________________
फेब्रुआरी - २०१२
रवो यस्याः सा तथा, सा चाऽऽसौ रामा च सा तथा, तस्याः सम्बोधनं - हे कलरवरामे! ७. तां- लक्ष्मी स्यतीति तासस्तस्मिन्, हे बक! ॥१४४॥
'कीदृक्षं लक्ष्मीपतिहृदयं? कीदृग् युगं रतिप्रीत्योः? । कः स्तूयतेऽत्र शैवैर्गुणवृद्धी चाऽज्झलौ कस्य? ॥१४५॥
१. सह या- लक्ष्म्या वर्तते इति सि । 'सह ई' इति स्थिते सहस्य सभावो, 'अवर्णइवर्ण' ए, 'स्वरो हुस्वो नपुंसके' । २. सह इना- कामेन वर्तते इति सि । अशपि ह्रस्वत्वम् । रतिप्रीति(ती) कामभार्ये, ततश्च कामेन सह वर्तते रतिप्रीतियुगमित्यर्थः । ३. उ:- शङ्करः । ४. उ:- ऋकारस्य । अज्ज्ञल्युक्तः गुणोऽर् वृद्धिश्चाऽऽर् ॥१४५।। 'कुत्र प्रेम ममेति पृच्छति हरिः, २श्रीराह कुर्यां प्रियं, किं प्रेम्णाऽहमहो गुणाः! कुरुत किं यूयं गुणिन्याश्रये? । *किं कुर्वे व(ऽर्य)मिदं प्रगायति किमुद्गाताऽऽह सीरायुधः, पकिं प्रेयःप्रणयास्पदं स्मरभवः पर्यन्वयुक्ताऽऽमयः ॥१४६॥ मञ्जरीसनाथजातिः । विकरुण! भण केन किमाधेया का? २रज्यते च केन जनोऽयम्? । ३कार्या न का वणिज्या? "का धर्मे नेष्यते? 'कयाऽरञ्जि हरिः? ॥१४७॥
विपरीतमञ्जरी । 'काः कीदृशीः कुरुध्वे किं सन्तोषाग्निनर्षयो यूयम्? । किमहं करवै मदनभयविधुरितः कान् कया कथय? ॥१४८॥ गतागतः । यायमानसारादहेम ।
___ मञ्जरी - १. ई- लक्ष्मीस्तस्यां यां, हे अ!- विष्णो! । ई इति सप्तम्येकवचनान्तस्य रूपम् । २. इ!- लक्ष्मि!, अम- गच्छ । ई इति स्थिते सम्बोधनइस्वत्वे यत्वे च सति रूपम् । ३. माम, मा माने, पञ्चमी आम । ४. नमप्रणम। ५. साम- सामवेदं, हे राम!- बलदेव! । ६. दं- कलत्रम्, ए:कामस्याऽपत्यम् अः, अपत्येऽण, इवणेत्यादिना इलोपः, प्रत्ययमात्रावस्थानं, तत्सम्बोधनं- हे अ!, तथा हेऽम!- [रोग!] ॥१४६॥
विपरीतमञ्जरी - १. मया हेया दया । २. राया- द्रव्येण । ३. सहाऽऽयेन लाभेन वर्तते साया न या वणिज्या । ४. माया । ५. यया- लक्ष्म्या