Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 309
________________ समराङ्गणसूत्रधारे अतिस्थूलेन इस्वेन शरीरेण यथा नरः । विरूपो दुर्बलश्चैव तथा द्रव्येण मन्दिरम् ॥ १०९॥ जीर्ण घुण(कृ?क्ष)तं मिश्रं हीनं वर्क विधिच्युतम् । चण्डं तुण्डं वक्रकोणं सन्धिविद्धाल्पमूलके ॥ ११० ।। बज्रमध्यं स्थूलमूलं कुक्षिभिन्नं च दारु यत् । भिन्नमूलं कूर्मपृष्ठं पक्षहीनं च वर्जयेत् ॥ १११ ॥ पातितान् वर्जयेद् वृक्षान् द्विपाश्वाग्निजलानिलैः। प्रभूतपक्षिनिलयान् काककौशिकसेवितान् ।। ११२ ।। मधुग्रहपिशाचाहिदुष्टांश्चैत्यश्मशानजान् ।। चतुष्पत्रिकमहानदीसङ्गममार्गजान् ॥ ११३ ॥ देवतायतनेजातानूवंशुष्कानं क्षतच्छदान् । वल्लीपिनद्धान् सुषिरकोटरग्रन्थिसङ्कुलान् ।। ११४ ।। याम्यापराशापतितांस्त्यजेत् कण्टकिनोऽपिच । कपित्थोदुम्बराश्वत्थशिरीषवटचम्पकान् ॥ ११५ ।। कोविदारधवारिष्टश्लेष्मातकविभीतकान् । किञ्च सप्तच्छदक्षीरिफलदांश्च द्रुमांस्त्यजेत् ।। ११६ ।। मर्माणि यत्र पीड्यन्ते द्वारैभित्तिभिरेव वा ।। दारियं कुलहानि वा गृहिणस्तत्र निर्दिशेत् ॥ ११७ ॥ स्तम्भैर्विनश्यति स्वामी तुलाभिः स्त्रीवधो ध्रुवम् । साहेबन्धुनाशः स्याज्जयन्तीभिः स्नुषावधः ॥११८॥ मर्मस्थानस्थितैः कायैर्भर्तुः कायो निपीड्यते । मर्मस्थैः सन्धिपालैस्तु सुहृद्विश्लेषमादिशेत् ॥ ११९ ॥ गृहपीडा नागदन्तैर्नागपाशैर्धनक्षयः । कापिच्छकैस्तु प्रेष्याणां क्षयं मर्मस्थितैर्वदेत् ।। १२० ॥ षडदारुकान्यनुसरागवाक्षालोकनानि च । मर्मस्थाननिविष्टानि जनयन्ति महाभयम् ॥ १२१ ॥ स्तम्भैर्वा द्वारमध्यैर्वा तुलाभिर्नागपाशकैः । वातायनै गदन्तैौरमध्ये निपीडिते ॥ १२२ ॥ ., 'गु' क. पाठः । २. 'ञ्छदावृतान्' ख. ग. पाठः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346