Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
फेब्रुआरी - २०१२
७१
ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चाऽऽरुह्यते?, “वक्त्यार्किः क्व चुरा? चकाऽस्ति विमले कस्मिन् सरोजावली? ॥१३४॥
विपर्यस्तमञ्जरीसनाथजातिः । किं कुरुथः के कीदृकौ(शौ) [यु]वामलसौ? पृच्छति तनुरुहरोगः ।
'छेत्तुमवाञ्छन् वरमारामं केनाऽप्युक्तः कोऽपि किमाह? ॥१३५।। गतागतम् । नेवस्तेशयालूलोमाम । त्रिभिरेकमुत्तरम् ।
१. हे नेम!- अर्द्ध! । २. वम- त्यज, हे स्तेम!- आर्द्रभाव!, ष्टिम ष्टीम आर्द्रभावे । आदित्यकिरणेषु सत्सु आर्द्रभावो न भवतीत्यर्थः । ३. हे शम! । ४. हे याम!- प्रहर! । ५. हे लूम!- पुच्छ! । ६. हे लोम!- रोम! । ७. हे माम!- मातुल! ॥१३३॥
१. मन, इ!, माने-ऽहङ्कारे च्युते सति । हे कमले! हरेः सम्बन्धिभिश्चाटुकारैः अहङ्कारे माने च्युते- व्यतीते सति हरेविष्णोः सम्बन्धिनी भक्तिस्त्वया मनिता इत्यर्थः । २. लोने- लकारेण ऊने, शुक इति खगप्रभुरित्यर्थः । ३. लूने- छेदिते । ४. याने- वाहने । ५. हे शने!- शनैश्चर!, स्तेने- चौरे । ६. वने- पानीये ॥१३४॥
१. न इवो- न गच्छावः, इण् गतौ, वर्तमाना वसि रूपम् । ते- लक्ष्म्यौ [शयालू]-आलस्येन शयनशीलौ भदन्तौ कर्मतापन्नौ लक्ष्म्यौ कयौँ आवां न श्रयावः इत्यर्थः । लोमानाममो- रोगो लोमामस्तस्य सम्बोधनं हे लोमाम! । २. मे- मम अलोलूया- अलवितुमिच्छा शस्ते- प्रशस्ते वने ॥१३५॥
का कीदृक्षा वदत भविनां? वक्ति मृत्यूग्ररोगः, २शोचत्यन्तः किल विधिवशात् कीदृगित्युत्तमा स्त्री? ।
गम्भीराम्भःसविधजनता कीदृशी स्याद् भयार्त्ता?,
"ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः? ॥१३६।। तागत्वरीमरक करमरीत्वगता । सारतरीपरमा मारपरीतरसा । मन्थानजातिः ।
१. ता- लक्ष्मीर्गत्वरी- विनश्वरा, हे मरक! २. करमरीत्वं गता करमरीत्वगता सती शोचति । ३. सारा चाऽसौ तरी च सारतरी, तस्यां परमा1. बन्दीभावम्, देश्यशब्दोऽयम् इति टी. ।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47