________________
फेब्रुआरी - २०१२
औषधं प्राह रोगाणां मया कः प्रविधीयते? ।
जामातरं समाख्याति कीदृशो वठरध्वनिः? ॥३४॥ अगदशमः ।
१. हे अगद!- औषध!, शम- उपशमः । २. न विद्यते गकाराद्दशमो ठकारो यत्र स अगदशमस्ततो वर इति भवति ॥३४॥
१अग्रे गम्येत केन? २प्रविरलमसृणं कं प्रशंसन्ति सन्तः?,
पाणिबूंते जटी कं प्रणमति? "विधवा स्त्री न कीदृक् प्रशस्या? । 'वक्ति स्तेनः क्व वेगो? रणभुवि कुरुतः किं मिथः शत्रुपक्षा
वुद्वेगावेगजातारतिरथ वदति स्त्री सखीं किं सुषुप्सुः? ॥३५॥ हलासंस्तरंसारयेतः । अष्टदलकमलम् ।
१. हला- व्यञ्जनेन । २. हसं- ईषद्धसितम् । ३. हे हस्त!- कर!, हरं- शम्भुम् । ४. हसतीति हसा । तः (ला) सं| ५. हे हर!- चौर!, हयेऽश्वे । ६. हतः, 'हन् हिंसागत्योः ' ये ह वर्तमाना तसि रूपम् । [७. हला- हे सखि! संस्तरं- र शयनीयं सारय- प्रगुणीकुरु इत:- अत्र ।] ॥३५॥
'व्यथितं किमाह सदयः क्षितकं क्षुत्क्षामकुक्षिमुद्वीक्ष्य? ।
दारुणधन्वनि समरे कीदृक् कातरनरश्रेणिः? ॥३६।। हावराकनिरशन । गतागतः ।
१. हा खेदे, वराक!- तपस्विन्! निरशन!- गतभोजन! । २. न- नो शरनिकरं बाणसङ्घातं आवहति या सा तथा ॥३६॥
'चन्द्रः प्राह वियोगवानकरवं किं रोहिणी प्रत्यहं?, शम्भो! केन जवाददाहि सरुषा कस्याऽङ्गयष्टिः किल? । शीघ्रं कैः पथि गम्यतेऽथ कमला ब्रूते मुहुर्वल्लभ!,
ध्यानावेशवशादलाभि पुरतः कैर्वेश्वरूप्यं मम? ॥३७॥ मयैः । चतुःसमस्तम् ।