Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
४४
अनुसन्धान-५८
१. हे मस्!- चन्द्र! ऐस्त्वम् । इण् गतौ, ह्यस्तनी सि, विकरणलोपे अवर्णस्याऽऽकार इति वृद्धौ रूपम् । २. मया ए:- कामस्य । ३. मयैःउष्ट्रैः। ४. हे मे!- लक्ष्मि!, ऎविष्णुभिः ॥३७॥
गुरुरहमिह सर्वस्याऽग्रजन्मेति भट्ट,
समदममदयिष्यन् कोपि कुप्यन् किमाह? । त्वमलदयपदं वा आश्रया-ऽभाव-मूर्छा
कटक-नगविशेषान् कीदृगामन्त्रयेत? ॥३८॥ आविप्रवमाद्यत्वमदम् ।
१. आः खेदे, हे विप्र!- द्विज!, वम- मुञ्च आद्यत्वमदं- प्रथमत्वाऽहङ्कारम् । २. आश्च विश्च प्रश्च वश्च मश्च आदौ यस्य स चाऽसौ (तच्च तत्), न विद्यन्ते त्वश्च मश्च दश्च यत्र स च तम् (तच्च तद्) ॥३८॥
कीदग मया सह रणे दैत्यचमूरभवदिति हरिः प्राह? ।
'लोको वदति किमर्थं का विदिता दशमुखादीनाम्? ॥३९॥ क्षीणारिहयवाहनाज । गतागतः ।
१. क्षीणानि अरीणां हयवाहनानि यस्यां सा तथा, हे अज!- हरे! । २. हे जन!- लोक!, आहवाय- सङ्ग्रामाय हरिणाक्षी- सीता ॥३९॥
'दृष्ट्वाऽग्रतः किमप्यवसादवन्तं,
- स्वामी पुरःस्थितनरं किमभाषतैकम्? । कश्चिद् ब्रवीत्यधिजिगीषुनृपा अकार्षीत्,
किं कीदृशो वदत राजगणोऽत्र केषाम्? ॥४०॥ अयंसीदतिरेकोनः ।
१. रे नः!- पुरुष! अयं सीदति कः? । २. अयंसीत्- उपरमितः, अतिरेकोऽधिको नोऽस्माकम् ॥४०॥
1. अगच्छ: इति टि० । 2. अ: विष्णुः, तद्भक्तैः ऐ: वैष्णवैः - इति स्यात् सं. । 3. मदं निवारयन् इति टि० ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47