SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५८ श्रतये किमकारयतां परस्परं दम्पती ची(चि)रान्मिलितौ? । २मोक्षपथप्रस्थितमतिः परिहरति च कीदृशीं जनताम्? ॥८१॥ अतत्वरताम् । १. कामाय शीघ्यभावयताम् । २. अतत्त्वे रता अतत्त्वरता, ताम् ॥८१।। 'हे नार्यः! किमकार्षुरुद्गतमुदो युष्मद्वराः काः किल?, क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया? । इच्छ[न्] लाभमहं मनोगृहगतं रक्षामि शम्भुं सदा, प्रीतः स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति? ॥८२।। उपायंसतनोतुभद्रते । १. उपायंसत- परिणीतवतः(न्तः) नः- अस्मान् । २. अतुभद्विनाशितवान्, हे रते!- कामप्रिये!, णभ तुभ हिंसायाम्, अद्यतनी दि, पुष्पादित्वादङि । ३. उपायं स महेश्वरस्तनोतु- विस्तारयतु, भद्रं ते- तव ॥८२॥ सरभसमभिपश्यन्ती किमकार्षीः कं मम त्वमिन्दुमुखि!? । 'नयनगतिपदं कीदृक् पूजयतीत्यर्थमभिधत्ते? ॥८३।। [प]प्रथमंगजम् । १अ[प]प्रथम्- विस्तारितवती अङ्गजं- कामम् । २. न विद्य(द्ये)ते पकारात् प्रथमौ नकारौ यत्र तत् तथा, गश्च जो- जकारो यत्र तद्गजम्, ततो यजतीति भवति ॥८३॥ विधुन्तुदः प्राह रविं ग्रहीतुं कीदृक्षमाहुः स्मृतिवादिनो माम्? । का वा न दैवज्ञवरैः स्तुतेह प्रायेण कार्येषु शुभावहेषु? ॥८४॥ राहोनिशविरलगमम् । गतागतः । १. हे राहो!, निशि- रात्रौ अविरलो गमो यस्य स तथा तम् । निशाया निश् । २. मङ्गलरविअ(श)निहोरा । रविरादित्यः । होराशब्दः प्रत्येकम् ॥८४।। अग्निज्वालादिसाम्याय यं प्रश्नं श्रीरुदीरयेत् । तेनैव समवर्णेन प्रापदुत्तममुत्तरम् ॥८५॥ कोपमानलाभाद्ये । का उपमाऽनलाभाद्ये वस्तुनि? । अनलस्येवाऽग्नेरिवाऽऽभा छाया
SR No.229465
Book TitlePrashnottar Shatam
Original Sutra AuthorN/A
AuthorRatnakirtivijay, Trailokyamandanvijay
PublisherZZ_Anusandhan
Publication Year
Total Pages47
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size237 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy