SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे आयामेन विधातव्यो हस्ताष्टादशविस्तृतः । पूर्वद्वारं विधातव्यमादित्यस्य पदे बुधैः ।। १३ ॥ तस्य पश्चिमभागे तु यजमानकुटी भवेत् । षोडशायामविस्तारा प्राङ्मुखी सा प्रशस्यते ॥ १४ ॥ यजमानकुटीद्वारे देवता या च कीर्तिता। ततः प्रभृति पूर्वेण प्राग्वंशं परिकल्पयेत् ॥ १५ ॥ वेदिमध्ये स्थितं तत् स्यान्मानं वेद्याश्च शस्यते । पूर्वोपरेण षट्त्रिंशत् कतेव्याः प्रक्रमा बुधैः ॥ १६ ॥ एकत्रिंशत् कुटीभागे मध्येऽष्टादश कल्पयेत् । प्रक्रमाः स्युः शिरस्थाने विंशतिश्चतुरुत्तरी ॥ १७ ॥ पुरुषस्य शिरस्तत्र प्राग्वंशे तु प्रतिष्ठितम् । तस्मात् पूर्वोत्तरं ज्ञेयं सर्वयज्ञेषु पूजितम् ।। १८ ।। वेद्यन्तरं तु कर्तव्यं शकटं येन गच्छति । तस्मादुत्तरवेदी या कार्या प्रत्युत्तरेण तु ॥ १९ ॥ द्विहस्तायामविस्तारो होमश्चेष्टः कृतोऽत्र हि ।। प्रारदक्षिणेन संस्थानं यजमानस्य शस्यते ॥ २० ॥ कटिमात्रं सदा कार्य नाभिमात्रमथापि वा। ततोऽधिकेन दुर्भिक्षमनादृष्टिश्च जायते ॥ २१ ॥ एषा यज्ञक्रिया प्रोक्ता कोटिहोमोऽथ वक्ष्यते । पुरस्याभ्यन्तरे भागे हुताशस्य पदे तथा ॥ २२॥ तस्मिन् स्थाने विधातव्यः कोटिहोमः सदा पुरे।। लक्षहोमश्च कर्तव्यो नित्यो नैमित्तिकोऽपि वा ॥ २३ ॥ अथ भूमिवशात् स्थानं कदाचिन्नैव लभ्यते । सवेतो ब्रह्मणः स्थानाद्धोमस्थानं निवेशयेत् ॥ २४ ।। ऐशानी दिशमाश्रित्य ब्राह्मणेर्वेदपारगैः । पुरश्चरणतत्त्वज्ञैः पदकर्मनिरतैः सदा ॥ २५ ॥ १. 'प्रतिक' क. पाठः । २. कथ्यते', ३. ।' क. स. ग. गटः । ४. 'राः' क, ग, पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy