________________
अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः । २३७ अथ अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ।
प्रोक्तं चतुर्धा स्थापत्यं वास्तुतत्वस्य सिद्धये । मस्तदेव चेदानीमङ्गे: संयुक्तमाभिः ॥ १ ॥ तेष्वङ्गं प्रथमं प्रोक्तं वास्तुपुंसो विकल्पना । पुरस्य विनिवेशस्तु द्वितीयं द्वारकम च ॥ २ ॥ रथ्याविभागः प्राकारनिवेशोऽहालकस्य च । विनिवेशः प्रतोलीनां विभागस्थानकानि च ॥ ३ ॥ प्रासादश्च तृतीयं स्याच्चतुर्थ तु ध्वजोच्छूितिः । पञ्चमं नृपतेर्वेश्म स्थानान्तरविभक्ति च ॥ ४॥ चातुर्वण्य विभागश्व गृहभागश्च षष्ठकम् । सप्तमं यजमानस्य शालायां मानमीरितम् ।। ५ ।। यज्ञवेदीप्रमाणं च कोटिहोमविधिस्तथा । अष्टमं राजशिविरनिवेशो दुर्गकर्म च ॥ ६ ॥ यो वेत्त्यङ्गान्यमून्यष्टो सोऽत्र स्थपतिसत्तमः । यशो मानं स लभते पूज्यते च नराधिपः ॥ ७ ॥ अशास्त्रज्ञमकमेझं स्थपति यः प्रयोजयेत् । न तस्य वास्तु सिध्येत सिद्धानुखावहम् ॥ ८ ॥ तस्मात् कर्म च शास्त्रं च यो वेत्ति द्वितयं नरः । अष्टाङ्गमपि यो वेति स राज्ञः स्थपतिर्भवेत् ।। ९ ॥ अङ्गानि पूर्वमुक्तानि वास्तुशास्त्रोक्तविस्तरात् । तेषु प्रासादिकं यत् तद् वक्ष्यामोग्रे सविस्तरम् ॥ १० ॥ अथाङ्गं सप्तमं ब्रूमो यत् तद् यज्ञेषु युज्यते । विनिविष्टे पुरे पूर्व क्लोषु सुरधामसु ।। ११ ।। दिशि दक्षिणपूर्वस्यां यज्ञार्थ भापयेद् भुवम् । निवेशं तत्र कुर्वीत चतुरश्रं समन्ततः ॥ १२ ॥ १. 'येतान्य' ख, ग. पाठः ।
"Aho Shrut Gyanam"