________________
३८
प्रमाणलक्षणम् ।
[१.२
(टि०) - अयं हीति दोषसं लेषः । अत्रेति विद्वज्जनसंदसि । संख्यायतामिति विदुषां तार्किकाणां प्रसिद्धये ।।
नापि हेतोः । स खल्वसिद्धता, विरुद्धता, व्यभिचारो वा भवेत् ! यदि तावदसिद्धता, तदाऽपि किमन्यतरासिद्धिः, उभयासिद्भिर्वा भवेत् ? अन्यतरासिद्धि चेत् । तदाऽपि वादिनः, प्रतिवादिनो वाऽन्यतरस्येयमसिद्धिः स्यात् ? यदि वादिनः, तदा किं स्वरूपद्वारेण, आश्रयद्वारेण, भिन्नाधिकरणताद्वारेण, पक्षैकदेशद्वारेण, प्रतिज्ञार्थकदेशद्वारेण वाऽसौ स्यात् ? स्वरूपद्वारेण चेत् । तल्कि हेतुस्वरूपे विप्रतिपत्तेः, अप्रतिपत्तेः, सन्देहाद वा ? न प्राच्यः प्रकारः सारः, प्रमाणत्वाख्यहेतुस्वरूपे समस्तप्रामाणिकपरिपदामविवादात् । नाऽपि द्वितीयः प्रमाणस्वरूपमप्रतिपद्यमानस्य वादिनोऽग्रामाणिकत्वप्रसङ्गात् । नापि तृतीयः, सर्वथैवानितिप्रमाणस्वरूपस्य प्रतिपत्तस्तत्र सन्देहानुत्पादात् । न खलु सकलकालमनाकलितस्थाणुत्वस्य स्थाणुत्वपुरुषत्वो लेखी सन्देहः कस्याऽपि संपद्यते । तत्स्वरूपप्रतिपत्तौ वा क्वचित् कथं सर्वथा प्रमाणस्वरूपे संशयः स्यात् ? आश्रयासिद्धिव्यधिकरणासिद्धी तु वादिनो जैनस्य दोपावेव न संमतौ, अस्ति सर्वज्ञः सुनिश्चिताऽसम्भवबाधकप्रमाणत्वात् , उदेष्यति शकटं कृत्तिकोदयात्इत्यादेर्गमकत्वेन स्वीकृतत्वात् । संमतत्वे वा न तयोरत्रावकाशशङ्काशङ्कुसंकथा, प्रमाणस्य धर्मिणः सकलवादिनामविवादास्पदत्वात् , प्रमाणत्वहेतोस्तत्र वृत्तिनिर्णयाच्च । पक्षकदेशासिद्धताऽपि नात्र साधीयस्तां दधाति । सा हि संपूर्णपक्षाव्यापकत्वे सति संभविनी। सचेतनास्तरवः स्वापात्-इत्यादिवत् । न चैतदत्रास्ति । नाप्यनित्यः शब्दोऽनित्यत्वादित्यादिवत् प्रतिज्ञार्थंकदेशासिद्धताऽभिधानीया, तस्यास्तत्त्वतः स्वरूपासिद्रिरूपत्वात् । अन्यथा धर्मिणोऽपि हेतुत्वे तत्प्रसङ्गात् । स्वरूपासिद्भिश्चात्र न यथा स्थेमानमास्तिघ्नुते, तथाऽनन्तरमेव न्यरूपि । इति न वादिनः साधनमसिद्धमेतत् । नापि प्रतिवादिनः, तत्राप्येवंप्रकारप्रकारकल्पनाप्रबन्धस्य प्रायः समानत्वात् । अत एव वादिप्रतिवाद्युभयस्यापि नासिद्धमिदम् । एवं च कथमिदं साधनमसिद्धिसम्बन्धं दधीत ?
વળી અહીં હેતુદોષ નથી. જે હોય તે તે અસિદ્ધતા, વિરુદ્ધતા કે વ્યભિચાર છે? અસિદ્ધતા દોષ હોય તો શું તે અન્યતરસિદ્ધ કે ઉભયાસિદ્ધ છે? અન્યતરાસિદ્ધ હોય તે તે વાદીને છે કે પ્રતિવાદને? વાદીને અસિદ્ધ છે તે તે શું સ્વરૂપસિદ્ધિ–હેતુના સ્વરૂપની અસિદ્ધિને કારણે, આશ્રયની અસિદ્ધિને કારણે, હેતુ અને સાધ્યના અધિકારણે ભિન્ન હોવાને કારણે, પક્ષના એક દેશમાં અસિદ્ધિને કારણે કે પછી પ્રતિજ્ઞારૂપ અર્થને એકદેશરૂપ હેતુ બની જાય છે એ કારણે છે. જે હેતુના સ્વરૂપની અસિદ્ધિ છે તે તે શું હેતુના સ્વરૂપ વિષે વિપ્રતિપત્તિ અર્થાત વિવાદ છે તેથી કે તેનું જ્ઞાન નથી તેથી કે તેમાં સંદેહ હોવાથી ?
१. प्रकारो विकल्पः-मुटि
---
--
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org