SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ६० अनुसन्धान-५८ हे भव!- शङ्कर!, द्य- खण्डय वादे- पक्षप्रतिपक्षपरिग्रहरूपे, शं- सुखम् । ५. भवतः- क्त्वाप्रत्ययस्य यबादेशो भवद्यबादेशस्तम् । यादृशं निर्दम्भशब्देनाऽर्थतो रूपमभिधीयते तादृशं विपूर्वस्य मीनातेः क्त्वाप्रत्ययस्य यबादेशे सति भवति । तथाहि - निर्दम्भशब्देन निर्गतमाय उद्यते, विमाय - अनेनाऽपि स एवेति भावः ॥९६॥ स्मृत्वा पक्षिविशेषेण जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी[मप्राक्षी]त् किं समोत्तरम्? ॥९७॥ यादवकङ्कः । हे इ!- लक्ष्मि!, आद- भक्षितवान् बकं- पक्षिणम् कः? । हे यादव!वृष्णिवंशोद्भव!, कङ्कः- पक्षिविशेषः ॥९७।। प्रपञ्चक्व(वञ्च)नव(च)णं ध्यात्वा कि(क)मपि देहिनम् । विश्वम्भरा यदप्राक्षीत् ततः प्राह(प) तदुत्तरम् ॥९८॥ कोनालीकः । कः ना- पुरुषोऽलीकः? । हे को!- पृथ्वि!, नालिको दुंवालिकः (?) ॥९८॥ जात्यतुरगाहितमति-ल(ल)क्ष्मीपतिमप्सरोविशेषपतिः । यैर्वर्णैर्यदपृच्छत् तैरेव तदुत्तरं प्रापत् ॥९९।। मेनकाजानेययुता । माया इनो मेनस्तत्सम्बोधनम् – हे मेन!- लक्ष्मीपते!, काऽऽजानेययुताका अश्वयुता? । मेनका जाया यस्य स मेनकाजानिस्तस्य सम्बोधनम् - हे मेनकाजाने!- ऽप्सरोविशेषपते!, ययुता- अश्वता । जायाया जानिरिति विशेषलक्षणात् ॥९९।। केन केषां प्रमोदः स्या-दिति पृच्छन्ति को(के)किनः? । सङ्गीतके च कीदृक्षाः प्राह शम्भुर्न भान्ति के? ॥१००॥ नीरवारवेणवः । १. नीरवाहो मेघस्तस्य रवः- शब्दस्तेन वो- युष्माकम् । २. निर्गतो
SR No.229465
Book TitlePrashnottar Shatam
Original Sutra AuthorN/A
AuthorRatnakirtivijay, Trailokyamandanvijay
PublisherZZ_Anusandhan
Publication Year
Total Pages47
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size237 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy