Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २५९ द्वारं भागोच्छ्रितं तस्य कार्य भागाविस्तृतम् । समाग्रीवः स कर्तव्यश्चतुर्दशधरातः ।। २९ ।। ससौधालिन्दकचारुरूच्छाद्योपकर्षवान् । क्रियतेऽत्रं यदा स्त(म्भी?म्भैः)द्वाविंशत्या समावृतः ॥ ३० ॥ सप्राग्रीवपरिष्कारो भागिकालिन्दशोभितः । मध्यप्रदेशे रुचकः प्रासादः परिकीर्तितः ॥ ३१ ॥
रुचकः । कर्णप्राग्रीवकैश्चित्रैः सप्राग्रीवश्च यो वृतः । द्वाभ्यां द्वाभ्यां गवाक्षाभ्यां चतुर्दिशमलङ्कृतः ॥ ३२॥ कपोतालीपरिक्षिप्तः शोभितो द्वारसम्पदा । तदानीं चित्रकूटाख्यः प्रासादः सोऽभिधीयते ॥ ३३ ॥
चित्रकूटः । अयमेव पुनः षड्भिः स्तम्भैरपि चितो यदा । पाग्रीवकविहीनश्च स भवेजालरूपकः ॥ ३४ ॥ सिंहपञ्जर इत्युक्तः प्रासादः स तदा शुभः ।
सिंहपञ्जरः । कर्णप्राग्रीवको द्वौद्वावस्यैव भवतो यदा ॥ ३५ ॥ अलिन्दकगतिस्थित्या तदा भद्रः प्रकीर्तितः ।
भद्रः । स्याचित्रकूटः प्राग्रीवैश्चतुर्भिर्दिकचतुष्टये ।। ३६ ॥ बहिरन्तश्चतुर्दारः श्रीकूट इति नामतः ।
श्रीकूटः । पडदारुकसमायुक्तप्रागद्वारस्त्वयमेवं चेत् ॥ ३७ ॥ प्रासादस्तम्भगर्भःस्यात् तदोष्णीषोऽभिधीयते ।
उष्णीषः । चतुरंशकविस्तीर्ण षडंशविहितायति ॥ ३८ ॥
१. 'व', २. 'या', ३. 'न' ख. ग. पाठः । ४. 'म्भ', ५. 'के' क. पाठः । ६.'पख. य. पाठः। ७. 'त' क, ख, ग, पाठः। ८. 'वचक. पाठः। ९. 'भस्य' ख, ग, पाठः।
"Aho Shrut Gyanam"

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346