Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ फेब्रुआरी २०१२ 'शुभगोरसभूमीरैभि किमाह तज्ज्ञः स्मरेन्दिरापृष्टः? । `विरा(र)होद्विग्नः कामी निन्दन् दयितां किमभिधत्त 111? ॥४८॥ ४७ क्षीरादिमनोहारीमासु । गतागतः । १. क्षीरादि मनांसि हरतीत्येवंशीलं मनोहारि, इश्च मा च इमं तत्सम्बोधनं हे !, आसु भूमिषु । २. सुमारी, हा खेदे, नोऽस्माकं मदिराक्षी ॥४८॥ इह के मृषाप्रसक्ता नरनिकरा इति कृते सति प्रश्ने । यत् समवर्णं तूर्णं तदुत्तरं त्वं वद विभाव्य ॥४९॥ केलीकरतामनुजनिवहाः । के अलीकरता मनुजनिवहा:- पुरुषसङ्घा: ? । केलीकरस्य भावः केलीकरता तां अनु आश्रित्य जनि- उत्पत्तिं वहन्ति ये ते जनिवहाः ॥४९॥ 'बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह? | 'पीत्वाच्छलेन दशनच्छदमुग्रमानां, भर्त्ता किमाह दयितां किमपि ब्रुवाणाम् ? ॥५०॥ अधरंतवाहमपिबंधवोनमे । १. नोऽधरन्त- न भृतवन्तः, वाहमपि - अश्वमपि, बन्धवो मे - मम। २. तवाऽधरमोष्ठमहमपिबम् । धवो - भर्त्ता न मे, साहङ्कारम् ॥५०॥ 'श्रीराख्यदहं प्रियमभि किमकरवं? का च कस्य जनयित्री? । ३अदिवारी शब्दो वा कैस्त्यक्तः प्राह गृहदेशम् ? ॥५१॥ यैः । त्रिः समस्तः । १. हे इ!– लक्ष्मि!, ऐ:- अगच्छस्त्वम् । २. या- लक्ष्मीः, एःकामस्य। ३. इश्च ईश्च अश्च यास्तैः [द्वार इति भवति ।] ॥५१॥ 'कीदृक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता कतमस्य धातो: ? । उत्कण्ठयेद् विरहिणं क इह प्रसर्पन् ?, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक् ? ॥५२॥ 1. लक्षीकृत्य इति टि० ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47