________________
२६०
समराङ्गणसूत्रधारे पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम् ।। मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥ ३९ ॥ विधेयं गर्भभवनमलिन्दकपरिष्कृतम् । काया तस्याग्रतः सीमा भागद्वितयमायता ॥ ४० ।। भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता । तदनतोऽपरा सीमा कार्या भागान् पडायता ॥ ४१ ॥ तिर्यक स्था भागविस्तीर्णा प्रवेशद्वयशोभितां । एवं शालागृहः(?) स्तम्भैाविंशत्या समावृतः ।। ४२ ।। प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः।
शालाख्यः । पश्चभागोन्मितव्यासे क्षेत्रे भागाष्टकायते ।। ४३ ।। पीठं कुर्यादुभयतः ससोपानं शिलाचितम् । मध्यादपरभागेऽस्य देवागारं निवेशयेत् ।। ४४॥ (विद्वि)भागायामविस्तारं चतुरश्रं सुसंहितम् । पादोनभागविस्तारमध्य भागमुच्छ्रितम् ।। ४५ ॥ तयं कार्य मुखं मध्ये पार्वतश्चयशोभितम् । सचया निर्गता सीमा द्वौ भागौ त्रींस्तथाय(था?ता) ॥ ४६॥ चतुरश्रा चतुःस्तम्भा तदने भागविस्तृता ।। पञ्चभागायता तिर्यक् कार्या सीमा तथापरा ॥ ४७ ॥ द्वात्रिंशदत्र कर्तव्याः स्तम्भाः सर्वैक्यसङ्ख्यया । वहिःपरिसरो गर्भात् ससीनो भागविस्तृतः ॥ ४८ ।। एवं स्याद् वेदिकाजालरूपादिभिरलंङ्कृतः । बहि(वेश्च)योच्छ्रितश्चैप प्रासादो गजयूथपः ॥ ४९ ।।
गजयूथपः । षड्भागभाजित क्षेत्रे चतुरश्रे समन्ततः । गर्भो द्विभागिकः कार्यों द्वारं भागसमुच्छ्रितम् ।। ५० ॥ १. 'यस्त' क. ख. ग. पाठः । २. 'ताः' ख. ग. पाठः । ३. 'पा' क. ख ग. पाठः । १. 'ता',५. 'ह' ख. ग. पाठः। ६. 'स्य मध्ये मुखं काय पा' ख. पाठः। 9. 'सर्वे व्यसं' ख. ग, पाटः । ८. दिशा' ख. पाठः ।
"Aho Shrut Gyanam"