________________
द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः । २३३ कुटुम्बी म्रियते तत्र गृहं संवत्सरात् परम् । प्रेष्याश्चात्र विनश्यन्ति दीर्यमाणे विशेषतः ॥ २९ ॥ लुमासु मिद्यमानासु कन्यामरणमादिशेत । मुण्डकेषु विनष्टेषु सुहृदस्य विनश्यति ॥ ३० ॥ अनुपूर्वेषु भिन्नेषु पुत्राणां मरणं ध्रुवम् । विपत्तौ मुण्डगोधानां माता तस्य विनश्यति ।। ३१ ।। नागपाशकमङ्गे तु भृत्यानां मरणं भवेत् ।। कपाटे भ्रातृमरणमर्गलायां स्त्रिया वधः ॥३२॥ सुतस्य चार्गलापाचे विनष्टे मरणं भवेत् । द्वारबन्धे विनष्टे तु शीघ्रं कुर्यात् कुलक्षयम् ।। ३३ ॥ इन्द्रकीलो दृढो यस्य भङ्गमायाति मूलतः । सपुत्रपशुवगेस्य तस्य ब्रूयात् कुलक्षतिम् ॥ ३४ ॥ तोरणं भज्यते यस्य द्रव्यं तस्य विनश्यति । गृहमतुश्च मरणं त्रिदशैरवधारयेत् ।। ३५ ॥ वास्तुमध्ये विनष्टे तु कुलवृद्धो विनश्यति । सोपानं भियते यत्र नवकमणि निष्ठिते ।। ३६ ।। तस्य प्रेष्याश्च गावश्च हिरण्यं च विनश्यति । वेदिका भज्यते यस्य भार्या तस्य विनश्यति ।। ३७ ॥ गवाक्षस्तु विनश्येत पट्टस्तम्भोऽपि वा दृढः । गजशुण्डाथ भिन्नोऽश्वः कपोताल्यथवा नवा ॥ ३८ ॥ स्थपनीपट्टिकाचैव स्त्रीविनाशं तदादिशेत् । विटङ्कस्य तुलाया वा भङ्गे जाते कथञ्चन ।। ३९ ॥ शीलास्तम्भस्य वा नाशे भायो तस्य विनश्यति । स्तम्भशीर्ष यदि भ्रश्येत् स्फुटेत स्तम्भोऽपि वा दृढः ॥ ४०॥
१. 'वी ख. ग. पाठः । २. 'प्यमानो वि' क. पाठः । ३. 'भज्यमा', ४. 'त्त' ख. ग. पाठः । ५. षु', ६. 'व्य' क, पाठः । ७. 'यात् ', ८. 'यम्, १. 'भन्यते', १०,'पुटस्त' ख. ग. पाठः । ११. स्वंद्राथ' ख 'स्वड्यथ' ग. पाठः । १२. 'नश्च', १३. ' ' ख. ग. पाठः। १४. 'भवेत् ' क. पाठः । १५. 'मा' ख. पाठः । १६. 'र्षे', १७. 'टे', ख. ग. पाठः।
"Aho Shrut Gyanam"