Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 42
________________ ७४ अनुसन्धान- ५८ तस्मिन् ॥१४१॥ १ध्वान्तं ब्रूतेऽर्हतां का तृणमणिषु ? 'खगः कश्चिदाख्याति केन, प्रीतिर्मेऽथाऽऽह कर्म प्रसभकृतमहो दुर्बल: केन पुष्येत् ? । "कामधुग् वक्ति काऽत्र प्रजनयति शुनो ? ५ [ युद्धहृ]त् पूर्वलक्ष्मीसत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदाश्वासनीयः ? ॥१४२॥ तामस । [ समता । सारस । सरसा । स ] हसा । साहस । मारस । सरमा । समरहर ! तासासा मास । पद्मजातिः । सा र स ह सा र मा १. तामस!, समता । २. हे सारस!, सरसासरोवरेण । ३. हे साहस !- अपर्यालोचितकर्म!, सहसा - बलेन । ४. मारं स्यति - तनूकरोतीति मारसस्तत्सम्बोधनंहे मारस!, सरमा- शुनी । ५. समरे - सङ्ग्रामे हरतीति समरहरस्तत्सम्बोधनं समरहर !, ता - लक्ष्मी:, सा सासैव, मा आस- चिक्षेप ॥ १४२ ॥ 'किमभिदधौ करभोरुं सततगतिं किल पतिः स्थिरीकर्तुम् ? । 'जननी पृच्छति विकचे कस्मिन् सन्तुष्यति भ्रमरः ? ॥१४३॥ मातरम्भोरुहे । ता म १. माऽत- मा गच्छ, रम्भावदूरू यस्याः सा तथा, तस्याः सम्बोधनंहे रम्भोरु ! | २. हे मातः ! - जननि!, अम्भोरुहे- पद्मे ॥ १४३॥ प्राधान्यं धान्यभेदे क्व कथय [ति ] चयं (यः) ? कीदृशी वायुपत्नी, नक्षत्रं वक्ति कुर्वे महमिनमिति प्राह तत्स्तोत्रजीवी । 'ब्रूहि ब्रह्मस्वरं च 'क्षितिकमभिगदाऽथोल्लसल्लीलमञ्जूल्लापामामन्त्रय स्त्रीं 'क्व सजति न जनः प्राह कोऽप्यम्बुपक्षीः ॥१४४॥ कलमे । मेलक । करता । तारक । सेवक । कवसे । कराव । वराक । कलरवरामे । तासे बक । पद्मजातिः । १. कलमे - शालौ, हे मेलक! - चय! । २. के- वायौ रता करता, हे तारक! - नक्षत्र! । ३. हे सेवक!, कवसे- स्तौषि । ४. कस्य - ब्रह्मणो राव:शब्दः करावस्तत्सम्बोधनं - हे कराव ! । ५. हे वराक - क्षितक । ६. कलो

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47