Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 33
________________ फेब्रुआरी - २०१२ अवतीति अवा, भवपातं हन्ति भवपातहः, स चासौ देवश्च स तथा, तस्मिन्, हेऽसे!- खड्ग! ॥११४॥ कपटपटुदेवतार्चा बुद्धिप्रभुतोद्भवो नरः स्मृत्वा । समवर्णवितीर्णोत्तरमकष्टमाचष्ट कं प्रश्नम्? ॥११५।। कंसमायध्यायतिजनः । कं देवताविशेष, समायं- सह मायया वर्तत इति समायः- मायायुक्तस्तं, ध्यायति- पूजयति जनो- लोक इत्यर्थः । कंसं मीनाति- हिनस्ति कंसमायः, क कर्मण्य(?) मीनात्यादिना आकार आयिरित्यादन्तानामित्यादिः, विष्णुस्तम् । धीर्बुद्धिरायतिर्दीर्घता, प्रभुतेत्यर्थः, 'प्रभोर्दीर्घस्य भाव' इति कृत्वा, ध्यायती, ताभ्यां जातो ध्यायतिजः, स चासौ ना च- पुरुषश्च, तस्य सम्बोधनम् - हे ध्यायतिजनः! ॥११५।। १भृङ्गः प्राह नृपः क्व रज्यति चिते? २स्थैर्यं न कस्मिन् जने?, युद्धं वक्ति दुरोदरव्यसनिता कुत(त्र)? "क्व भूस्ता(म्ना)गुणाः? । “कस्मिन् वातविधूनिते तरलता? ब्रूते ख(स)खी काऽपि मे, क्वोद्गच्छत्यभिवल्लभं विलसतो सङ्कोचने लोचने? ॥११६।। अवलोकनकुतूहले । अष्टदलं कमलं विपरीतम् । १. हेऽले!- भ्रमर!, बले- कटके । २. लोले- ह (अ. चञ्चले । ३. हे कले!- युद्ध!, नले राजनि। ४. कुले। तू ले लो> ५. तूले । ६. हले!- सखि!, अवलोकनकुतूहले- कौतुके कु क उद्गच्छति सति ॥११६॥ कीदृक्षमन्तरिक्षं स्यान्नवग्रहविराजितम्? । हनूमता दह्यमानं लङ्कायाः कीदृशं वनम्? ॥११७।। गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम् । १. गुरुर्ब्रहस्पतिः, शिखी केतुः, विधुः सोमः, रविरादित्यो, ज्ञः बुधः, सितः शुक्रो, मन्दः शनैश्चर, [आरः-] मङ्गलो, गुः राहुस्तै रुचितम्- दीप्तम् । २. गुरुविस्तीर्णः शिखी- वह्निस्तस्य व्यसनं (वैधुर्यम्?), तत्र विज्ञास्ते च ते सितकर्पूरवृक्षमन्दारागुरवश्च तैश्चितम्- सम्भृतं तत् गुरुशिखिविधुरविज्ञसित

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47