SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०१२ प्रभविष्णुविष्णुजिष्णुनि युद्धे कर्णस्य कीदृगभिसन्धि: ? । ’नकुलकुलसङ्कुलभुवि प्राय: स्यात् कीदृगहिनिवहः ? ॥५॥ विलसदनरतः । १. अश्च विष्णुर्नरश्चाऽर्जुनस्तौ अनरौ । विलसतौ च तौ अनरौ च तस्यतिक्षयं नयति इति [क्विप्] । धातुत्वान्न दीर्घः । २. बिलसदनरतः - छिद्रगृहासक्तः ॥५॥ ३५ 'ब्रूतो ब्रह्मस्मरौ के रणशिरसि जिताः केन जेत्राऽऽह विद्वानुद्यानं स्यान्न कीदृग् ? जलधिजलमहो कीदृशं स्यान्न गम्यम् ? । ४को मां वक्त्याऽऽह कृष्णः ? 'क्व सति पटु वचः ? स्यादुतः केन वृद्धिस्त्याज्यं कीदृक् तडागं? 'नतिमति लघु[का] किं करोत्युत्कटं किम् ? ॥६॥ वीराज्ञाविनुदतिपापम् । शृङ्खलाजातिः । भूपेन । १. उश्च इश्च वी हे वी! । वीरा:- सुभटाः । केन जेत्रा? राज्ञाI २. जानातीति ज्ञः हे ज्ञ! । न विद्यन्तेऽवयः पक्षिणो यत्र तत् अवि उद्यानं न भवति । ३. विगता नौर्बेटिका यत्र तत् विनु । ४. नौतीति नुत् । हे अ!विष्णो! यस्त्वां नौति स वक्ति । ५. दति - दशने सति । दन्तस्य दतीति दत् । पटुवचनो भवतीत्यर्थः । ६. तिपा - तिप्रत्ययेन, 'उतो वृद्धि' रित्यादिना । ७. अपगताः आपः- पानीयानि यत्र तत् पापम् । 'वष्टी' त्यादिना अलोपः । [८. वीराज्ञा उत्कटं पापं विनुदति ॥] ॥६॥ 'दृष्ट्वा राहुमुखग्रस्यमानमिन्दुं किमाह तद्दयिता? | असुमेति पदं कीदृक् कामं लक्ष्मीं च बोधयति ? ॥७॥ अवतमसम् । १. अवत- रक्षत मसं - चन्द्रम् । २. न विद्यन्ते उश्च अश्च तश्च मश्च सश्चवतमसो यत्र तत् अवतमसं, ततो हे ए! - काम!, हे इ! - लक्ष्मि ! इति भवति 11911 'कमभिसरति लक्ष्मी: ? किं सरागैरजय्यं ?, सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम्? । सततरतविमर्द्दे निर्द्दये बद्धबुद्धि:, किमभिलषति कान्ता? 'किं च चक्रे हनूमान् ? ॥८॥
SR No.229465
Book TitlePrashnottar Shatam
Original Sutra AuthorN/A
AuthorRatnakirtivijay, Trailokyamandanvijay
PublisherZZ_Anusandhan
Publication Year
Total Pages47
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size237 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy