Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
२. २३]
सर्वक्षत्वसिद्धिः । सकलं वा ! विकलम-यवधिलक्षणम् , मनःपर्यायरूपं वा ? नैतत्पक्षद्वयमपि क्षेमाय. द्वयस्याऽस्य क्रमेण रूपिद्रव्यमनोवर्गणागोचरत्वेन तद्वाधनविधावधीरत्वात् । सकलं चेत्, अहो ! शुचिविचारचातुरी. यत्केवलमेव केवलप्रत्यक्षस्याऽस्याऽभावं विभावयतीति वक्षि । वन्ध्याऽपि प्रसूयतामिदानी स्तनन्धयान् । वान्ध्येयोऽपि च विधत्तामुत्तंसान्।
सांव्यवहारिकमप्यनिन्द्रियोद्भवम्, इन्द्रियोद्भवं वा ? न तावत् प्रथमम्, अस्य प्रातिभातिरिक्तस्य स्वात्माविष्वग्भूतसुखादिमात्रगोचरत्वात् । प्रातिभं तु तद्बाधक नानुभूयत एव । ऐन्द्रियं तु स्वकीयम्, परकीयं वा ? स्वकीयमपीदानीमत्र तद् बाधेत्, सर्वत्र सर्वदा वा ? प्राचि पक्षे, पिष्टं पिनष्टि भवान् . तथा तदभावस्याऽस्माभिर यभीष्टेः । द्वितिये तु , सर्वदेशकालानाकलय्येदं तदभावमुद्भावयेत्, इतरथा वा ! आकलय्य चेत् । आकालं नन्दताद् भवान् । 'भवत्येव सकलकालकलाकलापाशेषदेशविशेषवेदिनि वेदनस्य तादृशः प्रसिद्धेः । अनाकलय्य चेत् । कथं सकलदेश. कालाऽनाकलने सर्वत्र सर्वदा वेदनं तादृग् नास्तीति प्रतितिरुल्लसेत् ! परकीयमपीदानीमत्र तद्भावं वाधेत, सर्वत्र सर्वदा वेत्यादि विकल्पजालजर्जरीभूतं न तबाधनधुरां धारयितुं धीरतां दधाति । कथं वा परगृहरहस्याभिज्ञो भवानेवमभूत् ? 'तादृक्षप्रत्यक्षप्रतिक्षेपदक्षं प्रत्यक्षं प्रावर्तिप्ट मम' इति तेन कथनाच्चेत् । यदि कथिते प्रत्ययः, तर्हि 'तादृक्षाध्यक्षप्रतिक्षेपि प्रत्यक्षं नास्त्येव' इत्युत्तम्भितहस्ता वयं व्याकुर्मह इति किं न तथाऽनुमन्यसे ? अथ न यौष्माकीणः प्रमाणप्रवीणः समुल्लापः । परकीयः कथमिति वाच्यम् ! न खल्वयं स्वप्रत्यक्षं त्वत्प्रत्यक्षं कर्तुं शक्नोति, वचसा तु यथाऽसौ कथयति, तथा वयमपि । . अथ तदुपदर्शितेऽर्थे संवादात् तद्वचः प्रमाणम् । नन्वेवं प्रत्यक्षम्, अप्रत्यक्ष वा संवादकं स्यात् ! इत्यादिपूर्वोक्तावर्तननाऽनवस्थावल्लिल्लसन्ती कथं कर्तनीया ! किञ्च, संविदामिन्द्रियागोचरत्वादैन्द्रियमध्यक्षं सकलप्रत्यक्षस्य विधौ प्रतिपेधे वा मूकमेव वराकम् । न च त्वन्मतेनाभावः प्रत्यक्षेण प्रेक्ष्यते, तथात्वे हि किमिदानीमपहृतसर्वस्वेन तपस्विनाऽभावप्रमाणेन कर्तव्यम् ।। तन्न प्रत्यक्षं तद्बाधविधानसंविधानोद्धरम् ।
$ ૨ કેવલજ્ઞાનને નહીં માનનાર મીમાંસકની મનીષા(બુદ્ધિ)ની મીમાંસા કરવી જરૂરી છે. તે આ પ્રમાણે–સકલ પ્રત્યક્ષ-કેવળજ્ઞાનનું ખંડન કરે છે, તે તે શું બાધક પ્રમાણ હોવાથી કે કઈ સાધક પ્રમાણ મળતું નથી માટે ? બાધક માનવામાં આવે તે તે પ્રત્યક્ષ પ્રમાણ છે કે અપ્રત્યક્ષ પ્રમાણ? પ્રત્યક્ષ માનતા
१ सप्तमी।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254