Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः ।
अथ प्रासादजातिर्नाम दिपञ्चाशोऽध्यायः ।
२ ॥
अवतारो निवेशानां विधानं वास्तुनो यतः । कात्स्न्येन ततो ब्रूमः सभ्यस्य प्रसवोत्तमः (१) ॥ १ ॥ कुलजातिक्रमाणां च क्रमं दीर्घाल्पजीविनाम् । संस्थानमभिधास्यामो लक्ष्यलक्षणमेव च शुभाशुभानां वैराजमादिं तेषां प्रचक्षते । पूर्वोक्तस्य विमानस्य तस्यातो लक्ष्म कथ्यते ॥ ३॥ वैराजस्य यथाकारव्यवस्थानमशेषतः । चतुरश्रं समं क्षेत्रमशीत्यंशैर्विभाजयेत् ॥ ४ ॥ संयुक्तमष्टभिर्भागैः कुर्याद् गर्भगृहं शुभम् । द्विपञ्चाशद्धरैः सीमा गर्भकोष्ठसमन्विताः || ५ | द्वात्रिंशता देवकोष्ठैः सर्वैरेकान्तरैश्च तैः । बाह्यस्थाने ततः स्थानाद् द्वादशक्षोभणैर्धरैः ॥ ६ ॥ हेमरत्नमयैः स्तम्भैः शुक्रूपट्टेश्च भूषितैः । शुक्लालङ्कारखचितैर्वितानैश्च विभूषणैः ॥ ७ ॥ स्फाटिकैर्विविधैर्जालैः सहरिन्मणिवेदिकैः । हंसकर्णकपोतालीतिर्यक्स्थाल्यर्धकर्णिकैः ॥ ८ ॥
पर्यन्तदेशधृतया गर्भस्योपरि घण्टया । लोकनाथेन तत् सृष्टमाद्यं वैराजसंज्ञितम् ॥ ९ ॥ तस्मात् स्वस्तिकसंज्ञः माग गृहच्छन्दो विजायते । : चतुश्शालस्त्रिशालच हिरण्यौकस्त्वतोऽपिच ॥ १० ॥ सिद्धार्थको द्विशालः स्यादेकशालस्तु कुम्भकः । सृष्टमन्यद् विमानं च वरं वीरं चतुर्मुखम् ॥ ११ ॥ गणानां देवतानां च स्कन्दस्य च यथाक्रमम् । मासादा द्वादशैतेऽन्ये जज्ञिरे शुभलक्षणाः ॥ १२ ॥ स्वस्तिकः श्रीरुचैव तृतीयः क्षितिभूषणः । भ्रूजयो विजयो भद्रः श्रीकूटोष्णीषसंज्ञितौ ॥ १३ ॥
"Aho Shrut Gyanam"
૨૭૦

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346