Page #1
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
श्रीजिनवल्लभसूरिचितं प्रश्नोत्तरशतम् (सटीकम्)
- सं. मुनि रत्नकीर्तिविजय ___ मुनि त्रैलोक्यमण्डनविजय
खरतरगच्छीय श्रीजिनवल्लभसूरिजी-विरचित 'प्रश्नोत्तरशतम्'काव्य प्रहेलिकामय विशिष्ट रचना छे. आ काव्य पर रचायेली अनेक टीकाओ ज आ काव्यनी प्रसिद्धिनो पुरावो छे. काव्यना नाममां सो-नी संख्या सूचित थती होवा छतां, काव्यनी प्रायः दरेक वाचनामां दोढसोथी पण वधु श्लोक मळे छे. अत्रे सम्पादित सटीक वाचनामां १५८ श्लोको छे.
सम्पादित करेली अज्ञातकर्तृक टीका अवचूरि स्वरूपनी छे. मूळ काव्यमां ओक के बे श्लोकमां अक साथे घणा बधा प्रश्नो पूछी तेना जवाब तरीके कूटाक्षरो लखवामां आव्या छे. आ कूटाक्षरोमांथी सन्धिविच्छेद, अक्षरोनी आगळ-पाछळ गोठवणी वगेरे द्वारा दरेक प्रश्ननो जवाब मेळववानी रीत टीकामां सरस रीते देखाडवामां आवी छे. टीका प्रमाणमां घणी संक्षिप्त होवा छतां वांच्या पछी अस्पष्टता लगभग नथी रहेती, ते अनी विशेषता छे.
अत्रे सम्पादनमा कूटाक्षरमय जवाब घाटा अक्षरे छापवामां आव्यो छे. वाचकोनी सरळता माटे श्लोकगत प्रश्नो अने टीकागत उत्तरोने अलग-अलग करी दरेकने क्रमांक आपवामां आव्या छे. केटलांक स्थाने चित्रालंकारनी आकृतिओ प्रतमा हती ते प्रमाणे मूकी छे.
आ टीका- सम्पादन वि. १६१८मां लखायेली हस्तप्रत परथी करवामां आव्युं छे. प्रत अत्यन्त अशुद्ध अने त्रुटित पाठ धरावे छे. जो म. विनयसागरजी अने आ. सोमचन्द्रसूरिजी द्वारा सम्पादित थयेला, आ ज काव्यनी अन्य टीका साथेना 'प्रश्नोत्तरैकषष्टिशतककाव्यम्' नामना पुस्तकनी सहाय न होत तो मात्र आ प्रतना आधारे प्रस्तुत स्वरूप, सम्पादन अशक्य ज हतुं. काव्य अने टीकामां शुद्धीकरण, त्रुटित अंशोनी पूर्ति व. आ पुस्तकने सहारे ज थयुं होवाथी तेओर्नु अत्रे कृतज्ञभावे स्मरण करीओ छीओ.
Page #2
--------------------------------------------------------------------------
________________
३४
अनुसन्धान- ५८
क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानै - दशविधतनुभाजामुज्ज्वलं मोक्षमार्गम् । युगपदिव दिशन्तं पार्श्वमानम्य सम्यक्,
कतिचिदबुधबुद्ध्यै वच्य[थ?][प्र]श्नभेदान् ॥१॥ 'कीदृग्वपुस्तनुभृतामथ 'शिल्पि -शिक्य- देहानुदाहरति काध्वनिरत्र कीदृग्? । ३काश्चाऽऽरु[ह]न् समवसृत्यवनौ भवाम्बु- मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः? ॥२॥ जिनदन्तरुचयः ।
१. जिनत् - हानिं गच्छत् । ज्या हानौ, शन्तृ इ, ना विकरणे, ग्रहिज्यावयीत्यादिना... [सम्प्रसारणम् ], दीर्घेत्यादिना दीर्घत्वम्, प्वादीत्या [दि]ना ह्रस्वत्वम्, क्र्यादीत्यादिना आकारलोपः । २. रुश्च चश्च यश्च रुचयास्तेऽन्ते यस्य काध्वनेः । ततो यथाक्रमं 1 कारु 2 काच 3 काय इति भवति । ३. अर्हद्दशनदीप्तयः
॥२॥
-
'सश्रीकं यः कुरुते स कीदृगित्याह जलचरविशेषः । २अप्सु ब्रुडत्किमिच्छति? कीदृक्कामी ? च किं वाञ्छेत् ? ॥३॥
समुद्रतरणम् ।
१. सह मया - लक्ष्म्या वर्त्तते इति समः । तं करोति इन्, ततः क्विप् । उद्रः कश्चिज्जीवविशेषः । हे उद्र!, सम् । २. तरणम् - प्लवनम् । ३. सह मुदा - हर्षेण वर्त्तते य: स समुद् । ४. कामी रते - मोहने रणं- युद्धम् ||३||
'कीदृक् पुष्पमलिव्रजो न भजते ? 'वर्षासु केषां गति
र्न स्यादध्वनि? कं श्रितश्च कुरुते कोकं सशोकं रविः ? । 'लङ्केशस्य किल स्वसारमकरोद् रामानुजः कीदृशीं ?
"केषां वा न [मनो] मुदे मृगदृशः शृङ्गारलीलास्पृश: ? ||४|| अपरागमनसाम् ।
१. अपगतो रागः- किञ्जल्को यस्मात् तदपरागम् । २. अनसां शकटानाम् । ३. अपरस्यां दिशि अग:- पर्वतः अपरागस्तम् । ४. अनसां - नासारहिताम् । नासाया नस् विशेषलक्षणतः । ५. अपगतो रागो मनसि - चित्ते येषां ते अपरागमनसस्तेषाम् । द्विर्व्यस्तसमस्तजातिः ॥४॥
-
Page #3
--------------------------------------------------------------------------
________________
फेब्रुआरी २०१२
प्रभविष्णुविष्णुजिष्णुनि युद्धे कर्णस्य कीदृगभिसन्धि: ? । ’नकुलकुलसङ्कुलभुवि प्राय: स्यात् कीदृगहिनिवहः ? ॥५॥
विलसदनरतः ।
१. अश्च विष्णुर्नरश्चाऽर्जुनस्तौ अनरौ । विलसतौ च तौ अनरौ च तस्यतिक्षयं नयति इति [क्विप्] । धातुत्वान्न दीर्घः । २. बिलसदनरतः - छिद्रगृहासक्तः ॥५॥
३५
'ब्रूतो ब्रह्मस्मरौ के रणशिरसि जिताः केन जेत्राऽऽह विद्वानुद्यानं स्यान्न कीदृग् ? जलधिजलमहो कीदृशं स्यान्न गम्यम् ? । ४को मां वक्त्याऽऽह कृष्णः ? 'क्व सति पटु वचः ? स्यादुतः केन वृद्धिस्त्याज्यं कीदृक् तडागं? 'नतिमति लघु[का] किं करोत्युत्कटं किम् ? ॥६॥ वीराज्ञाविनुदतिपापम् । शृङ्खलाजातिः ।
भूपेन ।
१. उश्च इश्च वी हे वी! । वीरा:- सुभटाः । केन जेत्रा? राज्ञाI २. जानातीति ज्ञः हे ज्ञ! । न विद्यन्तेऽवयः पक्षिणो यत्र तत् अवि उद्यानं न भवति । ३. विगता नौर्बेटिका यत्र तत् विनु । ४. नौतीति नुत् । हे अ!विष्णो! यस्त्वां नौति स वक्ति । ५. दति - दशने सति । दन्तस्य दतीति दत् । पटुवचनो भवतीत्यर्थः । ६. तिपा - तिप्रत्ययेन, 'उतो वृद्धि' रित्यादिना । ७. अपगताः आपः- पानीयानि यत्र तत् पापम् । 'वष्टी' त्यादिना अलोपः । [८. वीराज्ञा उत्कटं पापं विनुदति ॥] ॥६॥
'दृष्ट्वा राहुमुखग्रस्यमानमिन्दुं किमाह तद्दयिता? | असुमेति पदं कीदृक् कामं लक्ष्मीं च बोधयति ? ॥७॥
अवतमसम् ।
१. अवत- रक्षत मसं - चन्द्रम् । २. न विद्यन्ते उश्च अश्च तश्च मश्च सश्चवतमसो यत्र तत् अवतमसं, ततो हे ए! - काम!, हे इ! - लक्ष्मि ! इति भवति
11911
'कमभिसरति लक्ष्मी: ? किं सरागैरजय्यं ?,
सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम्? । सततरतविमर्द्दे निर्द्दये बद्धबुद्धि:, किमभिलषति कान्ता? 'किं च चक्रे हनूमान् ? ॥८॥
Page #4
--------------------------------------------------------------------------
________________
३६
अक्षरणम् । चलद्विन्दुजाति: ।
१. अं- विष्णुम् । २. अक्षं - इन्द्रियम् । ३. चलतीति । ४. अक्षरणं- अचलनम् । ५. अक्षैः वा ॥८॥
अनुसन्धान- ५८
अक्षरं - ज्ञानम् । न क्षरतिपाशैः रणं - सङ्ख्यं सङ्ग्रामो
भूरापृच्छति किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् । 'पीतांशुकं किमकरोत् कुत्र ? क्व नु मादृशां वासः ? ॥९॥
कोकनदे ।
१. हे को! - पृथिवि !, अकनत्- अशोभत ए - विष्णौ । २. हे कोक!चक्रवाक!, नदे- हूदे |
'हरि - रति-रमा यूयं कान् किं कुरुध्वमदोऽक्षरं,
किमपि वदति ? जे गीतश्रियाऽपि च कीदृशा ? | ३जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?, * गतशुभधियां का स्यात् कुत्राऽभियोगविधायिनाम् ॥१०॥ यानताम स समतानया विभुता सदा दासता भुवि । मन्थानकजातिः । १. ईश्च इश्च अश्च यास्तान् अताम - गच्छाम हे स! | हरिः ईं- लक्ष्मीं, रतिः इं- कामं, लक्ष्मीः अं- विष्णुं यातीत्यर्थः । २. समः तानो यस्यां सा समताना, तया । ३. विभुता नायकत्वम्, सदा सर्वकालम् । ४. दासता कर्मकरत्वम्, भुवि पृथिव्याम् ॥१०॥
वि
भ
या न ता म स
स
दा
'प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य? | `उरशब्दः कल्याणद-बल- -हिम-शृङ्गान् वदति कीदृग् ? ॥११॥
आदिश्यन्तरवविशिखानुः ।
१. आदिष्टा, रवविशिखाः- शब्दबाणाः, नुः- पुरुषस्य । २. न विद्यते उर्यत्र स अनुः । आदौ शिः अन्तरे - मध्ये वश्च विश्च शिश्च खश्च यस्य स चाऽसौ अनुश्च स तथा । ततो यथाक्रमं शिवरः शिबिरं शिशिरं शिखरं इति भवति ॥११॥
Page #5
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
३७
हरति क इह कीदृक् कामिनीनां मनांसि?,
व्यरचि सचिवभावः केन [धू]मध्वजस्य? । ३क्षयमुपगमिता रुक् कीदृशेनाऽऽतुरेण?,
प्रसरति च विबाधा कीदृशीहाऽर्शसानाम्? ॥१२॥ नायुवा वायुना जायुपा पायुजा । १. ना- पुरुषः युवा- तरुणः । २. वायुना- वातेन । ३. जायु
ना युवा औषधं पिबति, विच्, जायुपाऽनेन । ४. पायौ- अपाने जातापायुजा ॥१२॥
वाजि-बलीवर्द-विनाश-सुष्ठुनिष्ठुर-मुरद्विषो यमिह ।
प्रश्नं विदधुर्वपुषस्तस्मिन्नेवोत्तरमवापुः ॥१३।। हेतुरङ्गमोक्षान्तसुखराजिनयेकः । १. मोक्षान्तं च तत्सुखं च मोक्षान्तसुखम्, तस्य राजिः श्रेणिस्तस्यां नये प्रापणे, हे अङ्ग!- शरीर!, हेतुः- कारकं कः? । तुरङ्गमश्चाऽश्वं(श्वः), उक्षा च गौः, अन्तश्चाऽवसानम्, सुखरं चाऽतिकठिनम्, अश्च विष्णुः, ते तथा, तस्य सम्बोधनम् - हे तुरङ्गमोक्षान्तसुखराः!, जिन एकः ॥१३॥
क्रव्यादां केन तुष्टिर्जगदनभिमता का? ३रिपुः कीदृगुग्रः?, ४कं नेच्छन्तीह लोकाः? प्रणिगदति गिरिर्वृश्चिकानां विषं क्व? ।
कुत्र क्रीडन्ति मत्स्याः ? प्रवदति मुरजित् कापिले भोगभाक् कः?,
कीदृक् का कीदृशेन प्रणयभृदपि चाऽऽलिङ्ग्यते न प्रियेण? ॥१४॥ अस्नातास्त्रीमङ्गलेप्सुना। ना नाता अष्टदलकमलम् ।
प्सु अस्त्री
१. अस्ना- मांसेन । २. अता- अलक्ष्मीः । ३. अस्त्रं- शस्त्रं विद्यते यस्य स अस्त्री । ४. अमं- रोगम् । ५. हे अग!- पर्वत!, अले- पुच्छे । ६. अप्सुपानीयेषु । ७. हे अ!- विष्णो!, 'ना-पुरुषः । [८. अस्नाता स्त्री मङ्गलेप्सुना नाऽऽलिङ्ग्यते ।] ॥१४॥
1. आत्मा इति टि० ।
Page #6
--------------------------------------------------------------------------
________________
३८
अनुसन्धान-५८
कीदृश्यो नाव इष्यन्ते तरीतुं वारि वारिधेः? । २अशिवध्वनिराख्याति तिर्यग्भेदं च कीदृशः? ॥१५॥
अपराजयः । १. न विद्यन्ते छिद्राणि यासु ता अपराजयः । २. अकारात् परो अच्- स्वर इकारः असौ अपराच्, तस्याऽयः- क्षयो यत्राऽशिवध्वनौ स तथा । ततोऽश्व इति भवति ॥१५॥
'पीनकुचकुम्भलुभ्यन् किमाह भगिनीं स्मरातुरः कौलः? ।
हर-निकर-पथ-स्वः-सृष्टिवाचि ननर्गपदं कीदृग्? ॥१६।। भवमास्वसादिशस्तनम् । १. भव- स्तात्, मा निषेधे, स्वसा- भगिनी, दिश- प्रयच्छ स्तनं- कुचम् । २. शस्तौ- क्षिप्तौ नौ यत्र तत् शस्तनम् । भश्च वश्च मा च स्वश्च सश्च ते आदौ यस्य तत् भवमास्वसादि तच्च तत् शस्तनं च यथाक्रमं भर्ग-वर्ग-मार्ग-स्वर्गसर्ग इति ॥१६॥
नाभ्याम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः प्रत्युपदेशनं कथमथोरे पत्नीष्यते कीदृशी? । इत्याख्यत् कमला, तथा कलियुगे कीदृक् कुराज्यस्थितिः?,
"कीदृश्याऽहनि चण्डभास्करकरे नक्षत्रराज्याऽजनि? ॥१७॥ विभावितानया । गतागतद्विर्गतः । १. उश्च इश्च वी, व्योर्भा- दीप्तयः विभास्ता वितानय- विस्तारय, हे अ!विष्णो! २. या- पत्नी नता विभौ- भर्तरि, हे इ!- हे लक्ष्मि! । ३. विभावितःप्रकटितः अनयो यस्यां सा । ४. विगतो भाया वितानो- विस्तारो यस्याः सा तथा तया ॥१७॥
'प्रभुमाश्रित्य श्रीदं किमकुर्वन् के कया समं लक्ष्मि!? । कह केरिसया के मरणमुवगया लुद्धयनिरुद्धा? ॥१८॥
1. नास्तिकमतिः इति टि० । 2. नकारौ इति टि० । 3. किरणे इति टि० ।
Page #7
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
समगंसतासामया।
१. समगंसत- गतवन्तः असा- अलक्ष्मीका मया- लक्ष्म्या । २. समगं एककालं सत्रासा मृगाः ।।१८।।।
वसुदेवेन मुररिपुयै(W)हिंसाहेतुतां श्रियां पृष्टः ।
तेहिं विअ अक्खरेहिं से उत्तरं सिद्धं ॥१९॥ तायकमनयंतरयम् ।
ता- लक्ष्म्यः , हे अ!- कृष्ण!, कं पुरुषमनयन्त- नीतवत्यः रयं-क्षयं इति प्रश्नः । इदमुत्तरम्- हे तात!, क्रमनययोरन्तः क्रमनयान्तः, तत्र रतं पुमांसम् ॥१९॥
किं प्राहुः परमार्थतः कमृषयः? किं दुर्गमं वारिधेविद्या २कं न भजन्ति? रागिमिथुनं कीदृक् किमड़े स्मृतम्? । रक्षांसि स्पृहयन्ति किं? तनुमतां कीदृक् सुखार्थादिकं?,
कीदृक् कर्षकलोकहर्षजनकं न व्योम वर्षास्वपि ॥२०॥ विगतजलदपटलम् । विपरीतमष्टदलकमलम् ।
१. विलं- विवरम् गलं- कण्ठम् । २. तलं- (द पर्यन्तम् । ३. जलं- जडं- मूर्खम् । ४. ललं-ईप्सितम्सविलासमित्यर्थः । ५. दलं- खण्डम् । ६. पलं- मांसम् । (ल) ७. टलं- चञ्चलम् । [८. विगतजलदपटलं- अपगतमेघवृन्दम्] ॥२०॥ १अभिसारिकाऽऽह किञ्चित्तरुणाः किं कुर्वतेऽत्र कं कस्याः? । समयन्ते । रतिसङ्गरे मृगदृशः किं किमकार्षीत् कथं कामी? ॥२१॥ अधरदलम् ।
१. समयन्ते- समागच्छन्ति समयं- सङ्केतम् ते- तव । २. अधरदलंओष्ठपुटं अधरत्- धृतवान्, अलं- अत्यर्थम् ॥२१॥ कामाः प्राहुरुमापते! तव रुषः प्रागत्र कीदृक् सती,
का केषां किमकारि वारितनुदे रत्याः स्वचेतोमुदे? । पश्चादुद्भव-जानुसम्भवि-नरान् दैत्या-ऽन्त्यदंष्ट्रा-गजान्,
मन्दं च क्रमशो मुजध्वनिरगात् कीदृक् क्व कस्मिन् सति? ॥२२॥
प
लं
Page #8
--------------------------------------------------------------------------
________________
४०
अनुसन्धान-५८
अजामदहतभापूर्वोमेने ।
१. हे अजाः!- कामाः!, मेने- मनिता, का? पू:- शरीरं, कीदृक्? मदहतभा, मया अहता भाः- प्रभा यस्याः , केषां? वो- युष्माकम् । २. अजामदहतभाः पूर्वे यस्य मुजध्वनेः स, तथा मकारस्य नकारे सति ॥२२॥
जलस्य जारजातस्य हरितालस्य च प्रभुः ।
मुनियँ प्रश्नमाचष्टे तत्रैव प्रापदुत्तरम् ॥२३॥ काकुलालेनमृद्यते ।
कं च अकुलश्च आलश्च ते तथा तेषां इनः- स्वामी स तथा, तस्य सम्बोधनम्- हे काकुलालेन! । एतद् यतेविशेषणम् । मृद्- मृत्तिका ॥२३॥
'ब्रूते पुमांस्तन्वि तवाऽधरं कः क्षणोति? को वा मनुजव्रजच्छित्? ।
प्रिये स्वसान्निध्यमनभ्युपेते किमुत्तरं यच्छति पृच्छतः श्रीः? ॥२४॥ नारदः । त्रिगतः ।
१. हे नः!- पुरुष!, रदो- दशनः । 'रो रे लोप'मित्यादिना दीर्घः । २. नराणां समूहो नारम्, तं द्यति- खण्डयति यः स तथा । ३. न आरत्नागतः । ऋ मृ गतावित्यस्य शस्तनीप्रथमपुरुषैकवचने विकरणलोपे अवर्णस्याऽऽकार इति वृद्धौ च रूपम् । अ:- विष्णुः ॥२४॥
किमिष्टं चक्राणां? २वदति बलमर्कः किमतनोत्?, ३जिनैः को दध्वंसे? "विरहिषु सदा कः प्रसरति? । ५भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः?,
सुरेन्द्राणां कीदृक् भवति जिनकल्याणकमहः? ॥२५॥ असममोदावहः । मञ्जरीसनाथजातिः ।
१. अहर्दिनम् । २. हे सह:!- बल! । सहस्शब्दो बलवाचकः । महस्तेजः । ३. मोहः । ४. दाहो- विरहसम्भवं दहनम् । ५. वहो- गलप्रदेशः । ६. असमं- असदृशं मोदं- प्रमोदमावहति ॥२५॥ 'प्राह द्विजो गजपतेरुपनीयते का? २पात्री प्रभुश्च जिनपङ्क्तिरवाचि कीदृक् । कीदृग्विधेह वनिता नृपतेरदृश्या? प्रस्थास्नुविष्णुतनुरैक्षत कीदृशी च? ॥२६।।
Page #9
--------------------------------------------------------------------------
________________
फेब्रुअरी
२०१२
विप्रविधाविनाविग्राविप्रधानाग्रा । पद्मजातिः ।
१. हे विप्र ! - द्विज!, विधा- हस्तिपिण्डः । २. अवतीति ऊ- रक्षकः, इना- स्वामिनी, विना । ३. विग्रा - विगतनासिका । ४. विः - पक्षी प्रधानम् अग्रे यस्याः सा तथा ।
'वदति विहगहन्ता कः प्रियो निर्धनानां ?, 'भणति नभसि भूतः कीदृशः स्याद् विसर्ग: ? । वदति जविनशब्दः कीदृशः सत्कवीन्द्राः, कथयत जनशून्यं कज्जलं भर्त्सनं च ? ॥२६॥ व्यन्तरादिव्यस्तः ।
४१
प्र २
ग्रा २ वि ५ धा २
ना २
१. हे व्यन्त!- पक्षिहन्तः!, रा- द्रव्यम् । २. दिवि भवो दिव्यः । दिगादिद्वारेण यप्रत्ययः । हे दिव्य !, स्तः- सकारं तस्यतीति क्विप् । ३. विश्च अंश्च तरश्च एते आदौ यस्य स तथा विरस्तः- क्षिप्तो यत्र स, स चासौ व्यस्तश्च स तथा [तथा च यथाक्रमं विजन -अञ्जन-तर्जन इति भवति ।] ॥२६॥ 'वीतस्मरः पृच्छति कुत्र चापलं स्वभावजं? कः सुरते श्रियः प्रियः ? । श्सदोन्मुदो विन्ध्यवसुन्धरासु क्रीडन्ति काः कोमलकन्दलासु? ॥२८॥ अनेकपावलयः ।
१. न विद्यते इ:- कामो यस्याऽसौ अनिस्तस्य सम्बोधनं - हे अने!निष्काम!, कपौ- वानरे । २. अस्य - विष्णोर्लय - आश्लेषः । ३. अनेकपा हस्तिनस्तेषामावलयस्तास्तथा ॥२८॥
'मूषिकानिकरः कीदृक् खलधानादिधामसु? । श्भीरुसम्भ्रमकारी च कीदृगम्भोनिधिर्भवेत्? ॥२९॥
बिलसद्मकरः ।
१. बिलान्येव सद्मानि- गृहाणि बिलसद्मानि तानि करोति । २. विलसन्तो मकरा यत्र स तथा ॥२९॥
किं लोहाकरकारिणामभिमतं ? 'सोत्कर्षतर्षाकुलाः,
किं वाञ्छन्ति ? हरन्ति के च हृदयं दारिद्यमुद्राभृताम् ? ।
Page #10
--------------------------------------------------------------------------
________________
४२
अनुसन्धान-५८
४स्पर्द्धावद्भिरथाऽऽहवेषु सुभटैः कोऽन्योन्यमन्विष्यते?, “जैनाज्ञारतदान्तशान्तमनसः स्युः कीदृशाः साधवः ? ||३०|| अपराजयः । मञ्जरीसनाथजातिः ।
१. अयो- लोहम् । २. पयः- पानीयम् । ३. रायो - द्रव्याणि । ४. जय: । ५. न विद्यते परेषु आजि:- सङ्ग्रामो येषां तेऽपराजयः ॥३०॥ 'पापं पृच्छति विरतौ को धातुः? कीदृशः कृतकपक्षी? । उत्कण्ठयन्ति के वा विलसन्तो विरहिणीहृदयम् ? ॥३१॥
मलयमरुतः ।
१. हे मल!- पाप!, यम् । २. न विद्यते रुतं - शब्दितं यस्य स तथा । ३. मलयस्यपर्वतस्य मरुतो - वायवो मलयमरुतः - दक्षिणाऽनिलाः ॥३१॥ १केनोद्वहन्ति दयितं विरहे तरुण्यः ? प्राणैः श्रिया च सहितः परिपृच्छतीदम्। तार्क्ष्यस्य का नतिपदं ? सुखमत्र कीदृक् ?,
* किं कुर्वताऽन्यवनितां किमकारि कान्ता ? ॥३२॥ मनसा सानम विनता तानवि नमता असाबि । मन्थानान्तरजातिः । १. मनसा- हृदयेन । २. आना:- प्राणाः मालक्ष्मीः ताभिः सह वर्त्तते इति सानमस्तस्य सम्बोधनं- हे सानम!, विनता स्त्री । ३. तनोर्भावस्तानवं, इमताच्चैत्यादिना अञ्, तानवं विद्यते यस्य तत्तानवि । ४. नमता - प्रणामं विदधता असावि- प्रेरिता । षू प्रेरणे इति ॥ ३२॥
नाभेयः । वर्द्धमानाक्षरजाति: ।
म ३
वि ३ न ५ ता ३
|सा ३
'भवति चतुर्वर्गस्य प्रसाधने क इह पटुतरः प्रकट: ? । `पृच्छत्यङ्गावयवः कः पूज्यतमस्त्रिजगतोऽपि ? ॥३३॥
१. ना - पुमान् । २. हे नाभे! - अङ्गावयव!, नाभेयः - आद्यजिनः ||३३|| वैदिकर्वधि...
1. अस्य काव्यस्य मुद्रितपुस्तके (पुण्यसागरकृतटीकासहित, सं.- म. विनयसागर) ‘वैदिकविधिविशस्त....' इति श्लोकः ३४ क्रमाङ्के दृश्यते । स एवाऽत्र लिखितुमिष्टः स्यादिति सम्भाव्यते । ‘औषधं प्राह' इति श्लोकस्तत्र ३५ क्रमाङ्के ।
Page #11
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
औषधं प्राह रोगाणां मया कः प्रविधीयते? ।
जामातरं समाख्याति कीदृशो वठरध्वनिः? ॥३४॥ अगदशमः ।
१. हे अगद!- औषध!, शम- उपशमः । २. न विद्यते गकाराद्दशमो ठकारो यत्र स अगदशमस्ततो वर इति भवति ॥३४॥
१अग्रे गम्येत केन? २प्रविरलमसृणं कं प्रशंसन्ति सन्तः?,
पाणिबूंते जटी कं प्रणमति? "विधवा स्त्री न कीदृक् प्रशस्या? । 'वक्ति स्तेनः क्व वेगो? रणभुवि कुरुतः किं मिथः शत्रुपक्षा
वुद्वेगावेगजातारतिरथ वदति स्त्री सखीं किं सुषुप्सुः? ॥३५॥ हलासंस्तरंसारयेतः । अष्टदलकमलम् ।
१. हला- व्यञ्जनेन । २. हसं- ईषद्धसितम् । ३. हे हस्त!- कर!, हरं- शम्भुम् । ४. हसतीति हसा । तः (ला) सं| ५. हे हर!- चौर!, हयेऽश्वे । ६. हतः, 'हन् हिंसागत्योः ' ये ह वर्तमाना तसि रूपम् । [७. हला- हे सखि! संस्तरं- र शयनीयं सारय- प्रगुणीकुरु इत:- अत्र ।] ॥३५॥
'व्यथितं किमाह सदयः क्षितकं क्षुत्क्षामकुक्षिमुद्वीक्ष्य? ।
दारुणधन्वनि समरे कीदृक् कातरनरश्रेणिः? ॥३६।। हावराकनिरशन । गतागतः ।
१. हा खेदे, वराक!- तपस्विन्! निरशन!- गतभोजन! । २. न- नो शरनिकरं बाणसङ्घातं आवहति या सा तथा ॥३६॥
'चन्द्रः प्राह वियोगवानकरवं किं रोहिणी प्रत्यहं?, शम्भो! केन जवाददाहि सरुषा कस्याऽङ्गयष्टिः किल? । शीघ्रं कैः पथि गम्यतेऽथ कमला ब्रूते मुहुर्वल्लभ!,
ध्यानावेशवशादलाभि पुरतः कैर्वेश्वरूप्यं मम? ॥३७॥ मयैः । चतुःसमस्तम् ।
Page #12
--------------------------------------------------------------------------
________________
४४
अनुसन्धान-५८
१. हे मस्!- चन्द्र! ऐस्त्वम् । इण् गतौ, ह्यस्तनी सि, विकरणलोपे अवर्णस्याऽऽकार इति वृद्धौ रूपम् । २. मया ए:- कामस्य । ३. मयैःउष्ट्रैः। ४. हे मे!- लक्ष्मि!, ऎविष्णुभिः ॥३७॥
गुरुरहमिह सर्वस्याऽग्रजन्मेति भट्ट,
समदममदयिष्यन् कोपि कुप्यन् किमाह? । त्वमलदयपदं वा आश्रया-ऽभाव-मूर्छा
कटक-नगविशेषान् कीदृगामन्त्रयेत? ॥३८॥ आविप्रवमाद्यत्वमदम् ।
१. आः खेदे, हे विप्र!- द्विज!, वम- मुञ्च आद्यत्वमदं- प्रथमत्वाऽहङ्कारम् । २. आश्च विश्च प्रश्च वश्च मश्च आदौ यस्य स चाऽसौ (तच्च तत्), न विद्यन्ते त्वश्च मश्च दश्च यत्र स च तम् (तच्च तद्) ॥३८॥
कीदग मया सह रणे दैत्यचमूरभवदिति हरिः प्राह? ।
'लोको वदति किमर्थं का विदिता दशमुखादीनाम्? ॥३९॥ क्षीणारिहयवाहनाज । गतागतः ।
१. क्षीणानि अरीणां हयवाहनानि यस्यां सा तथा, हे अज!- हरे! । २. हे जन!- लोक!, आहवाय- सङ्ग्रामाय हरिणाक्षी- सीता ॥३९॥
'दृष्ट्वाऽग्रतः किमप्यवसादवन्तं,
- स्वामी पुरःस्थितनरं किमभाषतैकम्? । कश्चिद् ब्रवीत्यधिजिगीषुनृपा अकार्षीत्,
किं कीदृशो वदत राजगणोऽत्र केषाम्? ॥४०॥ अयंसीदतिरेकोनः ।
१. रे नः!- पुरुष! अयं सीदति कः? । २. अयंसीत्- उपरमितः, अतिरेकोऽधिको नोऽस्माकम् ॥४०॥
1. अगच्छ: इति टि० । 2. अ: विष्णुः, तद्भक्तैः ऐ: वैष्णवैः - इति स्यात् सं. । 3. मदं निवारयन् इति टि० ।
Page #13
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
'सीरी पाणिं क्व धत्ते? 'क्रतुरथ मुदगात् स्यात् कया देहिनां भी३बूंतेऽश्वः क्वाऽरिविष्णुळधित? "सविधगं हन्तुकामः किमाह? । ५शम्भुं घ्नन्तं गजं द्राक् सदयऋषिरगात् किं नु काक्वा? तथाऽस्मिन्
हारं किं नाऽपि धत्से विरहिणि! नभसीत्यूचिषीं सा वदेत् किम्? ॥४१॥ हलेवर्षत्यायस्तेम्भोदेहारस्तीतः । द्वादशदलं पद्मम् ।
१. हले- लाङ्गले । २. हे हव!- क्रतो!, हे हर्ष!- मुद्!, हत्या- ब्राह्मणघातेन । ३. हे हय!- अश्व!, त (ल) व हस्ते- करे । ४. हंभो! आमन्त्रणे, हदे- पुरीषोत्सर्ग स्ती करोमि । 'हद पुरीषोत्सर्गे' इति धातोः । ५. हहा, अयं र ह १२ च दयाप्रकाशकः, हर!- शङ्कर!, हस्ती- गजो, हतो- हा) विनाशितः, ६. हले!- सखि, वर्षति- वृष्टिं कुर्वति भो । आयस्ते- विस्तीर्णे अम्भोदे- मेघे हारस्तीत:- आर्द्रभावं गतः ॥४१॥
मधुरिपुणा निहते सति दनुजविशेषे तदनुगताः किमगुः? ।
२अभिदधते च विदग्धाः सत्कवयः कीदृशीर्वाचः? ॥४२॥ अमृतमधुराः ।
१. अमृत- प्राणत्यागं कृतवान् मधुर्दानवः [आः खेदे] २. अमृतवन्मधुराः ॥४२॥ 'ब्रूते पुमान् मुरजिता रतिकेलिकोपे,
सप्रश्रयं प्रणमता किमकारि का काम्? । 'दुःखी सुखाय पतिमीप्सति कीदृशं वा?,
कामी कमिच्छति सदा रतये प्रयोगम्? ॥४३।। नरनारीप्रियङ्करम् ।
१. हे नः!- पुरुष!, अनारि- नीता, नृ नये इति धातुः, का? ईश्रीः, कां? प्रियम्- प्रणयं प्रीणतीति प्रीः, सम्पदादित्वात् क्विप् । २. कं- सुखं रातीति करस्तं पुमांसम् । ३. नरश्च नारी च तयोः प्रियं- प्रीतिं करोति यः स तथा, तम् ॥४३।।
Page #14
--------------------------------------------------------------------------
________________
४६
अनुसन्धान-५८
'यूयं किं कुरुत जनाः स्वपूज्यमिति शिल्पिशिशु-खगौ ब्रूतः ।
स्मरविमुखचित्तजैनः कथमाशास्ते जनविशेषम्? ॥४४॥ संनमामकारुकुमारवी । गतागतः ।
१. कारुकुमारश्च विश्च कारुकुमारवी, तयोः सम्बोधनम्, सन्नमामप्रणमाम । २. हे वीर! मा कुरु त्वं काममानसम् ॥४४॥
१सुभटोऽहं वच्मि रणे रिपुगलनालानि केन किमकार्षम्? ।
'चेटीप्रियो ब्रुवेऽहं किमकरवं काः स्वगुणपाशैः? ॥४५॥ असिनादासीः ।
१. असिना- खड्गेण(न) अदासीनूनवान् । २. असिनाः बद्धवान्, काः? दासीः । षिञ् बन्धने, ह्यस्तनी सि ॥४५॥ १भूषा कस्मिन् सति स्यात् कुचभुवि? २मदिरा वक्ति कुत्रेष्टिकाः स्युः?,
कस्मिन् योधे जयश्रीर्युधि सरति? रतिः प्राजने कुत्र नोक्ष्णः? । 'कामद्वेषी ततोडुर्वदति दधि भवेत् कुत्र? किं वा वियोगे,
दीर्घाक्ष्याः कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति? ॥४६॥ हासुस्तनीसायताक्षीरे । व्यस्तं कमलमष्टदलम् ।
१. हारे । २. हे सुरे!- मदिरे!, स्तरे । ३. नितराम् ईरयति- क्षेपयति यः स नीरस्तस्मिन् । ४. सहक्षी हास] आरया वर्त्तते इति सारस्तस्मिन् । ५. ए:- कामस्य ता रे अरिः-शम्भुर्यरिस्तस्य सम्बोधनं - हे यरे!, हे तारे!- य नक्षत्र!, क्षीरे । ६. हा खेदे, सुस्तनी- शोभनकुचा, सा आयताक्षी- दीर्घनेत्रा [रे इति सम्बोधने] ॥४६॥
किं कुर्याः कीदृक्षौ रागद्वेषौ समाधिना त्वमृषे!? ।
कीदृक्षः कक्षे स्यात् किल भीष्मग्रीष्मदवदहनः? ॥४७।। तृणहानिकारी ।
१. कस्य- सुखस्याऽरी तृणहानि । तृह हिसि हिंसायाम्, पञ्चमी आनि रूपम् । [२. तृणानां हानिकारी] ॥४७।।
Page #15
--------------------------------------------------------------------------
________________
फेब्रुआरी २०१२
'शुभगोरसभूमीरैभि किमाह तज्ज्ञः स्मरेन्दिरापृष्टः? ।
`विरा(र)होद्विग्नः कामी निन्दन् दयितां किमभिधत्त 111? ॥४८॥
४७
क्षीरादिमनोहारीमासु । गतागतः ।
१. क्षीरादि मनांसि हरतीत्येवंशीलं मनोहारि, इश्च मा च इमं तत्सम्बोधनं हे !, आसु भूमिषु । २. सुमारी, हा खेदे, नोऽस्माकं मदिराक्षी ॥४८॥ इह के मृषाप्रसक्ता नरनिकरा इति कृते सति प्रश्ने । यत् समवर्णं तूर्णं तदुत्तरं त्वं वद विभाव्य ॥४९॥
केलीकरतामनुजनिवहाः ।
के अलीकरता मनुजनिवहा:- पुरुषसङ्घा: ? । केलीकरस्य भावः केलीकरता तां अनु आश्रित्य जनि- उत्पत्तिं वहन्ति ये ते जनिवहाः ॥४९॥
'बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह? | 'पीत्वाच्छलेन दशनच्छदमुग्रमानां, भर्त्ता किमाह दयितां किमपि ब्रुवाणाम् ?
॥५०॥
अधरंतवाहमपिबंधवोनमे ।
१. नोऽधरन्त- न भृतवन्तः, वाहमपि - अश्वमपि, बन्धवो मे - मम। २. तवाऽधरमोष्ठमहमपिबम् । धवो - भर्त्ता न मे, साहङ्कारम् ॥५०॥
'श्रीराख्यदहं प्रियमभि किमकरवं? का च कस्य जनयित्री? । ३अदिवारी शब्दो वा कैस्त्यक्तः प्राह गृहदेशम् ? ॥५१॥
यैः । त्रिः समस्तः ।
१. हे इ!– लक्ष्मि!, ऐ:- अगच्छस्त्वम् । २. या- लक्ष्मीः, एःकामस्य। ३. इश्च ईश्च अश्च यास्तैः [द्वार इति भवति ।] ॥५१॥ 'कीदृक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता कतमस्य धातो: ? । उत्कण्ठयेद् विरहिणं क इह प्रसर्पन् ?, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक् ? ॥५२॥
1. लक्षीकृत्य इति टि० ।
Page #16
--------------------------------------------------------------------------
________________
अनुसन्धान-५८
विशदपञ्चमः । व्यस्त-द्विःसमस्तः ।
१. विशत्यः- प्रविशत्यः आपो यत्र तत् तथा। २. चमो अदने इत्यस्य । ३. विशदपञ्चमः- निर्मलपञ्चमरागः । ४. विगतशकारोच्चमं (विगतः शकारो दकाराच्च) पञ्चमः फकारो यत्र स तथा, 'या' इति भवति ॥५२।।
वदति मुरजित् कुत्राता प्रिया वरुणस्य का?, २स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति । दशमुखचमू[:] काकुस्थेन व्यधीयत कीदृशी?
३रवरवकवर्णाली कीदृग् ब्रवीति गतारतिम्? ॥५३।। अपरावणा । वर्द्धमानाक्षरजातिः ।
१. हे अ!- विष्णो!, तथा हे अपः!- कुत्सितं पातीति अपः, कुत्सितार्थे नञ्, अपरा- पश्चिमा । २. न परान् अवतीति अपरावस्तस्य सम्बोधनं- हे अपराव!, न विद्यते रावणो यस्यां सा तथा । ३. अकारात् पराऽपरा, वकारयोर्णी यत्र सा वणा, ततो [अ] रणरणक इति भवेत् ॥५३।।
निःप्रस्वः (निःस्व:) प्राह लसद्विवेककुलजैः सम्यग् विधीयेत को?, मुग्धे! स्निग्धदृशं प्रिये! किमकरोः? ३किं वा तदोष्ठं व्यधाः? । ४लोकैः कोऽत्र निगद्यते [बलिवधूवैधव्यदीक्षागुरुः?,,
"कीदृग् भूमिशुभासशब्द इह भो! विश्रम्भवाची भवेत्? ॥५४॥] [अतनवमदशमः । द्विळस्तसमस्तजातिः ।]
[१. न विद्यते] ता- लक्ष्मीर्यस्याऽसावतस्तस्य सं० हे अत!, नवश्चासौ मदश्च स तथा, [तस्य] शमः । २. अतनवं- विस्तारितवती । ३. अदशम्अधरचुम्बनमकरवम् । ४. अ:- विष्णुः । ५. न विद्यते तकारान्नवमदशमौ यत्र स तथा, ततश्च 'विश्वास' इति भवति ॥५४॥
शशिना प्रमदपरवशः पृच्छति कः स्वर्गवासमधिवसति? ।
च्युतसत्पथाः किमाहुलौकिकसन्तो विषादपराः? ॥५५।। मयानंदवशनाकी । गतागतः ।
१. मसा- चन्द्रमसा आनन्दः स तथा तेन वशः परवशस्तस्य सम्बोधनम्, नाकी । [२. किनाशवदनं याम वयम् ।]
'उष्ट्रः पृच्छति किं चकार मदृते कस्मिन् शमीवृक्षकः?, कीदृक् सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाऽहं ब्रुवे? ।
Page #17
--------------------------------------------------------------------------
________________
फेब्रुआरी २०१२
श्यूनः प्राह सरोजचारुनयना सम्भोगभोगक्रमेष्वारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु ? ॥५६॥
हेमयाननंदवनेचलोलमक । गतागतः ।
१. हे मय!- उष्ट्र!, आननन्द- समृद्धिं गतवान् वने । चलश्चञ्चल:, अलमत्यर्थम्, हेऽक!– दुःखसहित! [३. हे कमललोचने! तव वदनं नयामहे ।] ॥५६॥
-
-
'चक्री चक्रं क्व धत्ते ? क्व सजति कुलटा ? प्रीतिरोतोः क्व? 'कस्मै, कूप: खन्येत? “राज्ञां क्व च नयनिपुणैर्नेत्रकृत्यं निरुक्तम्? । ६कन्दर्पापत्यमूचे रणशिरसि रुषा ताम्रवर्णः क्व कर्ण
श्चक्षुश्चिक्षेप ? विष्णुर्वदति वसुपुरःस्तेन ! किं त्वं करोषि ? ॥५७॥ 'युज्यन्ते कुत्र मुक्ता: ? क्व च गिरिसुतयाऽसञ्जि? "कस्मिन् महान्तो, यत्नं कुर्वन्ति ? ११चौर्यं निगदति विदिता क्वैकदिक्तिग्मधारा? । १२कस्मिन् दृष्टे रटन्ति क्व च सति करभा: ? १३पक्ष्मलाक्ष्याः किलोक्तः, कश्चित् किं वा ब्रवीति स्मरशरनिकराकीर्णकायः सदेश्यान्? ॥५८॥ कजाक्षीवाचास्मानहहसहसाचुक्षुभदरे । षोडशदलं कमलं विपरीतंयुगलम्। १. करे - हस्ते । २. जारे - परस्त्रीगन्तरि । ३. क्षीरे- दुग्धे । ४. वारेपानीयाय । वार् इत्ययं पानीयवाचकः । ५. चारे- चरे, राज्ञां चरनेत्रमद्वितीयमित्यर्थः । ६. स्मरस्याऽपत्यं स्मारिस्तस्य सम्बोधनं हे स्मारे !, नरेऽर्जुने । ७. हे हरे! - विष्णो!, हरेहृग् हरणे, वर्तमाना ए रूपम्, चोरयामि । ८. सरे। ९. हरे- शङ्करे । १०. सारे - प्रधाने । ११. हे चुरे! - चौर्य!, क्षुरे । १२. भरे - उपेये
द्रव्ये, दरे- भये सति । १३. कजाक्षी स्त्री वाचा - वचनेनाऽस्मान् कर्मतापन्नान् अहह सहसा इत्यर्थेऽ(त्यव्यये, अचुक्षुभत्- क्षोभितवती । क्षुभ संवलने, पुष्पादिद्वारेण अण् ॥५७-५८॥
क्ष
चु
सा
द
भ
ह
स
जा क
रे १६
ह
क्षी
न
४९
ह
वा
चा
स्मा
Page #18
--------------------------------------------------------------------------
________________
अनुसन्धान- ५८
'जलनिधिमध्ये गिरिमभिवीक्ष्य क्षितिरिति व (वि) दन् किमाह विवादे ? । स्निग्धस्मितमधुरं पश्यन्ती हरति मनांसि मुनीनामपि का? ॥५९॥ नाचलोङ्गरसा । गतागतः ।
५०
१. न अचल:- पर्वतोऽङ्ग!, रसा- पृथ्वी । २. सारङ्गलोचना । सारंगा हरिणाः, तद्वल्लोचना यस्याः सा तथा ॥५९॥
यमार्याः?,
धर्मेण किं कुरुत काः क्व नु
कीदृश्यहिंसनफलेन तनुः सदा स्यात् ? । पुंसां कलौ प्रतिकलं किल केन हानि: ?, "कीदृग् व्यधायि युधि काऽर्जुनचापनादिः ? ॥६०॥
—
मन्थानजातिः । यामतागविविगतामया सारतादिनानादितारसा । १. याम - गच्छाम ताः - लक्ष्मीः कर्मतापन्नाः गवि - देवलोके । २. विगतामया - गतरोगा [ ३. सारतादिना । ४. नादिता रसा ।] ॥६०॥
।
'कीदृशः स्यादविश्वास्यः स्निग्धबन्धुरपीह सन्? न स्थातव्यं च शब्दोऽयं प्रदोषं प्राह कीदृश: ? वितथवचनः ।
सा
र
या मता ग वि
दि
ना
॥ ६१ ॥
१. वितथं - अलीकं वचनं यस्याऽसौ वितथवचनः । २. विगतास्तथवचना यस्य सः । तथा च सायमिति भवति ॥ ६१॥
'नृणां का कीदृगिष्टा ? २वद सरसि बभुः के? स्मरक्रीडितोष्ट्राः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण ।
कुर्वेऽहं ब्रह्मणे किं वदति मुनिविशेषोऽथ "कीदृक् समग्रः, स्यात्? ६किं वा पङ्कजाक्षीमुखविमुखमना भुक्तभोगोऽभिदध्यात्? ॥६२॥ सारामारमयतेमनोन: ( तेनमनोन: ) । शृङ्खलाजातिः ।
१. सा- लक्ष्मीः सारा । २. रामा:- सारसा: । ३. मार! - काम!, रम!क्रीडित!, मय!- उष्ट्र!, यते !, ताया- लक्ष्म्या इनः, तस्य सं०- हे तेन ! ४. नमतो (नम मनो!-) ऋषे! ५. न ऊन:- नोन: । [६. सा रामा - स्त्री नः -
Page #19
--------------------------------------------------------------------------
________________
फेब्रुआरी २०१२
अस्माकं मनो न रमयते - मोहयति ।] ॥६२॥
१स्वजनः पृच्छति जैनैरघस्य कः कुत्र कीदृशे कथितः? । `कथयत वैयाकरणां(णाः) सूत्रं कात्यायनीयं किम् ? ॥६३॥
५१
arista
|
१. हे बन्धो!– स्वजन! बन्ध:, कुत्र ? अधिकरणे- पापव्यापारे, किंविशिष्टे? अधिको रणो यत्र तत् तथा तस्मिन् । [२. बन्धोऽधिकरणे (कातन्त्रव्या० ४-६-२५)] ॥६३॥
'ब्रवीत्यविद्वान् गुरुरागतः कौ सावित्र्यं मे ( त्र्युमे ) किं कुरतः सदैव । `आशैशवात् कीदृगुरभ्रपोतः पुष्टिं च तुष्टिं च किलाऽऽप्नुवीत? ॥६४॥ अविदूसरतः ।
१. वेत्तीति वितन् (द्, न) विदवित्, तस्य सं०- हेऽवित्!, उर्ब्रह्मा उ: शङ्करः, उश्च उश्च ऊ कर्मतापन्नौ सरतौ - गच्छतः । २. अवि(वे)र्गड्डरिकाया दूसं-दुग्धं, तत्र रतः स तथा ||६४||
१तन्वि! त्वं नेत्रतूणोद्धृतमदनशराकारचञ्चत्कटाक्षै
र्लक्ष्यीकृत्य स्मरार्त्तान् सपदि किमकरोः सुभ्रु ! तीक्ष्णैरभीक्ष्णैः ? | 'किं कुर्वाते भवाब्धि सुमुनिवितरणा (?) श्रीजिनाज्ञासु सक्तौ ?', ३श्रद्धालुः प्राप्तमन्त्राद्युचितविधिपरः प्रायसः (श:) कीदृशः स्यात्? ॥६५॥ अविध्यंतरतः ।
१. अविध्यमिति व्यध ताडने इत्यस्य दैवादिकस्य ह्यस्तन्यमि रूपम् । २. तरतः- पारं गच्छतः । ३. अविधेरन्तो विनाशस्तत्र रतः स तथा ॥६५॥ 'कीदृग् दृष्टमदृष्टः स्यादित्यक्षकीलिका ब्रूते ।
२भणइ पिया ते पिययम ! कीए कहिं अभिरमइ दिट्ठी ॥६६॥ मुद्धेतुहरमणे ।
१. मुदो- हर्षस्य हेतवस्ते तथा तानरहरनि (तान् हरति) तथा, हेऽणे! शकटकीलिके! । २. हे मुग्धे ! तुह- तव रमणे - सुरतव्यापारे ॥६६॥२
1. ‘सुमुनिवितरणाद्दायकस्तावकौ द्राक्' इति पाठ: समस्ति म. विनयसागरसम्पादितपुस्तके - सं. । 2. मुद्रितपुस्तके इतः परं 'कीदृग्जलधरसमय...' इति श्लोकोऽधिकः । - सं. ।
Page #20
--------------------------------------------------------------------------
________________
५२
अनुसन्धान-५८
'म(प) स्तोमो वदति कपिसैन्येन भोः कीदृशा प्राक, सिन्धौ सेतुर्व्यरचि? 'रुचिरा का सतां वृत्तजातिः? ।
को वा दिक्षु प्रसरति सदा कण्ठकाण्डात् पुरारेः?,
"किं कुर्याः कं हरमिति(रह इति)सखीं पृच्छती स्त्री किमाह? ॥६७।। नालिननलिना मालिनीनीलिमा । मानानिइनमालि । मन्थानान्तरजातिः ।
१. नलिनानां पद्मानां समूहो नालिनं तस्य सम्बो० - हे नालिन!, नलो विद्यते यत्र तन्नलि, तेन नलिना सैन्येन । २. - मालिनीच्छन्दः । [३. नीलिमा ।] ४. मानानि- पूजयामि इनं--
| मा लि| नी स्वामिनं, हे आलि!- सखि! ॥६७॥
१पथि विषमे महति भरे धुर्याः किं स्म कुरुथ कां कस्य? ।
अत्याम्लतामुपगतं किं वा के नाऽभिकाङ्क्षति? ॥६८॥ दधिमधुरमनसः ।
दधिम- भृतवन्तः, परोक्षा परस्मैपदोत्तमपुरुषबहुवचनं स्यांस्त्रादिनियमादिदम्, धुरमनसः- शकटस्य । २. दधि कर्मभूतं, के कर्तारः? मधुरमनो येषां ते तथा । ___ भानोः केष्येत पौरुड वदति पदं पप्रथे किं सहाथै?,
कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या? । "सप्राणः प्राह पुंसि क्व सजति जनता? ५भाषतेऽप्याभावः,
कुर्वेऽहं क्लेदनं किं? क्व च न खलु मुखं राजति(ते) व्यङ्गितायाम् ?, "सत्यासक्तं च सेाः किमथ मुररिपुं रुक्मिणीसख्य आख्यन्? ॥६९।। भामारतसानतेमनसि । शृङ्खलाजातिः ।
१. भा- प्रभा । २. हे भ!- नक्षत्र!, अमा, एतत् सहार्थे पदम् । ३. मार!- काम!, तर(रत)!- व्यवाय!, तसा प्रत्ययेन । ४. सहाऽऽनेन- प्राणेन वर्त्तते सानस्तस्य सम्बोधनम् - हे सान!, नते । ५. हे तेम!- आर्द्रभाव!, मनअभ्यस, मनाभ्यास (म्नाऽभ्यासे) इत्यस्य भौवादिकस्य पञ्चम्यां रूपम् । ६. नसि- नासिकायाम् । ७. हे भामारत!- सत्यासक्त! विष्णो! सा- रुक्मिणी न ते मनसि ॥६९॥
Page #21
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
'तरुणेषु कीदृशं स्यात् कुर्वत् कीदृक् किमक्षि तरलाक्ष्याः? ।
२सा जोघ(व्व)णभयंती भणह कर केरिसं कुणइ? ॥७०॥ उवलद्धवलयं ।
१. किं कुर्वद्? वलत्, कीदृक् स्याद्? अवतीति ऊ- रक्षकं, 'स्वरो हस्व' इति ह्रस्वत्वम्, नपुंसकत्वादक्षिशब्दस्य, कीदृक् सत्? धवलयं- धवे लयो यस्य तत् । २. उपलब्धं वलयं यस्य स तथा तम् ॥७०॥ 'सत्यक्षमातिहर आह जयद्रथाजौ पार्थ! त्वदीयरथवाजिषु का किमाधात् ? । अप्पोवमाइ किर मच्छरिणो मुणंति किं रूत(प?)मिच्छसुयणं भण केरिसं
ति ॥७१॥ सच्छमतुच्छरसरिच्छं ।
१. सत्- सत्यं, शम:- क्षमा, तुदतीति तुत् क्विप् - अतिः, सच्च शमश्च तुच्च सच्छमतुतः, तान् व्यतिहरति स तथा तस्य सम्बोधनम् - हे सच्छमतुच्छ!, शरास्तेषां सरिन्नदी धोरणिरिति यावत्, सा शं- सुखं, आधादिति सम्बन्धः । २. स्वच्छरूपं स्वच्छस्वभावं सन्तं प्राणिनमतुच्छः प्रभूतो मत्सरो यस्य स तथा तेन सदृशम् ॥७१॥ 'कीदृक्षः कथयत दौषिकापणः स्यात्? 'ना केन व्यरचि च पट्टसूत्ररागः? । ३क्षुद्रारिर्वदति किमुत्कटं जिगीषोः? "किं जघे शकरिपुणेति वक्ति रङ्कः ।।७२।। शाटकीकीटशा कण्टककटकम् शाकंकीकट । मन्थानकजातिः ।
१. शाटका विद्यन्ते यत्र शाटकी । २. कीटान श्यति | कीटश् तेन कीटशा । ३. हे कण्टक!- क्षुद्रारे!, कटकं- सैन्यम् । शा ट का | ४. शाकानां राज्ञां समूहः शाकम्, हे कीकट!- रङ्क! ॥७२॥ क 'ब्रह्मास्त्रगर्वितमरिं [र]णसीम्नि शत्रु-ख[ड्गा]क्षमं हरवितीर्णवरः किमाह? । 'कामी प्रियां भणति किं त्वरितं रतार्थी?
वस्त्रं परास्यसह! सादयितेभबाधः ॥७३।। १. ओः ब्रह्मणोऽस्त्रं वस्त्रं; परस्याऽसिः- खड्गं(ड्गः), तं न सहते परास्यसहस्तस्य सम्बोधनम् – हे परास्यसह!, तत्प्रति सादयिता- खण्डनशीलः, इभबाधो, हर इभं बाधते इति । २. वस्त्रं- वसनं परास्य- परित्यज्य, सहसा
Page #22
--------------------------------------------------------------------------
________________
५४
इत्य[त्य]र्थं, दयिते!- भार्ये! भव अधः ॥७३॥
प्रत्याहारविशेषा वदन्ति नन्दी निगद्यते कीदृग् ? । आपृच्छे गणकोऽहं किमकार्षं ग्रहगणान् वदत ? अजगणः । त्रिः समस्तः ।
॥७४ ||
१. अच्च अक् च अणु (ण् च) अजगणस्तस्य सम्बोधनम् - हे अजगण!, अजस्य - हरस्य गणः प्रथमः (प्रमथः) अजगणः । २. गणितवान्, गण सङ्ख्याने, अद्यतनी सिव्, णि 'ईश्च गण' इत्यद्भावे रूपम् ॥७४॥
' कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्लिं? क्व मे मुत्, प्राहर्षिः ? कोऽत्र कस्याः स्मरति गतधनः श्रीतया पृच्छ्यतेऽदः । “क्व स्यात् प्रीतिस्तृतीयं वदति युगमिह क्वोद्यमी कामशत्रुः ?, "कामी रज्येत् प्रियायाः क्व च ? ' नयविनयी कुत्र पुत्रः प्रतुष्येत् ? ॥७५॥
९स्पृहयति जनः कस्मै नाऽस्मिन् मुखे वद कीदृशे,
न सरति सुधीः ? १९ स्यात् कीदृक्षे क्व वा वपुव्यथम् ? । १२सुदृशमभितः वश्यां पश्यन् किमाह सखीर्युवा ?, तरलनयना मामत्रेयं स्मितास्यामितीक्षते ॥७६॥
षोडशदलकमलं विपरीतं युगलम् ।
१. तते - विस्तीर्णे रते - क्रीडने । २. हे लते!- वीरुद्! । ३. नते - प्राणने, हे यते!साधो ! । ४. ना - पुरुषस्ते - तव, मायालक्ष्म्या भावो माता, हे माते ! । ५. मतेअभिमते । ६. त्रेते!- तृतीययुग!, ए:कामस्याऽन्ते- विनाशे यन्ते । ७. स्मितेईषद्धसिते । ८. ताते - पितरि । ९. षोऽन्तकर्मणि,
स्यतीति स्यत्, तस्मै स्यते । १०. मिते - स्तोके । ११. तीतेऽतीते क्षतेव्रणादौ । १२. तरलनयना - चञ्चलनेत्रा मां कर्मतापन्नमत्र प्रदेशे, इयं स्मितास्यं यथा भवतीतीक्षते - अवलोकयति ॥७५-७६॥
मि
स्य
ता
अनुसन्धान- ५८
क्ष
ती
स्मि
यं
才
ल
ते १६ ) य
मा
न
म
ना
Page #23
--------------------------------------------------------------------------
________________
फेब्रुआरी २०१२
'राजन्! कः समरभरे किमकारयदाशु किं रिपुभटानाम्? । `कुच्छियविलास पभणइ केरिसं पिसुणहिययं? ॥७७॥ अहमलीलवंकं ।
१. अहं कर्त्ता अलीलवम् - लूनवान् कं- मस्तकम् । २. अधमा लीला यस्य स तथा हे अधमलील!, व ं- कुटिलम् ॥७७॥ 'अयि सुमुखि ! सुनेत्रे! सुभ्रु ! सुश्रोणि! मुग्धे!, वरतनु! कलकण्ठि! स्वोष्ठ! पीनस्तनि! त्वम् । वद निजगुणपाशैः कं करोषीह केषां ?,
२ सुगुरुरपि च दद्यात् कीदृशां मन्त्रविद्या: ? ॥७८॥
५५
नाहंयूनाम् ।
१. नह बन्धने, नहनं नाहस्तं बन्धनम्, यूनाम्— तरुणानाम् । २. नाहंयूनाम्- अ[न]हङ्कारिणामित्यर्थः ॥७८॥
'पृच्छामि जलनिधिरहं किमकरवं सपदि शशधराभ्युदये ? । अलमुद्यमैः सुकृतिनामित्युक्ते कीदृशः कः स्यात् ? ॥७९॥
समुदलसः ।
१. सम् उद् अलसः शब्दितवान् । तुस हुस हुस शब्दे, ह्यस्तनी सि रूपम् । २. समुद्– सहर्षो अलस- आलस्योपहतः ॥७९॥
'वदति हरिरम्भोधे! पाणि श्रियः करवाणि किं ?,
किमु कुरुत भो ! यूयं लोकाः ! सदा निशि निद्रया ? | मुनिरिह सतां वन्द्यः कीदृक् ? ' तथा च गुरुर्बुवे,
तव जडमते! तत्त्वं भूयोऽप्यहं किमचीकरम् ? ॥८०॥ असस्मरः । वर्द्धमानाक्षरजातिः ।
१. हे अ! - हरे!, अस- आप्नुहि, अस् दीप्त्यादानयोश्चेति रूपम्। २. असस्म- सुप्तवन्तः, षस स्वप्ने, ह्यस्तनी म । ३. सह स्मरेणेति सस्मरो, न सस्मरोऽसस्मरः, कामरहित इत्यर्थः । ४. असस्मरः - स्मारितवान्, स्मृ ध्यै चिन्तायाम्, अद्यतनी सि, अत्वरादित्वादतअभ्यासश्च ॥८०॥
Page #24
--------------------------------------------------------------------------
________________
अनुसन्धान-५८
श्रतये किमकारयतां परस्परं दम्पती ची(चि)रान्मिलितौ? ।
२मोक्षपथप्रस्थितमतिः परिहरति च कीदृशीं जनताम्? ॥८१॥ अतत्वरताम् ।
१. कामाय शीघ्यभावयताम् । २. अतत्त्वे रता अतत्त्वरता, ताम् ॥८१।। 'हे नार्यः! किमकार्षुरुद्गतमुदो युष्मद्वराः काः किल?,
क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया? । इच्छ[न्] लाभमहं मनोगृहगतं रक्षामि शम्भुं सदा,
प्रीतः स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति? ॥८२।। उपायंसतनोतुभद्रते ।
१. उपायंसत- परिणीतवतः(न्तः) नः- अस्मान् । २. अतुभद्विनाशितवान्, हे रते!- कामप्रिये!, णभ तुभ हिंसायाम्, अद्यतनी दि, पुष्पादित्वादङि । ३. उपायं स महेश्वरस्तनोतु- विस्तारयतु, भद्रं ते- तव ॥८२॥
सरभसमभिपश्यन्ती किमकार्षीः कं मम त्वमिन्दुमुखि!? ।
'नयनगतिपदं कीदृक् पूजयतीत्यर्थमभिधत्ते? ॥८३।। [प]प्रथमंगजम् ।
१अ[प]प्रथम्- विस्तारितवती अङ्गजं- कामम् । २. न विद्य(द्ये)ते पकारात् प्रथमौ नकारौ यत्र तत् तथा, गश्च जो- जकारो यत्र तद्गजम्, ततो यजतीति भवति ॥८३॥
विधुन्तुदः प्राह रविं ग्रहीतुं कीदृक्षमाहुः स्मृतिवादिनो माम्? ।
का वा न दैवज्ञवरैः स्तुतेह प्रायेण कार्येषु शुभावहेषु? ॥८४॥ राहोनिशविरलगमम् । गतागतः ।
१. हे राहो!, निशि- रात्रौ अविरलो गमो यस्य स तथा तम् । निशाया निश् । २. मङ्गलरविअ(श)निहोरा । रविरादित्यः । होराशब्दः प्रत्येकम् ॥८४।।
अग्निज्वालादिसाम्याय यं प्रश्नं श्रीरुदीरयेत् ।
तेनैव समवर्णेन प्रापदुत्तममुत्तरम् ॥८५॥ कोपमानलाभाद्ये ।
का उपमाऽनलाभाद्ये वस्तुनि? । अनलस्येवाऽग्नेरिवाऽऽभा छाया
Page #25
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
५७
यस्याः सा कोपमानलाभाद्या । हे इ!- लक्ष्मि! । अयमत्र भावोऽग्निज्वालासदृशः कोपः, आदिशब्दादवाप्तः पर्वतादिस्ततः पर्वतसदृशो मानः, खञ्जनसदृशो ला(लो) भः । उत्तरेऽनुवचनेऽप्यादिशब्दान्माया तया सदृशा गोमूत्रिकाऽतीववक्रा ।।८५॥
'कीदृक्षोऽहमिति ब्रवीति वरुण[:]? २काऽप्याह देवाङ्गना, हंहो! लुब्धक! को निहन्ति करिणश्रेणी वनान्याश्रिताम्? । ३कान्तन्यस्तपदं स्तने रमयति स्त्री किं विधिर्वक्त्यदः?,
"किं अन्नोन्नविरोहवारणकए जंपंति धम्मत्थिणो? ॥८६॥ अवरोप्परंभेमच्छरोनखमो ॥
१. अपः पातीति अप्पः, सम्बोधने हेऽप्प!, अवरोऽवरदिग्वर्ती, अवरस्यां दिशि यतो वसति । २. हे रम्भे!- देवाङ्गने!, मम शरो मच्छरः । ३. नखम्, उर्ब्रह्मा, तस्य सम्बोधनम् [-ओ] । ४. हे (अवरोप्परं-) परस्परं भे- भवतां मच्छरो[-मत्सरः] न खमो- न युक्तः ॥८६॥
खड्गश्रियौ यमब्रवीत् प्रश्नं मुनिः किल स्वकम् ।
तत्रैव चाऽऽपदुत्तरं कामेसिसेविषायते ॥८७॥
का मे- मम, असिश्च खड्गं सा च लक्ष्मीः, तयोः सम्बोधनम्हेऽसिसे!, विषायते- विषवदाचरति? । हे यते!, कामे सिसेविषा- सेवितुमिच्छा ॥८७॥ 'कीदृग्भवेत् करक(ज)कर्तनकारिशस्त्रं? क्वाऽकारि किं रहसि केलिकलौ
भवान्या? । कश्चित्तरुः प्रवयणश्च पृथग् विबोध्यौ, "किं वा मुनिर्वदति बुद्धभवस्वभावः ? ॥८८|| नखलुभवेकोपिशमितोत्र ।
१. नखान् लुनातीति नखलु । २. भवे- हरे, अकोपि- कुपितम् । ३. हे शमि!- वृक्षभेद!, हे तोत्र!- प्राजन! ४. नैव खलु- निश्चयेन भवेऽत्र कोऽपि शमितोऽत्र संसारे न कोऽपि शान्त इत्यर्थः ॥८८।।
कुमुदैः श्रीमत् कश्चिद् गदपात्रं प्रश्नमाह यं भूमेः । तत्रैवोत्तरमलभत कैरवनिवहैरमामत्र ॥८९।।
Page #26
--------------------------------------------------------------------------
________________
अनुसन्धान-५८
कैर्वहै- वहामि, हे अवनि!- पृथिवि!, रमां- लक्ष्मी, अत्र- जगति? वह प्रापणे, पञ्चमी ए । अमा- रोगास्तेषाममत्रं- भाजनं, तस्य सम्बोधनम् - हे अमामत्र!, कैरवनिवहै:- पद्मसमूहैः । अयमत्र भावः - यः किल कुमुदैः श्रीमान् स तैरेव लक्ष्मीमावहति ॥८९॥
'सदाऽऽहिताग्नेः क्व विभाव्यते का? पावृष्युपास्ते शयितं क्व का कम् ? ।
दीर्घक्षणा वक्ति पुरस्थिताऽहमवीक्ष्यमाणा प्रिय! किं करोमि? ॥९०॥ आयतनेत्रेतापयसिमां ।
१. आयतने- गृहे, त्रेता- [अग्नित्रयम्,], त्रेता अग्नित्रियते युगे इति वचनात् । २. पयसि- जले मा- लक्ष्मीः , अं- विष्णुम् । ३. हे आयतनेत्रे!विशाललोचने!, तापयसि मां कर्मभूतम् ॥९०॥
'लक्ष्मीर्वदति बलिजितं त्वमीश! किं पीतमंशुकं कुरुषे? ।
२अपरं पृच्छामि प्रिय! कुर्वेऽहं किं भवच्चरणौ? ॥९१॥ सेवसे । गतागतः ।
१. हे से!- लक्ष्मि!, वसे- परिदधामि । वस आच्छादने, वर्तमाना ए। २. सेवसे- सेवां कुरुषे ॥९१॥
प्रवीरवरशूद्रकं किमु जगुर्जनाः कीदृशं?,
२पयो वदति कीदृशीं नृपततिं श्रयन्त्यर्थिनः? । २चकार किमगं हरिर्वदंत विस्मये किं पदं?,
पनिनीपुरमृतास्पदं कथमिवाह जैनो जनान्? ॥९२॥ सदाजिनवरागमम्बुधनरावरा( मुदा )सेवत ॥
१ सदा-नित्यम् आजिषु- सङ्ग्रामेषु नवो- नूतनो रागो यस्याऽसौ स तथा। २. हेऽम्बु!- जल!, धनं राति- ददाति धनरा[म्] । ३. उदासेउत्पाटितवान् । उत्पूर्वोऽसु क्षेपणे, परोक्षा ए । ४. बत । ५. हे बुधनराः!, सदानित्यं, जिनवरागमं- जिनेन्द्रसिद्धान्तं मुदा- हर्षेण सेवत, जिनागमे सेवां कुरुत इत्यर्थः ॥९२॥
का दुरिता(त?)- सदू(दू)षणसान्त्वक्षि(क्ष)तिभूमिरिति सति प्रश्ने । यत् तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥१३॥
Page #27
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
कामलालसामहेला ।
मला(लो)- दुरितं, आलो- विद्यमानदूषणं, साम- समता तां हन्ति सामहः । मलश्चाऽऽलश्च सामहश्च ते तथा तेषामिला- भूमिः का? । कामलालसा महेला- मारलम्पटा स्त्री ॥९३।। विधित्से किं शत्रून् युधि नरपते!? वक्ति कामल (कमला),
वराश्वीयं कीदृक्? क्व च सति नृपाः स्युः सुमनसः? । "विहङ्गः स्यात् कीदृक्? 'क्व रजति रमा? पृच्छति हर
प्रतीहारी भीरो! किमिह कुरुषे? "ब्रूत मदनम् ॥९४॥ विजये । गतागतः अनुर्गतः ।
१. विजये । विपूर्वो जि जये, वर्तमाना ए, 'विपराभ्यां जि'रित्यात्मनेपदम् । २. या श्रीस्तत्सम्बोधनम् - हे ये!, जवो- वेगो विद्यते यस्य तज्जवि । ३. विशेषेण जयः- परेषां हननं, तस्मिन् विजये सति । ४. वे:पक्षिणो जातो विजः । ५. अ- विष्णुस्तस्मिन् ए । ६. हे विजये!- शाङ्करप्रतीहारि!, विजे- भयं करोमि । ओविजी भयचलनयोर्वर्त्तमाना ए । ७. इ:कामस्तस्य सम्बोधनम्- हे ए! ॥९४॥
'हहो! शरीर! कुर्याः किमनुकलं त्वं वयोबलविभाद्यैः? ।
मदनरिपोर्दृक् कीदृ? जैनः कथमुपदिशति धर्मम्? ॥९५॥ जिनान्यजध्वंसदा ।
१. जिनानि- हानि गच्छामि एभिः कृत्वा । २. अज:- कामस्तस्य ध्वंसं ददातीति अजध्वंसदा सा हरदृग् । ३. जिनान् यजध्वं सदा- नित्यम् ॥१५॥ 'कीदृग् भाति नभो? २न के च सरुजां भक्ष्या? २नृपः पाति कं?,
"वादी पाशुपतो विवाद उदय[द्]दुःखः शिवं वक्ति किम्? । "निर्दम्भेति यदर्थतः प्रणिगदेद् रूपं विपूर्वाच्च त
न्मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ॥९६॥ भवद्यवादेशं । व्यस्त: द्विसमस्तः ।
१. भं- नक्षत्रं विद्यते यत्र तद् भवत् । २. यवाः । ३. देशम् । ४.
Page #28
--------------------------------------------------------------------------
________________
६०
अनुसन्धान-५८
हे भव!- शङ्कर!, द्य- खण्डय वादे- पक्षप्रतिपक्षपरिग्रहरूपे, शं- सुखम् । ५. भवतः- क्त्वाप्रत्ययस्य यबादेशो भवद्यबादेशस्तम् । यादृशं निर्दम्भशब्देनाऽर्थतो रूपमभिधीयते तादृशं विपूर्वस्य मीनातेः क्त्वाप्रत्ययस्य यबादेशे सति भवति । तथाहि - निर्दम्भशब्देन निर्गतमाय उद्यते, विमाय - अनेनाऽपि स एवेति भावः ॥९६॥
स्मृत्वा पक्षिविशेषेण जग्धं कमपि पक्षिणम् ।
वृष्णिवंशोद्भवो लक्ष्मी[मप्राक्षी]त् किं समोत्तरम्? ॥९७॥ यादवकङ्कः ।
हे इ!- लक्ष्मि!, आद- भक्षितवान् बकं- पक्षिणम् कः? । हे यादव!वृष्णिवंशोद्भव!, कङ्कः- पक्षिविशेषः ॥९७।।
प्रपञ्चक्व(वञ्च)नव(च)णं ध्यात्वा कि(क)मपि देहिनम् ।
विश्वम्भरा यदप्राक्षीत् ततः प्राह(प) तदुत्तरम् ॥९८॥ कोनालीकः ।
कः ना- पुरुषोऽलीकः? । हे को!- पृथ्वि!, नालिको दुंवालिकः (?) ॥९८॥
जात्यतुरगाहितमति-ल(ल)क्ष्मीपतिमप्सरोविशेषपतिः ।
यैर्वर्णैर्यदपृच्छत् तैरेव तदुत्तरं प्रापत् ॥९९।। मेनकाजानेययुता ।
माया इनो मेनस्तत्सम्बोधनम् – हे मेन!- लक्ष्मीपते!, काऽऽजानेययुताका अश्वयुता? । मेनका जाया यस्य स मेनकाजानिस्तस्य सम्बोधनम् - हे मेनकाजाने!- ऽप्सरोविशेषपते!, ययुता- अश्वता । जायाया जानिरिति विशेषलक्षणात् ॥९९।।
केन केषां प्रमोदः स्या-दिति पृच्छन्ति को(के)किनः? ।
सङ्गीतके च कीदृक्षाः प्राह शम्भुर्न भान्ति के? ॥१००॥ नीरवारवेणवः ।
१. नीरवाहो मेघस्तस्य रवः- शब्दस्तेन वो- युष्माकम् । २. निर्गतो
Page #29
--------------------------------------------------------------------------
________________
फेब्रुआ २०१२
रवः शब्दो येषां ते नीरवाः, हे हर ! - शङ्कर!, वेणवः- वंशाः ॥१००॥ 'कश्चिद्दैत्यो वदति दनुजान् घ्नन् हरे! किं किमाधाः?, शक्रात् प्रहः पृथगुदधिजाकान्त-वैवस्वता-ऽन्ताः । क्षिप्तः कश्चित् किल ललनया मन्मथोन्माथदुस्थः, सख्याऽऽस(च)ख्ये कथमथ मनःखेदविच्छेदहेतोः ? ॥१०१॥
कंसमानमायमकालावसान । गतागतः ।
१. हे कंस!– दैत्य!, मानं - पूजाम् आयं - लेभे । इण् गतौ इत्यस्य ह्यस्तन्यवि वृद्धौ सत्यां रूपम् । २. हे [अ ! - ] विष्णो!, हे काल!, हे अवसान!, सा अबला - स्त्री कामयमानम् - अभिलषन्तं कं नाऽऽस- चिक्षेपे ? अपि तु सर्वमपि क्षिप्तवती ॥१०१॥
जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः । सध्रीचीं यदपृच्छत् तदुत्तरं प्रापत् तत एव ॥१०२॥
६१
प्रसूनपुञ्जे नवमालिका ।
प्रसूनपुञ्जे- कुसुमनिवहेऽनवमा - प्रधाना आलि ! - सखि! का इत्यर्थः? | प्रसूत इति प्रसूस्तया ऊन: प्रसूनो जननीरहित इत्यर्थः, स चासौ पुमांश्च प्रसूनपुमान्, तस्माज्जाता प्रसूनपुञ्जा च सा [ई:- ] लक्ष्मीश्च, तस्याः सम्बोधनम्हे प्रसूनपुञ्जे!– जननीरहितपुरुषोद्भवलक्ष्मि!, नवमालिका - नवा चाऽसौ मालिका च ॥१०२॥
देवीं कमलासीनामन्तकचिरनगररक्षकः स्मृत्वा । यदपृच्छत् तत्रोत्तरमवाप कालीयमानवपुरत्र ॥ १०३॥
का लीयमानशरीरा त्रिजगति ? | यमस्याऽनवं- पुरातनं पुरं नगरं, तत् त्रायते य: स तथा, तस्य सम्बोधनम् - हे यमानवपुरत्र !, काली देवता ॥१०३॥
१सैन्याधिभूरभिषिषेणयिषुस्तदीयः, कं किं करोति विजयी नृपतेह(र्ह)वेन? । `कीदृक् क्व(च) मन्मथवतः प्रतिभाति कान्ता,
पत्नीहितो वदति चेतसि कस्य पुंसः ? ॥ १०४॥
Page #30
--------------------------------------------------------------------------
________________
६२
अनुसन्धान-५८
मदनमञ्जरीगृह्यते ।
१. मम न नमतीति मदनम्, यो मम नमस्कारं न करोतीत्यर्थः । तं जरीगृह्यतेऽत्यर्थं गृह्णाति । २. गृही:- कलत्राणि, तासां हितो गृह्यस्तस्य सम्बोधनम्हे गृह्य!- पत्नीहित!, ते- तव मदनस्य- मन्मथस्य मञ्जरीव मदनमञ्जरी ॥१०४।।
'कीदृशा किं कुरुते रवि(ति)समये कुत्र गोत्रभिदि भामा? ।
कस्मै च न रोचन्ते रामा यौवनमदोद्दामाः? ॥१०५॥ भवदरतीरमतये ।
१. भवति अरतिर्यस्याः सा भवदरतिः सती रमते ए- विष्णौ । २. भवाद् दरो भवदरस्तस्य तीरं- मोक्षस्तत्र मतिर्यस्य स तथा तस्मै, मोक्षार्थिने इत्यर्थः ॥१०५॥
सिन्धुः काचिद् वदति विदधे किं नु या(त्वया) कर्म जन्तो!?, यज्वा कस्मिन् सजति? २हरिणाः क्वोल्लसत्युद्विजन्ते? । 'ब्रूते वज्रः पदमुपमितौ किं? परविः पृच्छतीदं, देहिन्! बाधाभरविधुरितः कुत्र किं त्वं करोषि? ॥१०६।।
____ मञ्जरीसनाथजातिः । संतो कम्मि परम्मुहा? 'घरमुहे सोहा कहिं कीरए?, ३रूढे कम्मि रसंति दुट्ठकरहा? 'कम्मि बहुत्तं वि(ठि)यं? । पदिढे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुयं । के मुंचंति धणुधरत्ति भणिरे मज्जायमामंतसु ॥१०७।।
विपरीत-मञ्जरीसनाथजातिः । [मिथ्याज्ञानग्रहग्रस्तैः किं चक्रे क्व किलाऽङ्गिभिः? ।
क्वाऽभीष्टे का भवेत् कीदृगिति जैन! वद क्षितेः? ॥१०८॥ [गतागतः] रेमेसदपवाभदेवे ।]
१. हे रेवे!- नर्मदे!, मेवे- बद्धम् । २. सवे- यज्ञे । ३. दवेदावानले। ४. हे पवे!, वा-शब्दो विकल्पोपमानयोरिति वचनात् । ५. हे अवे !- आदित्य!, 'अवयः शैलमेषार्का' इति वचनात्, भवे- संसारे देवे- शुचं
Page #31
--------------------------------------------------------------------------
________________
फेब्रुआरी २०१२
करोमि, ते(दे)वृ देवने ॥१०६॥
विपरीतमञ्जरीसनाथजातिः १. वेरे - वैरे । २. देरे - द्वारे । ३. भरे । ४. वारे- सङ्घाते । ५. परे दृष्टे, दरे- भये उल्लसति, सरे- शरान् मुञ्चन्ति, मेरे!- मर्यादे! ॥१०७॥
गतागतः १. रेमे- रमितम्, पुनातीति पवा - पवित्रा, न पवाऽपवाऽपवित्रा, सा चाऽसावाभा च साऽपवाभा, सती- विद्यमानाऽपवाभा यस्य (x) तं, स तथा(x) स चाऽसौ देवश्च स तथा तस्मिन् । २. वेदेऽभीष्टे, भवापत्संसारापदसमा- अनन्यतुल्या, हे इरे ! - भूमे !, 'इरा भूवाक्सुराप्सु' इति वचनात् ॥१०८॥
भाद्रपदवारिबद्धः सितशकुनिविराजितं वियद् वीक्ष्य । कं प्रश्नं सदृशोत्तर - मकष्टमाचष्ट विस्पष्टम् ? ॥१०९॥
६३
नभस्यकनद्धबलाका ।
नभसि- आकाशेऽकनत्- शुशुभे धवला - शुभ्रा [का]? । नभस्यंभाद्रं च तत् कं- पानीयं च तन्नभस्यकं तेन नद्धो- बद्धस्तस्य सम्बोधनम् - हे नमस्यकनद्ध! बलाका ॥१०८॥
'भूरभिदधाति शरदिन्दुदीधिति: केह भाति पुष्पभिदा? । `प्रथमप्रावृषि वर्षति जलदे कः कुत्र सम्भवति ? ॥११०॥ saनिनवमालिका । गतागतः ।
१. हेऽवनि ! - पृथ्वि!, नवा चाऽसौ मालिका च सा तथा । २. कालिमा- कृष्णता, कस्मिन् ? वननिवहे ॥१०९॥
'कीदृक्षः सन्निह परभवे कीदृशः स्याद्धितैषी ? सदयः `कीदृक् का स्याद् वद गदवतामत्र दोषत्रयच्छित् ? मधुरता
का कीदृक्षा पुरि न भवतीत्याहतुर्वारि - भृङ्गौ ? विपण्याबली *कीदृश्यो वा कुवलयदृश: कामिनः कीदृश: स्यु: ? | गौरवपुषः ॥१११॥
१. सदय:- सह दयया वर्त्तत इति सदय:, इहभवे परभवे वा सन्शोभनोऽयो- लाभो यस्याऽसौ तथा । २. मधुरता - माधुर्यम् मधुनि रता मधुसक्ता, मधुसम्बन्धि माधुर्यम् । दोषत्रयापहारि इत्यर्थः । ३. विपण्याबली
Page #32
--------------------------------------------------------------------------
________________
६४
अनुसन्धान-५८
आपश्च अलिश्च आ(अ)बली, तयोः सम्बोधनम् - हे आ(अ)बली!- जलमधुकरौ, सम्बोधने द्विवचने रूपम् । विपण्या- विक्रीयद्रव्यरहिता, विपण्यावलीहट्टपङ्क्तिः । विक्रीयद्रव्यरहिता हट्टपङ्क्तिर्न शोभत इत्यर्थः । ४. गौरं वपुर्यासां ता गौरवपुषः [गौरवं पुष्णन्ति इति गौरवपुषः स्युः] ॥११०॥
'मुदा श्रयति कं ब्रूते वर्णः कोऽपि सदैव का? । २[ध्वान्तेऽ]न्या(न्य)याऽन्वितं वीक्ष्य प्राहोमात्किङ्करं (मा किं हरं) रुषा?
॥११२।। अंधकारे । चतुर्गतः ।
१. अं- विष्णुम्, हे धकार!, ई- लक्ष्मीः । २. अन्धकारे- तमसि, अन्धको नाम दानवस्तस्याऽरिर्महे[श्व] [स्त]स्य सम्बोधनम् - हेऽन्धकारे!महेश्व[र]!, अन्ध!- लोचनविहीन!, का रे? ॥११२॥
पू(भू)मी कत्थ वि या (ठिया)? २भणाइ गणिया रन्नो पहुत्तं कहिं ?, केली कत्थ? "करेसि किं हरिण! हे दिढे कहिं तक्खणं? ।। ५आमंतेसु करेणुअं? पंभणए नक्खत्तलच्छी कहिं, लोओ बिंति कयत्तणं? ७भण कहिं सुद्धे धरेमो मणं? ॥११३।।
मञ्जरीसनाथजातिः ॥ १किं पु(कु)रुषे को जन्तो! विष्णुः प्राह क्व कर्मविवशस्त्वम्? । का क्रियमाणा कीदृक् कुत्र भवेद् वक्ति करवालः ॥११४।।।
गतागतः युग्मम् ॥ सेवेदेहतपावभवावासे ।
१. सेसे- शेषराजे । २. हे वेसे!- वेश्ये!, देसे- देशे । ३. हसेहास्ये। ४. तसे- त्रसे, त्रसी उद्वेगे, पासे- बन्धने । ५. हे वसे!- करेणुके! "वसा चतस्रो वन्ध्यागौसुनार्यः करेणुका" इति वचनात् । ६. भं- नक्षत्रं तस्य सा- लक्ष्मीस्तस्याः सम्बोधनम् - हे भसे!- नक्षत्रलक्ष्मि!, वासे- व्यासे । व्यासस्तालां दत्त्वा कवित्वं करोतीत्यर्थः । ७. वासे- मेते जिनादौ (जिनमतादौ?) ॥११३॥
१. सेवे- अनुभवामि, देहश्च तपश्च तौ, तप धूप सन्तापे, तपतीति तपोऽवू(अ!-) हे विष्णो!, भवावासे- संसारवासे । २. सेवा अवा- रक्षिका,
Page #33
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
अवतीति अवा, भवपातं हन्ति भवपातहः, स चासौ देवश्च स तथा, तस्मिन्, हेऽसे!- खड्ग! ॥११४॥
कपटपटुदेवतार्चा बुद्धिप्रभुतोद्भवो नरः स्मृत्वा ।
समवर्णवितीर्णोत्तरमकष्टमाचष्ट कं प्रश्नम्? ॥११५।। कंसमायध्यायतिजनः ।
कं देवताविशेष, समायं- सह मायया वर्तत इति समायः- मायायुक्तस्तं, ध्यायति- पूजयति जनो- लोक इत्यर्थः । कंसं मीनाति- हिनस्ति कंसमायः, क कर्मण्य(?) मीनात्यादिना आकार आयिरित्यादन्तानामित्यादिः, विष्णुस्तम् । धीर्बुद्धिरायतिर्दीर्घता, प्रभुतेत्यर्थः, 'प्रभोर्दीर्घस्य भाव' इति कृत्वा, ध्यायती, ताभ्यां जातो ध्यायतिजः, स चासौ ना च- पुरुषश्च, तस्य सम्बोधनम् - हे ध्यायतिजनः! ॥११५।।
१भृङ्गः प्राह नृपः क्व रज्यति चिते? २स्थैर्यं न कस्मिन् जने?,
युद्धं वक्ति दुरोदरव्यसनिता कुत(त्र)? "क्व भूस्ता(म्ना)गुणाः? । “कस्मिन् वातविधूनिते तरलता? ब्रूते ख(स)खी काऽपि मे,
क्वोद्गच्छत्यभिवल्लभं विलसतो सङ्कोचने लोचने? ॥११६।। अवलोकनकुतूहले । अष्टदलं कमलं विपरीतम् ।
१. हेऽले!- भ्रमर!, बले- कटके । २. लोले- ह (अ. चञ्चले । ३. हे कले!- युद्ध!, नले राजनि। ४. कुले। तू ले लो> ५. तूले । ६. हले!- सखि!, अवलोकनकुतूहले- कौतुके कु क उद्गच्छति सति ॥११६॥
कीदृक्षमन्तरिक्षं स्यान्नवग्रहविराजितम्? ।
हनूमता दह्यमानं लङ्कायाः कीदृशं वनम्? ॥११७।। गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम् ।
१. गुरुर्ब्रहस्पतिः, शिखी केतुः, विधुः सोमः, रविरादित्यो, ज्ञः बुधः, सितः शुक्रो, मन्दः शनैश्चर, [आरः-] मङ्गलो, गुः राहुस्तै रुचितम्- दीप्तम् । २. गुरुविस्तीर्णः शिखी- वह्निस्तस्य व्यसनं (वैधुर्यम्?), तत्र विज्ञास्ते च ते सितकर्पूरवृक्षमन्दारागुरवश्च तैश्चितम्- सम्भृतं तत् गुरुशिखिविधुरविज्ञसित
Page #34
--------------------------------------------------------------------------
________________
६६
अनुसन्धान-५८
मन्दारागुरुचितम् ॥११७॥
श्रुतिसुखगीतगतमनाः श्रीसुतबन्धनवितर्कणैकरुचिः ।
प्रश्नं च करे(चकार)यं किल तदुत्तरं प्राप तत एव ॥११८।। काकलीभूयमनोहरते ।
का कलीभूय- कोमलीभूय मनो हरते? । काकली- गीतम् । ईलक्ष्मीः, तस्या भवतीति ईभूस्तस्य यमनं- बन्धनम्, तस्मिन् ऊहो- वितर्कस्तत्र रतिर्यस्य स तथा, तस्य सम्बोधनम् - हे ईभूयमनोहरते! ॥११८।।
स्मरगुहराधेयान् किल दृष्ट्वाऽग्रेऽङ्गारशकटिकाऽपृच्छत् ।
किं शत्रुश्रुतिमूलं प्रश्नाक्षरदत्तनिर्वचनम् ॥११९॥ इहारिकर्णजाहसंतिके ।
इहाऽत्राऽग्रे, हेऽरिकर्णजाह!- शत्रुकर्णमूल!, सन्ति- विद्यन्ते के? । इ:कामः, हरस्याऽपत्यं हारिः- कार्तिकेयः, कर्णजः- कर्णसुतस्ते सन्ति, हे हसन्तिकेऽङ्गारशकटिकेऽग्रे ॥११९।।
१जन्तुः कश्चन वक्ति का क्व रमतेऽथोचुः२ कचान् कीदृशान्?, ३ब्रह्मादित्रयमत्र कः क्रशयति?' क्वेडागमः स्याज्जनेः? । ५किं वाऽनुक्तसमुच्चये पदमथोप धातुश्च को भर्त्सने?,
"किं सूत्रं सुधियोऽध्यगीषत तथा विश्रान्तविद्याधराः? ॥१२०॥ झष्येकाचो वशः स्त्वो(स्थ्वो)श्च भस् ।
१. हे झषि!- शफरि!, ई- लक्ष्मीः , ए- विष्णौ । २. कंमस्तकमञ्चन्ति- पूजयन्ति काञ्चः, तान् काचः, शस(सि) तस्य रूपमिदम् । ३. उर्ब्रह्मा, उ: शङ्करो, अः विष्णुः, उश्च उश्च अश्च वाः, तान् श्यति- तनूकरोति वशः । ४. सकार-धकारयोरिड्, जनो घनेचेत्यनेन । ५ च । ६. भष भर्त्सने इति वचनात् । ७. के(झ)ष्येत्यादि सूत्रम् ॥१२०॥
याच्ञार्थविततपाणिं द्रमकं स्मृत्वा सदर्थलोभेन ।
यैर्वर्णैर्यदपृच्छत् तैरेव तदुत्तरं लेभे ॥१२१॥ तत्वाययाचकरंकः ।
तत्वा- विस्तार्य करं- हस्तं ययाच को याचितवान्? । तत्वाय
Page #35
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
लाभनिमित्तं, याचकश्चाऽसौ रङ्कश्च स तथा ॥१२१।।
मानं कुत्र? 'क्व भाण्डे क्व नयति लघु धामाप्तिराहाऽनुकम्पारे, शैत्यं कुत्र? 'क्व लोको न सजति? 'तुरगः क्वाऽर्च्यते? पक्व व्यवस्था? ।
श्रीब्रूते मुत् [क्व मे स्यात्?] 'क्व च कमलतुला? मूलतः क्वाऽशुचित्वं?, १°कस्मै सर्वोऽपि लोकः स्पृहयति? ११पथिकैः सत्पथे किं प्रचक्रे? ॥१२२।।
मञ्जरीसनाथजातिः । किं चक्रे रेणुभिः खे क्व सति? निगदति स्त्री रतिः क्वाऽनुरक्ता?, ३क्वाऽक्रोधः? "क्रूरताऽत्र क्व च? "वदति जिनः कोऽपि लक्ष्मीश्च भूश्च । विष्णुस्थाण्वोः प्रिये के? परिर्रमति मतिः कुत्र नित्यं मुनीनां?, किं चक्रे ज्ञानदृष्ट्या त्रिजगदपि मयेत्याह कश्चिज्जिनेन्द्रः ॥१२३॥
_ विपर्यस्तमञ्जरीसनाथजातिः । १किमकृत कुतोऽचलक्रमनृप आह सुभगतामानी स्वम् ।
कस्मै? २किं चक्रे क्व कस्य का मत्कुण वद त्वम् ॥१२४॥ गतागतः । मेनेमदतोक्षरनयशकारातेये । त्रिभिर्विशेषकम् ।।
___ मञ्जरीसनाथजातिः - १. मेये- द्रव्ये । २. नेये- नेतव्ये, मये- उष्ट्रे। ३. हे दये!- ऽनुकम्पे!, तोये ४. क्षये- विनाशे । ५. रये- वेगे । ६. नयेनीतौ । ७. यये- या-लक्ष्मीस्तस्याः सम्बोधनम् – हे ये!, ए- विष्णौ ८. शयेपाणौ, कमलवद् हस्त इति दर्शनात् । ९. काये- शरीरे । १०. राये- द्रव्याय। ११. तेये- गतम् । अय-वय-पय-मयेत्यस्य परोक्षायां रूपम् ॥१२२॥
विपरीतमञ्जरी - १. येमे- उपरतम्, तेमे- आर्द्रभावे सति । २. हे रामे!- स्त्रि!, कामे- मन्मथे । ३. शमे- उपशमे । ४. यमे- कीनाशे । ५. हे नमे! जिन!, हे रमे!- लक्ष्मि!, हे क्षमे!- पृथ्वि!, ता- लक्ष्मी, उमा- गौरी, ता चोमा च तोमे! । ६. दमे- शमे । ७. ममे- आकलितम्, हे नेमे! जिनेन्द्र! ॥१२३॥
गतागतः - १. मेने- मनितम्, मदतो- ऽहङ्कारात्, अक्षरो- ऽचलो नयो- नीतिर्यस्याऽसावक्षरनयः, शको राजा तस्याऽरातिः- शत्रुः शकारातिस्ततोऽक्षरनयश्चाऽसौ शकारातिश्च स तथा, तस्य सम्बोधनम् – हेऽक्षरनयशकाराते!, अये- कामाय, इ:- कामः चतुर्थ्येकवचने, 'डे:', डेरनेनैकारोऽये । अहङ्कारात्
Page #36
--------------------------------------------------------------------------
________________
६८
अनुसन्धान-५८
स्वं स्त्रीणां कामाय हे राजन्! तेन सुभगतामानिना कृतम् । अक्षरनयेत्यादिनाऽचलक्रमत्वं सूचितम् । २. येते- यत्नं कृतवती, यतैङ् प्रयत्ने, परोक्षा ए, राका- पूर्णिमास्या रात्रिः, शयनरक्षतो- निद्रारक्षणाद् दमने मे- मम ॥१२४||
१पाता वः कृतवानहं किमु? मृगत्रासाय कः स्याद् वने?,
कोऽध्यास्ते पितृवेश्म? 'कः प्रमदवान्? ५कः प्रीतये योषिताम्? । पहृद्यः कः किल कोकिलासु? करणेषूक्तः स्थिरार्थश्च को?, “दृष्टे क्व प्रतिभाति को लिपिवशाद् वर्णोऽपुराणश्च [क:]? ॥१२५।।
मञ्जरीसनाथजातिः । 'लकेश्वर-वैरि-वैष्णवाः केऽप्रा(प्या)हुः प्रीतिरकारि केन केषाम्? । किमकृत कं विक्रमासिकालः? माधर-वारुणीबीज-गाव आख्यन्
॥१२६।। युग्मम् । आदशकंधरवधेनवः ।
१. आवो- रक्षितवान् । पाता सन् त्वमस्मान् रक्षितवानित्यर्थः । अव रक्षपालने, शस्तन्याः सिवि रूपम् । २. दवो- दवानलः । ३. शवो- मृतकः । ४. कं- सुखम्, वाति- गच्छति कंवः । ५. धवो- भर्ता । ६. रवः- शब्दः । ७. बवो यः कृष्णचतुर्दश्यां भवति सिद्धान्तप्रसिद्धः । तत्र हि बवे कार्यमारब्धं स्थिरं भवतीत्यर्थः । ८. धे- धकारे दृष्टे वकारप्रत्ययः । ९. नवः- [आ]पुराणः ॥१२५॥
१. आ- समन्तात् दशकन्धरस्य- रावणस्य वधः तथा तेन वोयुष्माकम्, हे लङ्केश्वरवैरिवैष्णवास्तद्वधेन वो- भवतां समन्तात् प्रीतिरुत्पादितेत्यर्थः । २. आद- भक्षितवान्, शकं राजानम्, हे धर!- पर्वत!, वं वारुणबीजं मन्त्रिकप्रसिद्धम्, हे व!, हे धेनवः! ॥१२६।। युग्मम् ।
१प्राह रविर्मद्विरहे कैस्तेजःश्रीः क्रमेण किं चक्रे? ।
कीदृशि च नदीतीर्थे नाऽवतितीर्षन्ति हितकामाः? ॥१२७।। अहिमकरभैरवापे ।
१. हेऽहिमकर!- आदित्य!, भै-नक्षत्रैरवापे- लब्धा । २. अहिमकरैभैरवाभीषणा आप:- पानीयानि यत्र तत् तथा, तस्मिन् ॥१२७।।
Page #37
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
स्थिरसुरभितया ग्रीष्मे ये रागीष्टा विचिन्त्य तान् प्रश्नम् ।
यच्चक्रे करिपुरुषस्तदुत्तरं प्राप तत्रैव ॥१२८॥ केसरागजनरुचिताः ।
सह रागेण वर्तन्ते इति सरागास्ते च ते जनाश्च तेषां रुचिताः के इति प्रश्नार्थः । उत्तरम् - केसरा- बकुला, गजस्य ना- पुरुषो गजना, तस्य सम्बोधनम् हे गजनः!- हस्तिपक!, उचिताः- प्रशस्ताः ॥१२८॥
'प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं?, वदति विगलितश्रीः कीदृशं कामिवृन्दम्? । प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या,
कृतिभिरभिनियुक्तं किं किलाऽहं करोमि? ॥१२९।। नत्वमसि ।
१. नमतीति नत्, क्विप्, तोऽन्तागमः पञ्चमलोपश्च । नतमवति- रक्षति नतु । २. न विद्यते मा- लक्ष्मीर्यस्याऽसौ अमस्तस्य सम्बोधनम् - हे अम!गतलक्ष्मीक!, सि - सह इना- कामेन वर्त्तते इति से, सहस्य सभावे, ततः 'स्वरो हुस्वः' इति हुस्वः । कोऽर्थः? कामेन सह वर्तत इत्यर्थः । ३. हे नकार! त्वमसि- भवसि' ॥१२९॥
दम्पत्योः का कीदृग्? के कं भेजुरिति सुनृपते! ब्रूहि? ।
मुक्ताः कयाऽऽह्रियन्ते? "वदत्यपाच्यश्च मदनध्रुक् कीदृक्? ॥१३०॥ मायानमदनदादानदमनयामा हारदामकाम्ययायाम्यकामदारहा । मन्थानजातिः।
१. माया- निकृतिर्न मदनदा- कामदा । २. दान-दमनया, दानं च दमश्च नयश्च ते दानदमनयाः कर्तारो मां नृपतिं कर्मतापन्नं श्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः । मा या न म द न दा ३. हारयष्टिवाञ्छया- मौक्तिकहाराभिलाषेण मुक्ताफलान्याह्रियन्ते इत्यर्थः । ४. यमस्येयं यामी, तस्यां भवो गतो वा याम्य[स्तस्य] सम्बोधनम् - हे याम्य!- दाक्षिणात्य!, कामदारं हन्ति कामदारहा- मन्मथकलत्रविनाशकः ॥१२९।। 1. निषेधार्थं भवसीत्यर्थः -सं. ।
hor
Page #38
--------------------------------------------------------------------------
________________
७०
अनुसन्धान-५८
'ते कीदृशाः क्व कृतिनो? 'व्यञ्जनमाह रिपवोऽनमन् कस्मै? ।
३कां पातीन्द्रः? पट्टो ब्रवीति कीदृक् क्व भूः प्रायः? ॥१३१॥ येरताजिनमते । तेमनजितारये । लेखराजिमासन । नसमाजिराखले । मन्थानकजातिः ।
१. ये रता- अभियुक्ता, जिनस्य मतं जिनमतं, तस्मिन् । २. हे तेमना!- व्यञ्जन!, जितारये, जिता अरयो येन स तथा तस्मै । ३. लेखराजिं- देवश्रेणिम । हे ये र ता जि न म ते | आसन्!- पट्ट! । ४. न समाजिरा- समप्राङ्गणा खले ॥१३॥ वर्षाः शिखण्डिकलनादवतीविचिन्त्य,
शैला-ऽश्ववक्त्र-दहनाक्षर-वावदूकान् । लक्ष्मीश्च नष्टमदनश्च समानवर्ण
दत्तोत्तरं कथय किं पृथगुक्तवन्तौ? ॥१३२।। कदागमयुरगादिनः केकास्ति( स्ते )निरे ।
कदा- कस्मिन् कालेऽगः पर्वतो, मयुरश्ववक्त्रो, रो दहनाक्षरो मान्त्रिकप्रसिद्धः, गदन्तीति गादिनो- वावदूकाः!, के कर्तारः काः कर्मतापन्नाः स्तेनिरेविस्तारितवन्तः? इति प्रश्नार्थः । उत्तरम् - कं- पानीयं ददातीति कदोमेघस्तस्याऽऽगमः स तथा तस्मिन् । उरगान्- सर्पान् अदन्तीति उरगादिनोमयूराः कर्तारः, केका- मयूरध्वनीन् विस्तारयन्ति स्मेत्यस्ताः कर्मतापन्नाः, तालक्ष्मीस्तस्याः सम्बोधनम् - हे ते!- लक्ष्मि!, [निर्गत] इ:- कामे(मो) यस्याऽसौ निरिस्तस्य सम्बोधनम् - हे निरे!- हे निर्गतकाम!, मेघागमे सति मयूराः केकामयूरध्वनीन् विस्तारयन्ति स्मेत्यर्थः ॥१३२॥
'सम्बोधयाऽर्द्धमहिमांशुकरैः स्वभावं, कुर्वे किमित्यभिदधाति किलाऽऽर्द्रभावः । ३क्षान्ति वद प्रहरमाह्वय 'पृच्छ पुच्छं, ब्रूयास्तनूरुहमुदाहर मातुलं च ॥१३३।।
मञ्जरीसनाथजातिः । किं कुर्यां हरिभक्तिमाह कमला कुत्र च्युते चाटुभिः?, कीदृक्षैः किल शुक्लशुक्लवचसी किञ्चित् खगं प्राहतुः? ।
Page #39
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
७१
ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चाऽऽरुह्यते?, “वक्त्यार्किः क्व चुरा? चकाऽस्ति विमले कस्मिन् सरोजावली? ॥१३४॥
विपर्यस्तमञ्जरीसनाथजातिः । किं कुरुथः के कीदृकौ(शौ) [यु]वामलसौ? पृच्छति तनुरुहरोगः ।
'छेत्तुमवाञ्छन् वरमारामं केनाऽप्युक्तः कोऽपि किमाह? ॥१३५।। गतागतम् । नेवस्तेशयालूलोमाम । त्रिभिरेकमुत्तरम् ।
१. हे नेम!- अर्द्ध! । २. वम- त्यज, हे स्तेम!- आर्द्रभाव!, ष्टिम ष्टीम आर्द्रभावे । आदित्यकिरणेषु सत्सु आर्द्रभावो न भवतीत्यर्थः । ३. हे शम! । ४. हे याम!- प्रहर! । ५. हे लूम!- पुच्छ! । ६. हे लोम!- रोम! । ७. हे माम!- मातुल! ॥१३३॥
१. मन, इ!, माने-ऽहङ्कारे च्युते सति । हे कमले! हरेः सम्बन्धिभिश्चाटुकारैः अहङ्कारे माने च्युते- व्यतीते सति हरेविष्णोः सम्बन्धिनी भक्तिस्त्वया मनिता इत्यर्थः । २. लोने- लकारेण ऊने, शुक इति खगप्रभुरित्यर्थः । ३. लूने- छेदिते । ४. याने- वाहने । ५. हे शने!- शनैश्चर!, स्तेने- चौरे । ६. वने- पानीये ॥१३४॥
१. न इवो- न गच्छावः, इण् गतौ, वर्तमाना वसि रूपम् । ते- लक्ष्म्यौ [शयालू]-आलस्येन शयनशीलौ भदन्तौ कर्मतापन्नौ लक्ष्म्यौ कयौँ आवां न श्रयावः इत्यर्थः । लोमानाममो- रोगो लोमामस्तस्य सम्बोधनं हे लोमाम! । २. मे- मम अलोलूया- अलवितुमिच्छा शस्ते- प्रशस्ते वने ॥१३५॥
का कीदृक्षा वदत भविनां? वक्ति मृत्यूग्ररोगः, २शोचत्यन्तः किल विधिवशात् कीदृगित्युत्तमा स्त्री? ।
गम्भीराम्भःसविधजनता कीदृशी स्याद् भयार्त्ता?,
"ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः? ॥१३६।। तागत्वरीमरक करमरीत्वगता । सारतरीपरमा मारपरीतरसा । मन्थानजातिः ।
१. ता- लक्ष्मीर्गत्वरी- विनश्वरा, हे मरक! २. करमरीत्वं गता करमरीत्वगता सती शोचति । ३. सारा चाऽसौ तरी च सारतरी, तस्यां परमा1. बन्दीभावम्, देश्यशब्दोऽयम् इति टी. ।
Page #40
--------------------------------------------------------------------------
________________
७२
अनुसन्धान-५८
स
1 hot
रिमा त्वया
प्रधाना । ४. मारपरीत!- मन्मथायत्त!, रसा- भूः ॥१३६।।
१सान्त्वं निषेधयितुमाह किमुग्रदण्डः?, २स्वामश्रियं वदति किं रिपसाच्चिकीर्षन? । ता ग त्वरी म र क नम्रः स्थिरो गुरुरिहेति वदन् किमाह?,
४ये द्यन्ति शत्रुकमलां किल ते किमूचुः? ॥१३७॥ मा सामधारिमात्वया, यात्वमाऽरिधामसा, नेहगरिमोद्यातां, तांद्यामोऽरिगहने । मन्थानजातिः ।
१. सामनीति(तिर्) धारि मा त्वया, 'धृ धारणे'ऽद्यतनी भावे, ‘तानमामे'त्यादिनाऽटप्रतिषेधः । २. यातु- व्रजतु अमा- अलक्ष्मीररिधाम- शत्रुगृहं, ला(सा)- सा म धा ऽलक्ष्मीः । ३. नेह गरिमा- गुरुत्वमुद्यातां- धावतांचपलानामित्यर्थः । ४. तां- कमलां द्यामः- खण्डयामोऽरिगहने- शत्रुगहने ॥१३७॥
का स्त्री ताम्यति कीदृशा स्वपतिना? २विद्या सदा किंविधा, सिध्येद् भक्तिमतोऽथ लोकविदिता का कीदृगंम्बा च का? । 'किम्भूतेन भवेद् धनेन धनवान्? साङ्ख्यैश्च पुंसेष्यते, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा दधे कीदृशा? ॥१३८॥ मञ्जरी । केष्टा विष्णोनिगदति गदः? २प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसम्बोधनं किम्? । २प्राहर्जुः [किं जि]गमिषुमिनं वक्ति कान्ताऽनुरक्ता?, ४सान्त्वं ५धूम्र प्रहरमपि सम्बोधयाऽनुक्रमेण ॥१३९।।
विपरीतसनाथजातिः । भण केन किं प्रचक्रे नयेन भुवि कीदृशेन का [-]पते!? । काः पृच्छति तरलतरः के यूयं किं कुरुत सततम्? ॥१४०॥ गतागतः।
मयाध्यासामासयुवाता । त्रिष्वेकमुत्तरम् । १. मता- ऽभिमता स्त्री, याता- गच्छता । यदा भर्ता बहिर्गच्छति तदाऽभिमता स्त्री ताम्यतीत्यर्थः । २. ध्याता सती । ३. सा- लक्ष्मीः अता,
Page #41
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
७३
अततीति अता, चञ्चलेति विदितेत्यर्थः । ४. माता । ५. सता- विद्यमानेन । ६. युता- सहिता । ७. वाता- कम्पता ॥१३८॥
विपरीतमञ्जरी - १. ता- लक्ष्मीः , हेऽम!- रोग! । २. वाम!- सव्येतर!, ई च उमा च युमम्, तत्सम्बोधनं- हे युम! । ३. हे सम!- ऋजो!, माऽम- मा गच्छ । ४. हे साम!- समते! । ५. हे ध्याम!- धूम्र! । ६. हे याम! ॥१३९॥
गतागतः - १. मया, अवतीति क्विपि तृतीयैकवचने उवा- रक्षकेण, ता- राज्यादिलक्ष्मीरध्यासामासे । २. हे वायुसम!, असा- अलक्ष्मीका वयं ता:लक्ष्मीः कर्मतापन्ना ध्यायाम ॥१४०॥
'लोके केन किलाऽऽपि कान्तकविता? कीदृग् महावंशजश्रेणिः? ३श्रीसुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः । "हे दुःप्रव्रजितप्रदानक! कुतः का पात्रदात्रोर्भवेत्?,
“कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद ॥१४१॥ कालिदासकविना । नाविकसदालिका । तामरसविदम । मदविसरमता सरक! विदामविदलिता नाम का? मन्थानान्तरजातिः ।
१. कालिदासाभिधेन कविना । २. नाऽविकसन्ती, आलिकानां विकसत्(ती?) श्रेणिः । किं तर्हि?
