Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 37
________________ फेब्रुआरी - २०१२ स्थिरसुरभितया ग्रीष्मे ये रागीष्टा विचिन्त्य तान् प्रश्नम् । यच्चक्रे करिपुरुषस्तदुत्तरं प्राप तत्रैव ॥१२८॥ केसरागजनरुचिताः । सह रागेण वर्तन्ते इति सरागास्ते च ते जनाश्च तेषां रुचिताः के इति प्रश्नार्थः । उत्तरम् - केसरा- बकुला, गजस्य ना- पुरुषो गजना, तस्य सम्बोधनम् हे गजनः!- हस्तिपक!, उचिताः- प्रशस्ताः ॥१२८॥ 'प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं?, वदति विगलितश्रीः कीदृशं कामिवृन्दम्? । प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या, कृतिभिरभिनियुक्तं किं किलाऽहं करोमि? ॥१२९।। नत्वमसि । १. नमतीति नत्, क्विप्, तोऽन्तागमः पञ्चमलोपश्च । नतमवति- रक्षति नतु । २. न विद्यते मा- लक्ष्मीर्यस्याऽसौ अमस्तस्य सम्बोधनम् - हे अम!गतलक्ष्मीक!, सि - सह इना- कामेन वर्त्तते इति से, सहस्य सभावे, ततः 'स्वरो हुस्वः' इति हुस्वः । कोऽर्थः? कामेन सह वर्तत इत्यर्थः । ३. हे नकार! त्वमसि- भवसि' ॥१२९॥ दम्पत्योः का कीदृग्? के कं भेजुरिति सुनृपते! ब्रूहि? । मुक्ताः कयाऽऽह्रियन्ते? "वदत्यपाच्यश्च मदनध्रुक् कीदृक्? ॥१३०॥ मायानमदनदादानदमनयामा हारदामकाम्ययायाम्यकामदारहा । मन्थानजातिः। १. माया- निकृतिर्न मदनदा- कामदा । २. दान-दमनया, दानं च दमश्च नयश्च ते दानदमनयाः कर्तारो मां नृपतिं कर्मतापन्नं श्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः । मा या न म द न दा ३. हारयष्टिवाञ्छया- मौक्तिकहाराभिलाषेण मुक्ताफलान्याह्रियन्ते इत्यर्थः । ४. यमस्येयं यामी, तस्यां भवो गतो वा याम्य[स्तस्य] सम्बोधनम् - हे याम्य!- दाक्षिणात्य!, कामदारं हन्ति कामदारहा- मन्मथकलत्रविनाशकः ॥१२९।। 1. निषेधार्थं भवसीत्यर्थः -सं. । hor

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47