Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 319
________________ २६४ समराङ्गणसूत्रधारे पृथ्वी विजयते यस्मात् तेनासौ पृथिवीजयः । भूजयः । यदा पृथ्वीजयस्यैव कर्णप्राग्रीवकावुभौ ।। ८८ ॥ कोणेषु भागिको स्यातां विज्ञेयो विजयस्तदा । विजयः। अयं समन्तादुत्क्षिप्तो बाह्यालिन्दं विना यदा ॥ ८९ ।। मध्यमालिन्दसौध(स्थं?स्थ)कर्णप्रासादकैश्चितः । प्रथमालिन्दगी च समुत्क्षिप्ततरौ ततः ॥ ९० ॥ स्याता छाद्यद्वयच्छन्नौ तदा नन्दोभिधीयते । नन्दः । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ ९१ ॥ चतुरश्रो भवेन्मध्ये देवकोष्ठा द्विभागिकः । द्वारबन्धोऽस्य भागोचः कार्यो भागार्धविस्तृतः ॥ ९२ ॥ स्याद् बहिर्वादशधरोऽलिन्दको देवकोष्ठतः । भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥ ९३ ॥ अयं द्विभागियुक्तः प्राग्रीवैर्भागनिर्गमैः । तथा तृतीयोऽलिन्दः स्यात् समन्ताद् भित्तिवेष्टितः ।। ९४ ।। प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैविभूषितः । भागिकी स्याद् बहिभित्तिरितरा तु धरैः समा ॥ ९५ ॥ इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः । श्रीतसः ।। अस्यैव स्तम्भगर्भस्थ द्वितीयालिन्दभित्तिषु ॥ ९६ ।। षडदारूणि विधेयानि पूर्वरूपव्यवस्थितेः । द्वौ द्वौ प्राग्रीवको कार्यो तृतीयालिन्दका बहिः ॥९७ ॥ तौ च द्वि(भागान्तरितौ सर्वतो भागनिर्गतौ । एवं पञ्चांशता(?) स्तम्भैाभ्यां च परिवेष्टितः ॥ ९८ ॥ १. 'तो' क. ग. पाठः । २. 'ते' क, 'तैः' ख. पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346