का लि दा स क वि ना विकसदालिका । ३. सवो- यज्ञो विद्यते यत्र स सवी। ता च लक्ष्मीरमरश्च देवः सवी च याज्ञिको दमश्चेन्द्रियजयस्तत्सम्बोधनं - हे तामरसविदम! । ४. मत्तोमत्सकाशादविसरमता । अविश्चेडकः समरश्च श्वा, तयोर्भावोऽविसमरता । ५. हे सरक!- सुरे!, विदां- पण्डितानाम् अविदलिता- अखण्डिता का? कीर्तिः । नामशब्दः प्राकाश्ये ।
'तमालव्यालमलिने कः क्व प्रावृषि सम्भवी? ।
आख्याति मूढः क्वाऽऽरूलैर्निस्तीर्णस्तूर्णमर्णवः? ॥१४१।। तेपोनवजलवाहे । गतागतः ।
१. तेपः- क्षरणं नवजलवाहे- नूतनजीमूते । २. हे बाल!, जवो विद्यते यस्याऽसौ जवनः, लोमपा[मा] दिना मत्वर्थीयो नः, जवनश्चाऽसौ पोतश्च जवनपोतः,
म
Page #42
--------------------------------------------------------------------------
________________
७४
अनुसन्धान- ५८
तस्मिन् ॥१४१॥
१ध्वान्तं ब्रूतेऽर्हतां का तृणमणिषु ? 'खगः कश्चिदाख्याति केन, प्रीतिर्मेऽथाऽऽह कर्म प्रसभकृतमहो दुर्बल: केन पुष्येत् ? । "कामधुग् वक्ति काऽत्र प्रजनयति शुनो ? ५ [ युद्धहृ]त् पूर्वलक्ष्मीसत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदाश्वासनीयः ? ॥१४२॥ तामस । [ समता । सारस । सरसा । स ] हसा । साहस । मारस । सरमा । समरहर ! तासासा मास । पद्मजातिः ।
सा
र
स ह सा
र
मा
१. तामस!, समता । २. हे सारस!, सरसासरोवरेण । ३. हे साहस !- अपर्यालोचितकर्म!, सहसा - बलेन । ४. मारं स्यति - तनूकरोतीति मारसस्तत्सम्बोधनंहे मारस!, सरमा- शुनी । ५. समरे - सङ्ग्रामे हरतीति समरहरस्तत्सम्बोधनं समरहर !, ता - लक्ष्मी:, सा सासैव, मा आस- चिक्षेप ॥ १४२ ॥
'किमभिदधौ करभोरुं सततगतिं किल पतिः स्थिरीकर्तुम् ? । 'जननी पृच्छति विकचे कस्मिन् सन्तुष्यति भ्रमरः ? ॥१४३॥ मातरम्भोरुहे ।
ता म
१. माऽत- मा गच्छ, रम्भावदूरू यस्याः सा तथा, तस्याः सम्बोधनंहे रम्भोरु ! | २. हे मातः ! - जननि!, अम्भोरुहे- पद्मे ॥ १४३॥
प्राधान्यं धान्यभेदे क्व कथय [ति ] चयं (यः) ? कीदृशी वायुपत्नी, नक्षत्रं वक्ति कुर्वे महमिनमिति प्राह तत्स्तोत्रजीवी । 'ब्रूहि ब्रह्मस्वरं च 'क्षितिकमभिगदाऽथोल्लसल्लीलमञ्जूल्लापामामन्त्रय स्त्रीं 'क्व सजति न जनः प्राह कोऽप्यम्बुपक्षीः ॥१४४॥ कलमे । मेलक । करता । तारक । सेवक । कवसे । कराव । वराक । कलरवरामे । तासे बक । पद्मजातिः ।
१. कलमे - शालौ, हे मेलक! - चय! । २. के- वायौ रता करता, हे तारक! - नक्षत्र! । ३. हे सेवक!, कवसे- स्तौषि । ४. कस्य - ब्रह्मणो राव:शब्दः करावस्तत्सम्बोधनं - हे कराव ! । ५. हे वराक - क्षितक । ६. कलो
Page #43
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
रवो यस्याः सा तथा, सा चाऽऽसौ रामा च सा तथा, तस्याः सम्बोधनं - हे कलरवरामे! ७. तां- लक्ष्मी स्यतीति तासस्तस्मिन्, हे बक! ॥१४४॥
'कीदृक्षं लक्ष्मीपतिहृदयं? कीदृग् युगं रतिप्रीत्योः? । कः स्तूयतेऽत्र शैवैर्गुणवृद्धी चाऽज्झलौ कस्य? ॥१४५॥
१. सह या- लक्ष्म्या वर्तते इति सि । 'सह ई' इति स्थिते सहस्य सभावो, 'अवर्णइवर्ण' ए, 'स्वरो हुस्वो नपुंसके' । २. सह इना- कामेन वर्तते इति सि । अशपि ह्रस्वत्वम् । रतिप्रीति(ती) कामभार्ये, ततश्च कामेन सह वर्तते रतिप्रीतियुगमित्यर्थः । ३. उ:- शङ्करः । ४. उ:- ऋकारस्य । अज्ज्ञल्युक्तः गुणोऽर् वृद्धिश्चाऽऽर् ॥१४५।। 'कुत्र प्रेम ममेति पृच्छति हरिः, २श्रीराह कुर्यां प्रियं, किं प्रेम्णाऽहमहो गुणाः! कुरुत किं यूयं गुणिन्याश्रये? । *किं कुर्वे व(ऽर्य)मिदं प्रगायति किमुद्गाताऽऽह सीरायुधः, पकिं प्रेयःप्रणयास्पदं स्मरभवः पर्यन्वयुक्ताऽऽमयः ॥१४६॥ मञ्जरीसनाथजातिः । विकरुण! भण केन किमाधेया का? २रज्यते च केन जनोऽयम्? । ३कार्या न का वणिज्या? "का धर्मे नेष्यते? 'कयाऽरञ्जि हरिः? ॥१४७॥
विपरीतमञ्जरी । 'काः कीदृशीः कुरुध्वे किं सन्तोषाग्निनर्षयो यूयम्? । किमहं करवै मदनभयविधुरितः कान् कया कथय? ॥१४८॥ गतागतः । यायमानसारादहेम ।
___ मञ्जरी - १. ई- लक्ष्मीस्तस्यां यां, हे अ!- विष्णो! । ई इति सप्तम्येकवचनान्तस्य रूपम् । २. इ!- लक्ष्मि!, अम- गच्छ । ई इति स्थिते सम्बोधनइस्वत्वे यत्वे च सति रूपम् । ३. माम, मा माने, पञ्चमी आम । ४. नमप्रणम। ५. साम- सामवेदं, हे राम!- बलदेव! । ६. दं- कलत्रम्, ए:कामस्याऽपत्यम् अः, अपत्येऽण, इवणेत्यादिना इलोपः, प्रत्ययमात्रावस्थानं, तत्सम्बोधनं- हे अ!, तथा हेऽम!- [रोग!] ॥१४६॥
विपरीतमञ्जरी - १. मया हेया दया । २. राया- द्रव्येण । ३. सहाऽऽयेन लाभेन वर्तते साया न या वणिज्या । ४. माया । ५. यया- लक्ष्म्या
Page #44
--------------------------------------------------------------------------
________________
७६
अनुसन्धान-५८
॥१४७||
___गतागतः - १. या:- लक्ष्म्योऽमानसारा- अपूजाप्रधाना दहेम, दह भस्मीकरणे, सप्तमी याम । २. मह- पूजय, ऐ:-कामाद् दरो- भयं तमस्यन्तिक्षिपन्ति ये ते इदरासास्तानमायया- अच्छद्मभावेन ॥१४८॥ ___ कृषीवलः पृच्छति कीदृगार्हतः?, क्व केन विद्वानुपयाति हास्यताम्? ।
सुरालयक्रीडनचञ्चुरुच्चकैश्च्युतिक्षणे शोचति निर्जरः कथम्? ॥१४९॥ हालिक । कलिहा । ना[लि]के । केलिना । नाककेलिहा । मन्थानकजातिः ।
१. हे हालिक!- कृषीबल!, कलिं हन्ति कलिहा । २. ना केलिना- हास्येन, नालिके- टुंनालिके(?) । ३. नाकस्य- हा लि क देवलोकस्य केलिः, हेति खेदे ॥१४९।।
'कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः?, कम्बलम् कश्चिद् वृक्षो वदति पलभुग मांससत्के क्व रज्येत्? । केसर हेतुबूंते परिवहति का स्थूलमुक्ताफलाभाम्?, कारक
यव्यक्षेत्रक्षितिरिह भवेत् कीदृगित्याह काकः? ॥१५०॥ सयवा गतागतचतुष्टयम् ।
१. कम्बलम्, लम्बमेव लम्बकम्, स्वार्थे कः, विस्तीर्णम् । २. हे केसर!- बकुल!, रसके- मांससम्बन्धिनि रसे, वह्निसंयोगे सति यः क्षरति । ३. हे कारक!, करका- घनोपलाः । ४. सह यवैवर्तन्ते इति सयवाः, हे वायस!काक! ॥१५०॥
१ श्रीचित्ते प्रियविप्रयोगदहनोऽहं कीदृशे किं दधे?, प्रेम्णा किं करवाण्यहं हरिपदोः पप्रच्छ लक्ष्मीरिति । कस्मै चिक्लिशुरङ्गदादिसुभटाः? 'क्वाऽनोकहे नम्रता?,
“कस्मै किं विदधीत भक्तविषयत्यागादिकमार्हतः? ॥१५१॥ सेतप । पतसे । सेतवे । वेतसे । तपसेसेवेत ।
१. से । सह एन- विष्णुना वर्त्तते सा (सम्), तस्मिन् । से| सहस्य सभावे सप्तम्येकवचने रूपम् । तप- सन्तापं कुरु । २. से त वे पत- प्रणामं कुरु, हे से!- लक्ष्मि ! । ३. सेतवे- जलबन्धाय। प|
Page #45
--------------------------------------------------------------------------
________________
फेब्रुआरी - २०१२
४. वेतसे- जलवंसे । ५. तपसे- तपोनिमित्तं सेवेत- कुर्वीत ॥१५१॥ ___ 'हिमवत्पत्नी परिपृच्छति कः कीदृक् कीदृशि कस्याः कस्मिन्? ।।
केन न लभ्या नृसुरशिवश्रीरित्याख्यत् किल कोऽपि जिनेन्द्रः ॥१५२।। मेनेपिनाकीवक्तावाननेतेविनये । गतागतः ।
१. हे मेने!- हिमाचलभायें!, पिनाकी- हरः वक्ता- वचनशीलो, 'वन षन सम्भक्तौ' इनन्तस्ततो वानयतीति वाननः- सम्भक्तिकारको विनयस्तस्मिन् वानने विनये, ते- तव । २. येन पुंसा वितेने- विस्तारिता, न- नैव वाक्वचनं तावकीनाऽपि- तव सम्बन्धिन्यपि, हे नेमे! जिन! ॥१५२॥ 'तणजलतरुपुन्नं वाहसुन्नं पि रन्नं, भण हरिणकुलाणं केरिसं केरिसं नो? । प्रलयपवनवेगप्रेरणात् कीदृशेऽब्धौ, सतततदधिवासं व्यूढमैक्षन्त कं वा? ॥१५३॥ बहुलहरितरच्छकुलचलच्छंखेमकरं ।
१. बहुला:- प्रभूता हरयः- सिंहास्ते च तरच्छाच्च रिच्छास्ते तथा, तेषां कुलानि, तेषां चलन्त्यक्षीणि यत्र तत्तथा, क्षेमकरं- शुभकरम् । २. बढ्यश्चप्रचुराश्च ताः लहर्यश्च ताभिस्तरन्तः शकुला जीवा चलन्तश्च शङ्खाश्च यत्राऽब्धौ स तथा तस्मिन्, मकरम् ॥१५३।।
'को धर्मः स्मृतिवादिनां? दधति के द्विःसप्तसङ्ख्यामिह?, 'प्रार्थ्यन्ते च जनेन के भवभवाः? "पुंसां श्रियः कीदृशः? । ५को वाऽभ्रङ्कषकोटयः शिखरिणां रेजुस्तथा कांश्चन,
श्रीरस्मानजनिष्ट नाऽङ्गजमिति प्रोक्तान् वदेत् किं स्मरः? ॥१५४॥ मामसूतसानवः । मञ्जरीजातिः ।
१. मनो ऋषेरयं मानवोऽणि रूपम् । २. मनवो, मनुशब्देन चतुर्दशाऽभिधीयन्ते । ३. सूनवः- पुत्राः । ४. तनवः- तुच्छाः । ५. सानवः- प्रस्थाः । ६. मां स्मरमसूत- जनितवती सा- लक्ष्मीन- नैव वो- युष्मान् । यदा केचनैवं वक्तारो भवन्ति - यदुत श्रीर्लक्ष्मीरस्मानेव जनितवती, नाऽङ्गजं कामदेवं, तदाऽङ्गजः कामदेवस्तान् प्रतिपादयेदित्यर्थः ॥१५४॥
पाके धातुरवाचि कः? 'क्व भवतो भीरो! मनः प्रीयते?, सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः? ।
Page #46
--------------------------------------------------------------------------
________________
७८
अनुसन्धान-५८
"पाणौ किं मुरजिद् बिभति? ५भुवि तं ध्यायन्ति वा के सदा?,
के वा सद्गुरवोऽत्र चारुचरण-श्रीसुश्रुता विश्रुताः? ॥१५५।। श्रीमदभयदेवाचार्याः ।
१. श्री, श्री पाके । २. ममाऽभयं ददातीति मदभयदस्तस्मिन् । यो मदभयं ददाति तत्र मम मनः प्रीतियुक्तं भवतीत्यर्थः । ३. वाचा- वचनेन । ४. अरा विद्यन्ते यत्र तदरि- चक्रम् । ५. ऐ- विष्णौ भक्तिर्येषां ते आवैष्णवाः, 'तत्र भक्ति रित्यण् ॥१५५॥
'कः स्यादम्भसि वारिवायसवति? 'क्व द्वीपिनं हन्त्ययं, लोकः? २प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः? । "ब्रूते पालयिताऽत्र दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधे
पबृंहि त्वं जिनवल्लभ! स्तुतिपदं कीदृग्विधाः के सताम्? ॥१५६॥ मद्गुरवो जिनेश्वरसूरयः ।
१. मद्गुर्जलवायसः, तस्य रवः- शब्दः । २. अजिने- चर्मणि, 'निमित्तात् कर्मसंयोगे सप्तमी वाच्या'ऽनेनाऽजिनेत्यत्र सप्तमी । ३. हे अश्व!हय!, रस्, तुस[हृसह्लशरस] शब्दे इति वचनात् । ४. ऊ!- रक्षक!, अवतीति क्विप्, श्रव्यथेत्यादिना ऊटि रूपम्, रयो- वेगः । ५. मम जिनवल्लभस्य गुरवो मद्गुरव, एवंविधाः सन्तः के? जिनेश्वरसूरयः, सतां- शिष्टानां स्तुतिपदमित्यर्थः ॥१५६॥
'प्रत्येकं हरि-धान्यभेद-शशिनः पृच्छन्ति किं लुब्धक!, त्वं प्राप्तं कुरुषे मृगव्रजेमथो खादद्गृहीताऽवदत् । कीदृग् भाति सरोऽर्हतश्च सदनं? २किं चाऽल्पधीर्नाऽऽप्नुवन्,
पृष्टः प्राह? "तथा च केन मुनिना प्रश्नावलीयं कृता? ॥१५७।। जिनवल्लभेन । गतागतद्विर्गतः ।
१. हे जिन!- विष्णो!, हे वल्ल!- धान्यभेद!, भं- नक्षत्रं, तस्य इनःस्वामी भेनस्तस्य सं.- हे भेनेन्दो!, नभे, णभेत्यस्य वर्तमाना ए रूपम् । त्रयाणामपि सम्बोधनम् । २. अत्- अदन्-खादन् लाति- गृह्णाति अल्लः, 'अद-प्सा भक्षणे'ऽत्तीति अत्, क्विप्, परो लाऽऽदाने, आतोऽनुपसर्गादिति कः, पररूपे सम्बोधने - हेऽल्ल!, वनजि, वनं- पानीयं, तत्र जातं वनजं, तद् विद्यते
Page #47
--------------------------------------------------------------------------
________________ फेब्रुआरी - 2012 79 यत्र सरसि तत्तथा / तथा [जिनवद्-] जिनो विद्यते यत्राऽर्हत्सदने तत्तथा / 3. लभे- प्राप्नोमि न- नैव / 4. जिनवल्लभेन // 157|| किमपि यदिहाऽश्लिष्टं क्लिष्टं तथा चिरसत्कविप्रकटितपथाऽनिष्टं शिष्टं मया मतिदोषतः / तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि // 158 / / इति खरतर-श्रीजिनवल्लभसूरिकृतं प्रश्नशतं तट्टीका च सम्पूर्णमिति भद्रम् / श्रीरस्तु / संवत् 16 आषाढादि 18 वर्षे श्रावणसुदि 9 रवौ लिखितमिदं पुस्तकम् / लेखक-पाठकयोः कल्याणं भूयास्ताम् // अनुसन्धान-५७, ट्रंक नोंध- 2 नी पूर्ति अनुसन्धान-५७मां अकटूंकनोंधमां, अत्यारे गणावाता 34 अतिशयोमांथी समवसरण, सुवर्णकमल जेवा घणा अतिशयो, समवायाङ्गजीमां नथी जणावाया ते विशे चर्चा थई हती. आ सम्बन्धे अेक महत्त्वपूर्ण उल्लेख श्रीजिनभद्रगणि-विरचित विशेष-णवतिमा छ : "होऊणं व देवकया चउतीसाइसयबाहिरा कीस।। पागारंबुरुहाइ अणण्णसरिसा वि लोगम्मि? // 109 // (प्रश्न : देवो द्वारा रचायेला समवसरण, कमल व. विश्वमा अनन्य होवा छतां पण 34 अतिशयोमां केम तेमनी गणतरी नथी ?) "चोतीसं किर णियया ते गहिआ सेसया अणियय त्ति / सुत्तम्मि न संगहिआ जह लद्धीओऽवसेसाओ // 110 / / __(उत्तर : जेम लब्धिओ अनन्त होवा छतां सूत्रमा तो 28 ज गणाववामां आवी छे; तेम जे अतिशयो नियत- अवश्यम्भावी हता, तेमनी ज गणना सूत्रमा करवामां आवी छे. बाकीना अनियत- कादाचित्क अतिशयोनुं ग्रहण सूत्रमा नथी कर्यु.)" जिनेश्वर समवसरणमां ज देशना आपे के प्रभु सुवर्णकमल पर ज चाले ओवी प्ररूपणाओना सन्दर्भे आ उल्लेख ध्यानपात्र छे अने खुलासारूप छे.