Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 316
________________ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । भागा द्वार विस्तारः प्रासादस्योच्छ्रितं पुनः । कुर्वीत चतुरो भागाञ् छादयेच्चित्रकूटवत् ॥ ५१ ॥ कार्या द्विभागिकाः शालाः सालिन्दास्तस्य बाह्यतः । बहिर्भित्तिपरिक्षिप्ताश्चतुर्भागायताः शुभाः ॥ ५२ ॥ द्वौ गवाक्षको स्तम्भाः प्रतिशालं भवन्ति पद् । चतुः स्तम्भभृतैर्युक्तः कार्या वा धार्मिकालयैः ॥ ५३ ॥ नद्यार्तोऽयमेवं स्यात् सप्राग्रीव चतुष्टयः । प्रागु (?) द्वारक्षणोपेतः प्रासादः शुभलक्षणः || ५४ ॥ नन्द्यावर्तः । क्षेत्र त्रे) षड्भागविस्तारे दशमागकृतायतौ । मध्यादभागे'ser देवकोष्ठं निवेशयेत् ॥ ५५ ॥ चतुरंशप्रतिन्यासं चतुरश्रं समन्ततः । द्वारं तस्य विधातव्यं भागमध्यर्धमुच्छ्रितम् ॥ ५६ ॥ पादोनं भागविस्तारं सिंहवक्त्रविभूषितम् । सीमा तस्याग्रतः कार्या देवकोष्ठेन सम्मिता ॥ ५७ ॥ स्तम्भैः षोडशभिर्युक्ता भागद्विज्ञयमुच्छ्रितैः । eetar देवकोष्ठस्य समन्ताद् भित्तिवेष्टितः ॥ ५८ ॥ अलिन्दो भागिक: कार्यो गवाक्षैरुपशोभितः । (तत्) सीम्नोग्रतः पार्श्वे षड्दारुकता बेहिः ॥ ५९ ॥ कार्या द्विरंशाः प्राग्रीवा भागिकालिन्दवेष्टिताः । द्विद्विस्तम्भभृताः सर्वे पार्श्वतश्च यशोभिताः ॥ ६० ॥ अलिन्दास्तु चतुःस्तम्भाः कार्याः प्राग्रीवकाग्रतः । rain इत्येष सर्वलक्षणसंयुतः ॥ ६१ ॥ प्रासादः कथितः सम्यक् अवतंसः । स्वस्तिकः प्रोच्यतेऽधुना । चतुरश्रीकृते क्षेत्रे षड्भागप्रविभाजिवे ।। ६२ ।। १. 'क्ता का ' ख. ग. पाठः । २. 'गस्थादे', 'गस्थदै' ख. ग. पाठः । ३. 'व्या', ४. ' श्रायतः ' ख. ग. पाठः । ५. ' ' . पाठः । २६१ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346