Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
फेब्रुआरी - २०१२
लाभनिमित्तं, याचकश्चाऽसौ रङ्कश्च स तथा ॥१२१।।
मानं कुत्र? 'क्व भाण्डे क्व नयति लघु धामाप्तिराहाऽनुकम्पारे, शैत्यं कुत्र? 'क्व लोको न सजति? 'तुरगः क्वाऽर्च्यते? पक्व व्यवस्था? ।
श्रीब्रूते मुत् [क्व मे स्यात्?] 'क्व च कमलतुला? मूलतः क्वाऽशुचित्वं?, १°कस्मै सर्वोऽपि लोकः स्पृहयति? ११पथिकैः सत्पथे किं प्रचक्रे? ॥१२२।।
मञ्जरीसनाथजातिः । किं चक्रे रेणुभिः खे क्व सति? निगदति स्त्री रतिः क्वाऽनुरक्ता?, ३क्वाऽक्रोधः? "क्रूरताऽत्र क्व च? "वदति जिनः कोऽपि लक्ष्मीश्च भूश्च । विष्णुस्थाण्वोः प्रिये के? परिर्रमति मतिः कुत्र नित्यं मुनीनां?, किं चक्रे ज्ञानदृष्ट्या त्रिजगदपि मयेत्याह कश्चिज्जिनेन्द्रः ॥१२३॥
_ विपर्यस्तमञ्जरीसनाथजातिः । १किमकृत कुतोऽचलक्रमनृप आह सुभगतामानी स्वम् ।
कस्मै? २किं चक्रे क्व कस्य का मत्कुण वद त्वम् ॥१२४॥ गतागतः । मेनेमदतोक्षरनयशकारातेये । त्रिभिर्विशेषकम् ।।
___ मञ्जरीसनाथजातिः - १. मेये- द्रव्ये । २. नेये- नेतव्ये, मये- उष्ट्रे। ३. हे दये!- ऽनुकम्पे!, तोये ४. क्षये- विनाशे । ५. रये- वेगे । ६. नयेनीतौ । ७. यये- या-लक्ष्मीस्तस्याः सम्बोधनम् – हे ये!, ए- विष्णौ ८. शयेपाणौ, कमलवद् हस्त इति दर्शनात् । ९. काये- शरीरे । १०. राये- द्रव्याय। ११. तेये- गतम् । अय-वय-पय-मयेत्यस्य परोक्षायां रूपम् ॥१२२॥
विपरीतमञ्जरी - १. येमे- उपरतम्, तेमे- आर्द्रभावे सति । २. हे रामे!- स्त्रि!, कामे- मन्मथे । ३. शमे- उपशमे । ४. यमे- कीनाशे । ५. हे नमे! जिन!, हे रमे!- लक्ष्मि!, हे क्षमे!- पृथ्वि!, ता- लक्ष्मी, उमा- गौरी, ता चोमा च तोमे! । ६. दमे- शमे । ७. ममे- आकलितम्, हे नेमे! जिनेन्द्र! ॥१२३॥
गतागतः - १. मेने- मनितम्, मदतो- ऽहङ्कारात्, अक्षरो- ऽचलो नयो- नीतिर्यस्याऽसावक्षरनयः, शको राजा तस्याऽरातिः- शत्रुः शकारातिस्ततोऽक्षरनयश्चाऽसौ शकारातिश्च स तथा, तस्य सम्बोधनम् – हेऽक्षरनयशकाराते!, अये- कामाय, इ:- कामः चतुर्थ्येकवचने, 'डे:', डेरनेनैकारोऽये । अहङ्कारात्

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47