Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
७८
अनुसन्धान-५८
"पाणौ किं मुरजिद् बिभति? ५भुवि तं ध्यायन्ति वा के सदा?,
के वा सद्गुरवोऽत्र चारुचरण-श्रीसुश्रुता विश्रुताः? ॥१५५।। श्रीमदभयदेवाचार्याः ।
१. श्री, श्री पाके । २. ममाऽभयं ददातीति मदभयदस्तस्मिन् । यो मदभयं ददाति तत्र मम मनः प्रीतियुक्तं भवतीत्यर्थः । ३. वाचा- वचनेन । ४. अरा विद्यन्ते यत्र तदरि- चक्रम् । ५. ऐ- विष्णौ भक्तिर्येषां ते आवैष्णवाः, 'तत्र भक्ति रित्यण् ॥१५५॥
'कः स्यादम्भसि वारिवायसवति? 'क्व द्वीपिनं हन्त्ययं, लोकः? २प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः? । "ब्रूते पालयिताऽत्र दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधे
पबृंहि त्वं जिनवल्लभ! स्तुतिपदं कीदृग्विधाः के सताम्? ॥१५६॥ मद्गुरवो जिनेश्वरसूरयः ।
१. मद्गुर्जलवायसः, तस्य रवः- शब्दः । २. अजिने- चर्मणि, 'निमित्तात् कर्मसंयोगे सप्तमी वाच्या'ऽनेनाऽजिनेत्यत्र सप्तमी । ३. हे अश्व!हय!, रस्, तुस[हृसह्लशरस] शब्दे इति वचनात् । ४. ऊ!- रक्षक!, अवतीति क्विप्, श्रव्यथेत्यादिना ऊटि रूपम्, रयो- वेगः । ५. मम जिनवल्लभस्य गुरवो मद्गुरव, एवंविधाः सन्तः के? जिनेश्वरसूरयः, सतां- शिष्टानां स्तुतिपदमित्यर्थः ॥१५६॥
'प्रत्येकं हरि-धान्यभेद-शशिनः पृच्छन्ति किं लुब्धक!, त्वं प्राप्तं कुरुषे मृगव्रजेमथो खादद्गृहीताऽवदत् । कीदृग् भाति सरोऽर्हतश्च सदनं? २किं चाऽल्पधीर्नाऽऽप्नुवन्,
पृष्टः प्राह? "तथा च केन मुनिना प्रश्नावलीयं कृता? ॥१५७।। जिनवल्लभेन । गतागतद्विर्गतः ।
१. हे जिन!- विष्णो!, हे वल्ल!- धान्यभेद!, भं- नक्षत्रं, तस्य इनःस्वामी भेनस्तस्य सं.- हे भेनेन्दो!, नभे, णभेत्यस्य वर्तमाना ए रूपम् । त्रयाणामपि सम्बोधनम् । २. अत्- अदन्-खादन् लाति- गृह्णाति अल्लः, 'अद-प्सा भक्षणे'ऽत्तीति अत्, क्विप्, परो लाऽऽदाने, आतोऽनुपसर्गादिति कः, पररूपे सम्बोधने - हेऽल्ल!, वनजि, वनं- पानीयं, तत्र जातं वनजं, तद् विद्यते

Page Navigation
1 ... 44 45 46 47