________________
समराङ्गणसूत्रधारे
प्रत्युत्पन्नमतिर्यः स्याद् वाहे (त: ? कः ) स्थपतिस्तथा । कर्मकाले न मुह्येत् स प्रज्ञानेनोपबृंहितः ॥ १४ ॥ अप्रज्ञेयं दुरालोकं गूढार्थ बहुविस्तरम् । प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिरं (?) तरेत् ॥ १५ ॥ ज्ञानair तथा वाग्मी कर्मस्वपि च निष्ठितः । एवं युक्तोऽपि न श्रेयान् यदि शीलविवर्जितः ॥ १६ ॥ रोषाद् द्वेषात् तथा लोभान्मोहाद् रागात् तथैव च । अन्यचिन्त्यत्वमायाति दुःशीलानामविक्षयात् (१) ॥ १७ ॥ शीलवान् पूजितो लोके शीलवान् साधुसम्मतः । शीलवान् सर्वकर्माः शीलवान् प्रियदर्शनः ॥ १८ ॥ शीर्लाघाने परं यत्नमा(धिति)ष्ठेत् स्थपतिः सदा । ततः कर्माणि सिध्यन्ति जनयन्ति शुभानि च ॥ १९ ॥ तथाचाष्टविधं कर्म ज्ञेयं स्थपतिना सदा । आलेख्यं लेख्यजातं च दारुकर्म चयस्तथा || २० | पाषाणसिद्धहेन्नां च शिल्पं कर्म तथैव च । एभिर्गुणैः समायुक्तः स्थपतिर्याति पूज्यताम् ॥ २१ ॥ स्थापत्यमङ्गैरिदमष्टभिर्यश्चतुर्विधं वेत्ति विशुद्धबुद्धिः ।
स शिल्पिनां संसदि लब्धपूजः परां प्रतिष्ठां लभते चिरायुः ॥ २२ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रवारापरनाम्नि वास्तुशास्त्रे स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः ॥
२३६
१. ' ह्य' ख. पाठः । २. 'स्तुर्ननाचरे' ख. ग. पाठः । ३. 'बी' क. पाठः । ४. 'ल' ख. ग. पाठः । ५. 'घेष्वे स्थ' ग. 915: 1 ६. 'त्त', क. पाठः । ७. ' कल्पे धर्म ' ख. ग. पाठः । ८. 'य' ग. पाठः ।
"Aho Shrut Gyanam"