Book Title: Prashnottar Shatam Author(s): Ratnakirtivijay, Trailokyamandanvijay Publisher: ZZ_Anusandhan View full book textPage 5
________________ फेब्रुआरी - २०१२ ३७ हरति क इह कीदृक् कामिनीनां मनांसि?, व्यरचि सचिवभावः केन [धू]मध्वजस्य? । ३क्षयमुपगमिता रुक् कीदृशेनाऽऽतुरेण?, प्रसरति च विबाधा कीदृशीहाऽर्शसानाम्? ॥१२॥ नायुवा वायुना जायुपा पायुजा । १. ना- पुरुषः युवा- तरुणः । २. वायुना- वातेन । ३. जायु ना युवा औषधं पिबति, विच्, जायुपाऽनेन । ४. पायौ- अपाने जातापायुजा ॥१२॥ वाजि-बलीवर्द-विनाश-सुष्ठुनिष्ठुर-मुरद्विषो यमिह । प्रश्नं विदधुर्वपुषस्तस्मिन्नेवोत्तरमवापुः ॥१३।। हेतुरङ्गमोक्षान्तसुखराजिनयेकः । १. मोक्षान्तं च तत्सुखं च मोक्षान्तसुखम्, तस्य राजिः श्रेणिस्तस्यां नये प्रापणे, हे अङ्ग!- शरीर!, हेतुः- कारकं कः? । तुरङ्गमश्चाऽश्वं(श्वः), उक्षा च गौः, अन्तश्चाऽवसानम्, सुखरं चाऽतिकठिनम्, अश्च विष्णुः, ते तथा, तस्य सम्बोधनम् - हे तुरङ्गमोक्षान्तसुखराः!, जिन एकः ॥१३॥ क्रव्यादां केन तुष्टिर्जगदनभिमता का? ३रिपुः कीदृगुग्रः?, ४कं नेच्छन्तीह लोकाः? प्रणिगदति गिरिर्वृश्चिकानां विषं क्व? । कुत्र क्रीडन्ति मत्स्याः ? प्रवदति मुरजित् कापिले भोगभाक् कः?, कीदृक् का कीदृशेन प्रणयभृदपि चाऽऽलिङ्ग्यते न प्रियेण? ॥१४॥ अस्नातास्त्रीमङ्गलेप्सुना। ना नाता अष्टदलकमलम् । प्सु अस्त्री १. अस्ना- मांसेन । २. अता- अलक्ष्मीः । ३. अस्त्रं- शस्त्रं विद्यते यस्य स अस्त्री । ४. अमं- रोगम् । ५. हे अग!- पर्वत!, अले- पुच्छे । ६. अप्सुपानीयेषु । ७. हे अ!- विष्णो!, 'ना-पुरुषः । [८. अस्नाता स्त्री मङ्गलेप्सुना नाऽऽलिङ्ग्यते ।] ॥१४॥ 1. आत्मा इति टि० ।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47