चतुर्थो भद्र उच्यते ॥ २१ ॥ पञ्चमः सर्वतोभद्रः षष्ठः स्यान्मुक्तकोणकः । मेरुमेन्दर इत्यष्टौ विज्ञेयाः शिखरोत्तमाः ॥ २२ ॥ चतुरश्राः समाख्याता देवानामालयाः शुभाः । एते ते वंशजाः सर्वे निवेश्या ब्रह्मजातयः ।। २३ ॥ वैराजकुलसंभूताः प्रासादाः परमोत्तमाः। एतेभ्योऽन्येऽपि संभूताः पुत्रपौत्रप्रपौत्र(य?जा): ॥ २४ ॥ स्ववंशाः सुपरीवाराः परवंशविवर्जिताः। . कर्तव्या भूतिकामेन तेजसा शुभलक्षणाः ॥ २५ ॥ नन्दका वर्धनाश्चैव सर्वकामफलप्रदाः । हृष्टपुष्टजनाकीर्णाः पूजासंस्कारवर्धनाः ।। २६ ॥ यदि हीना भवन्त्येते परवंशेन दूषिताः । तदुद्वेगं नृणां नित्यमर्थनाशं कुलक्षयम् ॥ २७ ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346