________________
२६४
समराङ्गणसूत्रधारे पृथ्वी विजयते यस्मात् तेनासौ पृथिवीजयः ।
भूजयः । यदा पृथ्वीजयस्यैव कर्णप्राग्रीवकावुभौ ।। ८८ ॥ कोणेषु भागिको स्यातां विज्ञेयो विजयस्तदा ।
विजयः। अयं समन्तादुत्क्षिप्तो बाह्यालिन्दं विना यदा ॥ ८९ ।। मध्यमालिन्दसौध(स्थं?स्थ)कर्णप्रासादकैश्चितः । प्रथमालिन्दगी च समुत्क्षिप्ततरौ ततः ॥ ९० ॥ स्याता छाद्यद्वयच्छन्नौ तदा नन्दोभिधीयते ।
नन्दः । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ ९१ ॥ चतुरश्रो भवेन्मध्ये देवकोष्ठा द्विभागिकः । द्वारबन्धोऽस्य भागोचः कार्यो भागार्धविस्तृतः ॥ ९२ ॥ स्याद् बहिर्वादशधरोऽलिन्दको देवकोष्ठतः । भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥ ९३ ॥ अयं द्विभागियुक्तः प्राग्रीवैर्भागनिर्गमैः । तथा तृतीयोऽलिन्दः स्यात् समन्ताद् भित्तिवेष्टितः ।। ९४ ।। प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैविभूषितः । भागिकी स्याद् बहिभित्तिरितरा तु धरैः समा ॥ ९५ ॥ इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः ।
श्रीतसः ।। अस्यैव स्तम्भगर्भस्थ द्वितीयालिन्दभित्तिषु ॥ ९६ ।। षडदारूणि विधेयानि पूर्वरूपव्यवस्थितेः । द्वौ द्वौ प्राग्रीवको कार्यो तृतीयालिन्दका बहिः ॥९७ ॥ तौ च द्वि(भागान्तरितौ सर्वतो भागनिर्गतौ । एवं पञ्चांशता(?) स्तम्भैाभ्यां च परिवेष्टितः ॥ ९८ ॥ १. 'तो' क. ग. पाठः । २. 'ते' क, 'तैः' ख. पाठः ।
"Aho Shrut Gyanam"