SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः । २३५ शास्त्रं कर्म तथा प्रज्ञा शीलं च क्रिययान्वितम् । लक्ष्यलक्षणयुक्तार्थशास्त्रनिष्ठो नरो भवेत् ॥ २ ॥ सामुद्रं गणितं चैव ज्योतिष छन्द, एव च । सिराज्ञान तथा शिल्पं यन्त्रकर्मविधिस्तथा ॥ ३ ॥ एतान्यजानि जानीयाद् वास्तुशास्त्रस्य बुद्धिमान् । शास्त्रानुसारेणाभ्युद्य लक्षणानि च लक्षयेत् ॥ ४ ॥ प्रसिद्धशास्त्रदृष्टान्तर्वास्तुज्ञानं प्रसाधयेत् । वास्तुनः ससिरावंशैमेमेवेधैः सुनिश्चितैः ॥५॥ वास्तुद्वारक्षणान् भूयः सर्वान् जानाति शास्त्रतः । यस्तु शास्त्रमविज्ञाय प्रयोक्ता स्थपतिर्भवेत् ॥ ६ ॥ हन्तव्यः स स्वयं राज्ञा मृत्युवद राजहिंसकः । मिथ्याज्ञानादहङ्कारी शास्त्रे चैवाकृतश्रमः ॥ ७॥ अकालमृत्युलॊकस्य विचरेद् वसुधातले ।। यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ॥ ८ ॥ स मुह्यति क्रियाकाले दृष्टा भीरुरिवाहवम् । केवलं कर्म यो वेत्ति शास्त्रार्थ नाधिगच्छति ॥९॥ सोऽचक्षुरिव नीयेत विवशोऽन्येन वर्मसु । को वास्तुविधेः स्थानं मानमुन्मानमेव च ॥ १० ॥ क्षेत्रजा(ति?नि) च कर्माणि लुमालेखा(च?श्चातुर्दश । च(त्वा'तु)रो गर्डिंकाच्छेदान् वृत्तच्छेदेषु सप्तसु ॥ ११ ।। सुश्लिष्टं सन्धिसन्धानेरधरोत्तरसंयुतम् । बाह्यरेखान्वितं शुद्धं यो जानाति स कर्मवित् ॥ १२ ॥ शास्त्रकर्मसमर्थोऽपि स्थपतिः प्रजया विना । फलेयुः कर्मभिरन्याभिः (१) स्यान्निर्मद इव द्विपः ॥ १३ ॥ १. 'वित्तो न', २. 'शल्यं य', ३. 'णेन च', ४. 'वे' ख. ग. पाठः । ५. 'ल्पे' ख. पाठः। ६. 'डि' क. पाटः । ७. 'दा वृ' ख. ग. पाठः । ८, ‘च्छा' क, ख, ग, पाठः । ९. 'ज्य' ख, ग, पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy