SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २५९ द्वारं भागोच्छ्रितं तस्य कार्य भागाविस्तृतम् । समाग्रीवः स कर्तव्यश्चतुर्दशधरातः ।। २९ ।। ससौधालिन्दकचारुरूच्छाद्योपकर्षवान् । क्रियतेऽत्रं यदा स्त(म्भी?म्भैः)द्वाविंशत्या समावृतः ॥ ३० ॥ सप्राग्रीवपरिष्कारो भागिकालिन्दशोभितः । मध्यप्रदेशे रुचकः प्रासादः परिकीर्तितः ॥ ३१ ॥ रुचकः । कर्णप्राग्रीवकैश्चित्रैः सप्राग्रीवश्च यो वृतः । द्वाभ्यां द्वाभ्यां गवाक्षाभ्यां चतुर्दिशमलङ्कृतः ॥ ३२॥ कपोतालीपरिक्षिप्तः शोभितो द्वारसम्पदा । तदानीं चित्रकूटाख्यः प्रासादः सोऽभिधीयते ॥ ३३ ॥ चित्रकूटः । अयमेव पुनः षड्भिः स्तम्भैरपि चितो यदा । पाग्रीवकविहीनश्च स भवेजालरूपकः ॥ ३४ ॥ सिंहपञ्जर इत्युक्तः प्रासादः स तदा शुभः । सिंहपञ्जरः । कर्णप्राग्रीवको द्वौद्वावस्यैव भवतो यदा ॥ ३५ ॥ अलिन्दकगतिस्थित्या तदा भद्रः प्रकीर्तितः । भद्रः । स्याचित्रकूटः प्राग्रीवैश्चतुर्भिर्दिकचतुष्टये ।। ३६ ॥ बहिरन्तश्चतुर्दारः श्रीकूट इति नामतः । श्रीकूटः । पडदारुकसमायुक्तप्रागद्वारस्त्वयमेवं चेत् ॥ ३७ ॥ प्रासादस्तम्भगर्भःस्यात् तदोष्णीषोऽभिधीयते । उष्णीषः । चतुरंशकविस्तीर्ण षडंशविहितायति ॥ ३८ ॥ १. 'व', २. 'या', ३. 'न' ख. ग. पाठः । ४. 'म्भ', ५. 'के' क. पाठः । ६.'पख. य. पाठः। ७. 'त' क, ख, ग, पाठः। ८. 'वचक. पाठः। ९. 'भस्य' ख, ग, पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy