Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 328
________________ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः। २७३ द्विती(यो?ये)ऽलिन्द(कीके)ऽस्यैव प्राग्रीवाः स्युश्चतुर्दिशम् । अलिन्देन परिक्षिप्तो हंस एष प्रकीर्तितः ॥ १९९ ॥ प्राग्रीवोऽस्य महापद्यस्यालिन्देनावृतो यदा।। कर्णमाग्रीवको द्वौ द्वौ व्योमसंज्ञस्तदा भवेत् ॥ २०॥ हंसस्यैव वलभ्यः स्युः प्राग्रीवाणां पदे यदा । चतुःस्तम्भाः परिक्षिप्ता अलिन्देन चतुर्दिशम् ॥ २०१॥ तदा चन्द्रोदयो नाम प्रासादो जायते शुभः। एवमेषां चतुष्पष्टिः प्रासादानामुदाहृता ।। २०२ ॥ इति सुरभवनानां सप्ततिदोरवाणामिह सदनचतुष्केणान्वितेयं प्रदिष्टा । जनमयमवकोशानन्दशुभ्रांशुलेखा (१) भवति सुविदितैषा शिल्पिना कामधेनुः ॥ २०३ ॥ इति महागजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुष्षष्टिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः। अथ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः। प्रासादानामथ ब्रूमो लक्षणानि भवन्ति ये । प्रशस्तावाप्रशस्ताश्च तस्मिन्नवनिमण्डले ॥१॥ ये समाः समकर्णाश्च समस्तम्भाः समक्षणाः । नैवोच्चा नातिहस्वाश्च कर्णायामादविहलाः ॥२॥ असंमृदा विभागेन प्रमाणेन सुसंस्थिताः ।। ऊर्धाधः कर्णपादीभिरुपेताः सलिलान्तरैः ॥३॥ असङ्कीर्णोदयैश्छायैः स्वमानपरिकल्पितैः। सुविभक्ताः सुसंस्थाश्च रम्यैरविकलैः कृताः ॥ ४॥ समभागविभक्तैश्च युक्ताश्चालिन्दकैः समैः। स्वजातिपरिवेषाद्या नान्यजातिप्रदूषिताः ॥ ५ ॥ असङ्कीर्णाः शरीरेण संस्थानेन सुसंस्थिताः ।। केवला जातिशुद्धाच प्रासादा। शुभदा नृणाम् ॥ ६॥ "Aho Shrut Gyanam

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346