________________
२३४
समराङ्गणसूत्रधारे भज्यते प्रतिमोको वा स्वामिनस्तु क्धो भवेत् । भङ्गे तु भङ्गवाहिन्याः कुलवृद्धवधो भवेत् ।। ४१ ।। आकाशेतलके पुत्राः प्रतिच्छिन्ने कुटुम्बिनः । विनष्टे च विनश्यन्ति षड्भिर्मासैन संशयः ॥ ४२ ॥ प्रासादमण्डले भने भग्नासु वलभीषु च । भार्या कुटुम्बिनस्तस्य नाशमायात्यसंशयः ॥ ४३ ॥ प्रलीनो चा विलीनो वा प्रासादो यस्य भज्यते । प्रलीने भृत्यमृत्युः स्याद् विलीने तु धनक्षयः ॥ ४४ ॥ मिश्रे विनष्टे प्रासादे हीयन्ते सर्वद्धयः ।। मरणं वा भवेत् तत्र कुष्ठव्याधि च निर्दिशेत् ।। ४५ ॥ येषु स्थानेषु भो वा विनतिवा प्रकीर्तिता। उपतिर्विघातो वा तेषां फलमपीरितम् ॥ ४६॥ स्निग्धानि यदि दृश्यन्ते तानि दाव्यान्वितानि च । धनमायुश्च हर्षे च पूर्वोक्तानां तदादिशेत् ॥ ४७।। कर्णिकाभ्यन्तरी स्थूणा शालापादोऽथ हीयते ।। यदि तद् दुःखमामोति गृहभो न संशयः ॥ ४८ ॥ संपधार्य च मेधावी बलाबलमतन्द्रितः । निर्दिशन् बलमामोति धनमायुर्यशस्तथा ।। ४९ ॥ एवमादिकनिमित्तमूचितं संप्रधार्य मतिमान् बलाबलम् । स्पष्टमादिशति योऽत्र शास्त्रवित् कीर्तिवित्त(+ध?भव)नानि सोऽश्नुते ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः ॥ अथ स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः।
स्थापत्यमुच्यतेऽस्माभिरिदानी प्रक्रमागतम् ।
ज्ञातेन येन ज्ञायन्ते स्थपतीनां गुणागुणाः ॥ १॥ १. 'शे' क. पाठः । २. 'यते', ३. वृद्धिदः ' ख. ग. पाठः। ४. 'वि' क. पाठः । ५. 'त:' क, ख, ग. पाठः । ६. 'ये' ख. ग. पाठः । ७. श्यनय', ८. 'ननानि' क. पाठः ।
"Aho Shrut.Gyanam"