Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 302
________________ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा । मूषया रहितं वेश्य तदनिष्टफलप्रदम् ॥ १७ ॥ पुरतः पृष्ठतः पार्थं यदि वालिन्दवर्जिता । गृहे न शस्यते शाला देवागारे तु शस्यते ॥ १८ ॥ अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते । परस्परविरोधाय तद वेश्म गृहिणीस्तयोः ॥ १९ ॥ सशल्यं पादहीनं च समसन्धि शिरोगुरु । वेश्मनामिदमुद्दिष्टं मर्मदोपचतुष्टयम् ।। २० ॥ वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते । तेदङ्गं वास्तुनस्तस्यच्छिन्नं तेनेति निर्दिशेत ॥ २१ ॥ छिन्नाझं विकलं तत् स्याद् भीतिदं सर्वदोषकृत् । तद्भतुभेज्यतेऽङ्गं तद् वेधस्तस्याफलोऽन्यथा ॥ २२ ॥ स्वगृहद्वयमध्येन निर्वाहो यदि वर्त्मनः । द्वारवेधोदितान् दोषांस्तदा प्रामोति निश्चितम् ॥ २३ ॥ मार्गश्चैको यदा गच्छेदुभयोBहपार्श्वयोः । मागेवेधस्तदा स स्याच्छोकसन्तापकारकः ॥ २४ ॥ उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः।। प्रत्यक्षाय इति प्रोक्तं प्रवेशानां चतुष्टयम् ।। २५ ॥ गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः । उत्सङ्ग इति स प्रोक्तः पूर्णवादुः प्रदक्षिणः ॥ २६ ॥ वामतो हीनबाहुः स्यात् प्रत्य(क्षो वाक्षाय)स्तु पृष्ठतः । चतुर्थोऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥ २७ ॥ उत्सङ्गाख्ये प्रवेशे स्यात् प्रजाहानिः कुटुम्बिनः । धनधान्यक्षयो वास्य मरणं वा ध्रुवं भवेत् ॥ २८ ॥ पूणेबाहौ पुत्रपौत्रा धनधान्यसुखानि च । भवन्ति वसतो नित्यं गृहिणस्तत्र वास्तुनि ॥ २९ ॥ १. 'स:' ख. ग. पाठः । २. 'य' क. पाठः । ३. 'सं', ४. 'सु', ५. 'त्युक्तो वा' ख. पाठः। पूर्णबाहुस्तु ' दक्षिणे इति तु पाठो युक्तः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346