________________
२३२
समराङ्गणसूत्रधारे
यदि पूर्वोत्तरी भागः पुरस्य प्रियदर्शनः । तत्राभ्युत्तरमानन्दं क्षिप्रं राज्ञो विनिर्दिशेत् ॥ १७ ॥ निष्पन्नस्य पुरादेर्यो भागो न स्यान्मनोरमः । तस्य तस्यैव भागस्य परिहाणि विनिर्दिशेत् ।। १८ ।। नवे यदि पुरद्वारे कपाटं प्रविशीर्यते । स्त्रीनामधेयमन्यद् वा स्त्रीनाशं तद् विनिर्दिशेत् ॥ १९ ॥ देवागारे पुरद्वारे प्राकाराष्ट्रालकेषु च । हस्तिशालाश्वशालासु रथशाला (स्त स्व )थापि वा ॥ २० ॥ कोष्ठागारायुधागारे निमित्तं तु शुभाशुभम् । यदि किञ्चित् प्रदृश्येत राज्ञस्तदभिनिर्दिशेत् ॥ २१ ॥ भङ्गो यत्रोर्ध्ववंशस्य तत्र राजा विनश्यति । अर्गलापीलिका कुश्चीमने च नवकर्मणि ॥ २२ ॥ ग्रामे नश्यन्ति चैतानि तदा ग्रामो विनश्यति । दिगुत्थितं तु राष्ट्राणां ग्रहार्थेषु कुटुम्बिनाम् ॥ २३ ॥ नवकर्मणि यत्किञ्चिद् भज्यते यदि वा नमेत् । विध्वस्ते वा स्फुटे वापि कुटुम्विमरणं ध्रुवम् ॥ २४ ॥ फलं सर्वनिमित्तेषु शुभं वा यदि वाशुभम् । संवत्सरं परं ग्राह्यं नवकर्मकृते गृहे || २५ ||
परिसंवत्सरान्ते च पुराणमिति निर्दिशेत् । तुम्बिका भज्यते यत्र नवकर्मणि निष्ठिते ॥ २६ ॥ श्रेष्ठा तु महिला तत्र पदभिर्मासैर्विनश्यति । एवमेव नवं यस्य सदनं तु विनश्यति ॥। २७ ॥ प्रेदासादिविश्वासात् तद् विनाशयति ध्रुवम् । पृष्ठवंशो नवो यस्य नवकर्माणि भिद्यते ॥ २८ ॥
१. ' त् ॥ देवागारे पुरद्वारे पुनाम यदि भज्यते । तत्र राजा विनश्येत स्त्रीनाम यदि
तत् स्त्रियः || देवा', ख. ग. पाठः | २. 'पिक. ३. 'शुचीभ ख, 'शुञ्ची' ग. पाठ: । ४. 'विथज्ञे वा' ख. ग. पाटः । ५.' गुह्यका', ६. 'क्ष' क. पाठः । ७. 'सिविश्वास्यास्तद् विभासय ' ख. ग. पाठ: । ८. ' तं वि' क. पाटः । ९५ भज्य - ते' ख. ग. पाठः ।
“
"Aho Shrut Gyanam"