Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 331
________________ २७६ समराङ्गणसूत्रधारे मर्मवेधप्रदेशस्थान् द्वारवेधगवानपि । स्वस्थानान्तरितचैतान् न कुर्याद्धितकाम्यया ॥ १४ ॥ अलिन्दैर्गर्भकोष्ठैव सीमास्तम्भगवाक्षकैः । द्वारद्रव्यतलोच्छ्रायैः प्राग्रीवैः सिंहकर्णकैः ॥ १५ ॥ न कुर्याद् भूषणैस्तुल्यं समं वास्थंदरूपतः (१) । समरूपं भवद्धर्म्यं निर्युक्तं च न नन्दति ॥ १६ ॥ राजपीडा भवेत् तस्मिन्नाधिक्ये च कुलक्षयः । प्रासादाद् भूमिपालस्य निवेशं परिधौ स्थितम् ॥ १७ ॥ द्रव्येण कतरेणापि नोत्कृष्टं कारयेद् बुधः । संस्थानान्मानवश्वापि विस्तारेणोच्छ्रयेण वा ॥ १८ ॥ पूर्वोक्तेभ्यो विभागेभ्यः किञ्चिद्धीनतमः शुभः । अन्योन्यं द्विगुणच्छाद्यैरे कैकस्यान्तरं शुभम् ॥ १९ ॥ सुभोग्यं तं च कुर्वीत बहुभिर्भवनान्तरैः । कोष्ठिका भोजनागरैर्भाण्डोपस्करधामभिः ॥ २० ॥ शिलालूषात (?) शालाभिः शेषं तु परिपूरयेत् । प्रशस्तान् कारयेत् सर्वाम् शुभरूपान् मनोरमान् ॥ २१ ॥ प्रायशः स्वालयांश्चान्यान् सर्वस्यान्यगृहाणि च । नरेन्द्रायतनस्यैव निवेशात् परिकल्पयेत् ॥ २२ ॥ अन्यथात्वे महादोषा वैपरीत्ये कुलक्षयः । इति कथितदिगादिभेदयोगैः सुरभवनानि भवन्ति यस्य राज्ञः । अविरतमुदितोदितप्रतापः १ स्वजजितां स चिरं प्रशास्ति पृथ्वीम् ॥ २३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयतननिवेशो नामैकपञ्चाशोऽध्यायः ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346