Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
६२
अनुसन्धान-५८
मदनमञ्जरीगृह्यते ।
१. मम न नमतीति मदनम्, यो मम नमस्कारं न करोतीत्यर्थः । तं जरीगृह्यतेऽत्यर्थं गृह्णाति । २. गृही:- कलत्राणि, तासां हितो गृह्यस्तस्य सम्बोधनम्हे गृह्य!- पत्नीहित!, ते- तव मदनस्य- मन्मथस्य मञ्जरीव मदनमञ्जरी ॥१०४।।
'कीदृशा किं कुरुते रवि(ति)समये कुत्र गोत्रभिदि भामा? ।
कस्मै च न रोचन्ते रामा यौवनमदोद्दामाः? ॥१०५॥ भवदरतीरमतये ।
१. भवति अरतिर्यस्याः सा भवदरतिः सती रमते ए- विष्णौ । २. भवाद् दरो भवदरस्तस्य तीरं- मोक्षस्तत्र मतिर्यस्य स तथा तस्मै, मोक्षार्थिने इत्यर्थः ॥१०५॥
सिन्धुः काचिद् वदति विदधे किं नु या(त्वया) कर्म जन्तो!?, यज्वा कस्मिन् सजति? २हरिणाः क्वोल्लसत्युद्विजन्ते? । 'ब्रूते वज्रः पदमुपमितौ किं? परविः पृच्छतीदं, देहिन्! बाधाभरविधुरितः कुत्र किं त्वं करोषि? ॥१०६।।
____ मञ्जरीसनाथजातिः । संतो कम्मि परम्मुहा? 'घरमुहे सोहा कहिं कीरए?, ३रूढे कम्मि रसंति दुट्ठकरहा? 'कम्मि बहुत्तं वि(ठि)यं? । पदिढे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुयं । के मुंचंति धणुधरत्ति भणिरे मज्जायमामंतसु ॥१०७।।
विपरीत-मञ्जरीसनाथजातिः । [मिथ्याज्ञानग्रहग्रस्तैः किं चक्रे क्व किलाऽङ्गिभिः? ।
क्वाऽभीष्टे का भवेत् कीदृगिति जैन! वद क्षितेः? ॥१०८॥ [गतागतः] रेमेसदपवाभदेवे ।]
१. हे रेवे!- नर्मदे!, मेवे- बद्धम् । २. सवे- यज्ञे । ३. दवेदावानले। ४. हे पवे!, वा-शब्दो विकल्पोपमानयोरिति वचनात् । ५. हे अवे !- आदित्य!, 'अवयः शैलमेषार्का' इति वचनात्, भवे- संसारे देवे- शुचं

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47