Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 34
________________ ६६ अनुसन्धान-५८ मन्दारागुरुचितम् ॥११७॥ श्रुतिसुखगीतगतमनाः श्रीसुतबन्धनवितर्कणैकरुचिः । प्रश्नं च करे(चकार)यं किल तदुत्तरं प्राप तत एव ॥११८।। काकलीभूयमनोहरते । का कलीभूय- कोमलीभूय मनो हरते? । काकली- गीतम् । ईलक्ष्मीः, तस्या भवतीति ईभूस्तस्य यमनं- बन्धनम्, तस्मिन् ऊहो- वितर्कस्तत्र रतिर्यस्य स तथा, तस्य सम्बोधनम् - हे ईभूयमनोहरते! ॥११८।। स्मरगुहराधेयान् किल दृष्ट्वाऽग्रेऽङ्गारशकटिकाऽपृच्छत् । किं शत्रुश्रुतिमूलं प्रश्नाक्षरदत्तनिर्वचनम् ॥११९॥ इहारिकर्णजाहसंतिके । इहाऽत्राऽग्रे, हेऽरिकर्णजाह!- शत्रुकर्णमूल!, सन्ति- विद्यन्ते के? । इ:कामः, हरस्याऽपत्यं हारिः- कार्तिकेयः, कर्णजः- कर्णसुतस्ते सन्ति, हे हसन्तिकेऽङ्गारशकटिकेऽग्रे ॥११९।। १जन्तुः कश्चन वक्ति का क्व रमतेऽथोचुः२ कचान् कीदृशान्?, ३ब्रह्मादित्रयमत्र कः क्रशयति?' क्वेडागमः स्याज्जनेः? । ५किं वाऽनुक्तसमुच्चये पदमथोप धातुश्च को भर्त्सने?, "किं सूत्रं सुधियोऽध्यगीषत तथा विश्रान्तविद्याधराः? ॥१२०॥ झष्येकाचो वशः स्त्वो(स्थ्वो)श्च भस् । १. हे झषि!- शफरि!, ई- लक्ष्मीः , ए- विष्णौ । २. कंमस्तकमञ्चन्ति- पूजयन्ति काञ्चः, तान् काचः, शस(सि) तस्य रूपमिदम् । ३. उर्ब्रह्मा, उ: शङ्करो, अः विष्णुः, उश्च उश्च अश्च वाः, तान् श्यति- तनूकरोति वशः । ४. सकार-धकारयोरिड्, जनो घनेचेत्यनेन । ५ च । ६. भष भर्त्सने इति वचनात् । ७. के(झ)ष्येत्यादि सूत्रम् ॥१२०॥ याच्ञार्थविततपाणिं द्रमकं स्मृत्वा सदर्थलोभेन । यैर्वर्णैर्यदपृच्छत् तैरेव तदुत्तरं लेभे ॥१२१॥ तत्वाययाचकरंकः । तत्वा- विस्तार्य करं- हस्तं ययाच को याचितवान्? । तत्वाय

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47