________________
अनुसन्धान-५८
विशदपञ्चमः । व्यस्त-द्विःसमस्तः ।
१. विशत्यः- प्रविशत्यः आपो यत्र तत् तथा। २. चमो अदने इत्यस्य । ३. विशदपञ्चमः- निर्मलपञ्चमरागः । ४. विगतशकारोच्चमं (विगतः शकारो दकाराच्च) पञ्चमः फकारो यत्र स तथा, 'या' इति भवति ॥५२।।
वदति मुरजित् कुत्राता प्रिया वरुणस्य का?, २स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति । दशमुखचमू[:] काकुस्थेन व्यधीयत कीदृशी?
३रवरवकवर्णाली कीदृग् ब्रवीति गतारतिम्? ॥५३।। अपरावणा । वर्द्धमानाक्षरजातिः ।
१. हे अ!- विष्णो!, तथा हे अपः!- कुत्सितं पातीति अपः, कुत्सितार्थे नञ्, अपरा- पश्चिमा । २. न परान् अवतीति अपरावस्तस्य सम्बोधनं- हे अपराव!, न विद्यते रावणो यस्यां सा तथा । ३. अकारात् पराऽपरा, वकारयोर्णी यत्र सा वणा, ततो [अ] रणरणक इति भवेत् ॥५३।।
निःप्रस्वः (निःस्व:) प्राह लसद्विवेककुलजैः सम्यग् विधीयेत को?, मुग्धे! स्निग्धदृशं प्रिये! किमकरोः? ३किं वा तदोष्ठं व्यधाः? । ४लोकैः कोऽत्र निगद्यते [बलिवधूवैधव्यदीक्षागुरुः?,,
"कीदृग् भूमिशुभासशब्द इह भो! विश्रम्भवाची भवेत्? ॥५४॥] [अतनवमदशमः । द्विळस्तसमस्तजातिः ।]
[१. न विद्यते] ता- लक्ष्मीर्यस्याऽसावतस्तस्य सं० हे अत!, नवश्चासौ मदश्च स तथा, [तस्य] शमः । २. अतनवं- विस्तारितवती । ३. अदशम्अधरचुम्बनमकरवम् । ४. अ:- विष्णुः । ५. न विद्यते तकारान्नवमदशमौ यत्र स तथा, ततश्च 'विश्वास' इति भवति ॥५४॥
शशिना प्रमदपरवशः पृच्छति कः स्वर्गवासमधिवसति? ।
च्युतसत्पथाः किमाहुलौकिकसन्तो विषादपराः? ॥५५।। मयानंदवशनाकी । गतागतः ।
१. मसा- चन्द्रमसा आनन्दः स तथा तेन वशः परवशस्तस्य सम्बोधनम्, नाकी । [२. किनाशवदनं याम वयम् ।]
'उष्ट्रः पृच्छति किं चकार मदृते कस्मिन् शमीवृक्षकः?, कीदृक् सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाऽहं ब्रुवे? ।