________________
अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ।
नित्यं शान्तिपरैर्वि राजा तु विजयी भवेत् । नोपसर्गास्तु जायन्ते नच लक्ष्मीः पुरं त्यजेत् ॥ २६ ॥
अनावृष्टिभयं नास्ति सुभिक्षं जायते सदा । उक्तं याज्ञिकम तु सर्वाङ्गेभ्यः प्रशस्यते ॥ २७ ॥ सर्व स्थपतिना ज्ञेयं तत्वज्ञैर्ब्राह्मणैः सह । एकाशीतिपदेनैव यज्ञभूमिं तु मापयेत् ।। २८ ।।
निवेशं शिविरस्याथ कथयामोऽङ्गमष्टमम् | यदा तु नृपतिः स्थानात् स्वाद यात्राभिमुखो भवेत् ॥ २९ ॥ शिविरस्य निवेशं च तत्त्ववेत्ता परीक्षयेत् । अर्थशास्त्रविधिज्ञो वा स्थपतिर्वा प्रकल्पयेत् ॥ ३० ॥
शिविरं चतुरश्रं स्याद् वृत्तं वृत्तायतं कचित् । चतुरश्रायतं वापि विषमं वा कचिद् भवेत् ॥ ३१ ॥ भूमिभागवशात् क (पल्यं) महारथ्योभयान्वितम् । शिविरस्य तु चत्वारि कुर्याद् द्वाराणि यत्नतः ॥ ३२ ॥ रथ्या सार्धातु सेनायाः पुररथ्याप्रमाणतः । मित्रे स्थानं नरपतेः कार्यं पृथ्वीवरेऽपि वा ॥ ३३ ॥
३५ ॥
आर्य वा विधातव्यं पदे वैवस्व (तोते ) थवा । निवेश मन्त्रिणां कार्यः पश्चि (मो? मे ) राजवेश्मनः ॥ ३४ ॥ पुरोहितस्योत्तरतो बलाध्यक्षस्य पूर्वतः । अन्तःपुरं दक्षिणतो भाण्डागारं तथैव च गृहं प्रविशेतो राज्ञो न्यस्येद् दक्षिणतो हयान् । वामे च दन्तिनो न्यस्येदेवं सैन्यं निवेशयेत् ॥ ३६ ॥ वाह्यतः परिखां तस्य कारयेद् राजवेश्मनः । हस्तांस्त्रचतुरो वापि पञ्चहस्तानथापि वा ॥ ३७ ॥ चतुष्षष्टिपदाख्येन विभाज्यं शिविरं बुधैः । निवेशः शिविरस्योक्तो दुर्गकथ कथ्यते ॥ ३८ ॥
१. ' वे' क. ख. ग. पाठ: । २. 'शि', ३. 'व्यं क. पाठः ।
"Aho Shrut Gyanam"
२३९