________________
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा । मूषया रहितं वेश्य तदनिष्टफलप्रदम् ॥ १७ ॥ पुरतः पृष्ठतः पार्थं यदि वालिन्दवर्जिता । गृहे न शस्यते शाला देवागारे तु शस्यते ॥ १८ ॥ अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते । परस्परविरोधाय तद वेश्म गृहिणीस्तयोः ॥ १९ ॥ सशल्यं पादहीनं च समसन्धि शिरोगुरु । वेश्मनामिदमुद्दिष्टं मर्मदोपचतुष्टयम् ।। २० ॥ वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते । तेदङ्गं वास्तुनस्तस्यच्छिन्नं तेनेति निर्दिशेत ॥ २१ ॥ छिन्नाझं विकलं तत् स्याद् भीतिदं सर्वदोषकृत् । तद्भतुभेज्यतेऽङ्गं तद् वेधस्तस्याफलोऽन्यथा ॥ २२ ॥ स्वगृहद्वयमध्येन निर्वाहो यदि वर्त्मनः । द्वारवेधोदितान् दोषांस्तदा प्रामोति निश्चितम् ॥ २३ ॥ मार्गश्चैको यदा गच्छेदुभयोBहपार्श्वयोः । मागेवेधस्तदा स स्याच्छोकसन्तापकारकः ॥ २४ ॥ उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः।। प्रत्यक्षाय इति प्रोक्तं प्रवेशानां चतुष्टयम् ।। २५ ॥ गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः । उत्सङ्ग इति स प्रोक्तः पूर्णवादुः प्रदक्षिणः ॥ २६ ॥ वामतो हीनबाहुः स्यात् प्रत्य(क्षो वाक्षाय)स्तु पृष्ठतः । चतुर्थोऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥ २७ ॥ उत्सङ्गाख्ये प्रवेशे स्यात् प्रजाहानिः कुटुम्बिनः । धनधान्यक्षयो वास्य मरणं वा ध्रुवं भवेत् ॥ २८ ॥ पूणेबाहौ पुत्रपौत्रा धनधान्यसुखानि च । भवन्ति वसतो नित्यं गृहिणस्तत्र वास्तुनि ॥ २९ ॥
१. 'स:' ख. ग. पाठः । २. 'य' क. पाठः । ३. 'सं', ४. 'सु', ५. 'त्युक्तो वा' ख. पाठः।
पूर्णबाहुस्तु ' दक्षिणे इति तु पाठो युक्तः ।
"Aho Shrut Gyanam"