Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
७०
अनुसन्धान-५८
'ते कीदृशाः क्व कृतिनो? 'व्यञ्जनमाह रिपवोऽनमन् कस्मै? ।
३कां पातीन्द्रः? पट्टो ब्रवीति कीदृक् क्व भूः प्रायः? ॥१३१॥ येरताजिनमते । तेमनजितारये । लेखराजिमासन । नसमाजिराखले । मन्थानकजातिः ।
१. ये रता- अभियुक्ता, जिनस्य मतं जिनमतं, तस्मिन् । २. हे तेमना!- व्यञ्जन!, जितारये, जिता अरयो येन स तथा तस्मै । ३. लेखराजिं- देवश्रेणिम । हे ये र ता जि न म ते | आसन्!- पट्ट! । ४. न समाजिरा- समप्राङ्गणा खले ॥१३॥ वर्षाः शिखण्डिकलनादवतीविचिन्त्य,
शैला-ऽश्ववक्त्र-दहनाक्षर-वावदूकान् । लक्ष्मीश्च नष्टमदनश्च समानवर्ण
दत्तोत्तरं कथय किं पृथगुक्तवन्तौ? ॥१३२।। कदागमयुरगादिनः केकास्ति( स्ते )निरे ।
कदा- कस्मिन् कालेऽगः पर्वतो, मयुरश्ववक्त्रो, रो दहनाक्षरो मान्त्रिकप्रसिद्धः, गदन्तीति गादिनो- वावदूकाः!, के कर्तारः काः कर्मतापन्नाः स्तेनिरेविस्तारितवन्तः? इति प्रश्नार्थः । उत्तरम् - कं- पानीयं ददातीति कदोमेघस्तस्याऽऽगमः स तथा तस्मिन् । उरगान्- सर्पान् अदन्तीति उरगादिनोमयूराः कर्तारः, केका- मयूरध्वनीन् विस्तारयन्ति स्मेत्यस्ताः कर्मतापन्नाः, तालक्ष्मीस्तस्याः सम्बोधनम् - हे ते!- लक्ष्मि!, [निर्गत] इ:- कामे(मो) यस्याऽसौ निरिस्तस्य सम्बोधनम् - हे निरे!- हे निर्गतकाम!, मेघागमे सति मयूराः केकामयूरध्वनीन् विस्तारयन्ति स्मेत्यर्थः ॥१३२॥
'सम्बोधयाऽर्द्धमहिमांशुकरैः स्वभावं, कुर्वे किमित्यभिदधाति किलाऽऽर्द्रभावः । ३क्षान्ति वद प्रहरमाह्वय 'पृच्छ पुच्छं, ब्रूयास्तनूरुहमुदाहर मातुलं च ॥१३३।।
मञ्जरीसनाथजातिः । किं कुर्यां हरिभक्तिमाह कमला कुत्र च्युते चाटुभिः?, कीदृक्षैः किल शुक्लशुक्लवचसी किञ्चित् खगं प्राहतुः? ।

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47