Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 29
________________ फेब्रुआ २०१२ रवः शब्दो येषां ते नीरवाः, हे हर ! - शङ्कर!, वेणवः- वंशाः ॥१००॥ 'कश्चिद्दैत्यो वदति दनुजान् घ्नन् हरे! किं किमाधाः?, शक्रात् प्रहः पृथगुदधिजाकान्त-वैवस्वता-ऽन्ताः । क्षिप्तः कश्चित् किल ललनया मन्मथोन्माथदुस्थः, सख्याऽऽस(च)ख्ये कथमथ मनःखेदविच्छेदहेतोः ? ॥१०१॥ कंसमानमायमकालावसान । गतागतः । १. हे कंस!– दैत्य!, मानं - पूजाम् आयं - लेभे । इण् गतौ इत्यस्य ह्यस्तन्यवि वृद्धौ सत्यां रूपम् । २. हे [अ ! - ] विष्णो!, हे काल!, हे अवसान!, सा अबला - स्त्री कामयमानम् - अभिलषन्तं कं नाऽऽस- चिक्षेपे ? अपि तु सर्वमपि क्षिप्तवती ॥१०१॥ जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः । सध्रीचीं यदपृच्छत् तदुत्तरं प्रापत् तत एव ॥१०२॥ ६१ प्रसूनपुञ्जे नवमालिका । प्रसूनपुञ्जे- कुसुमनिवहेऽनवमा - प्रधाना आलि ! - सखि! का इत्यर्थः? | प्रसूत इति प्रसूस्तया ऊन: प्रसूनो जननीरहित इत्यर्थः, स चासौ पुमांश्च प्रसूनपुमान्, तस्माज्जाता प्रसूनपुञ्जा च सा [ई:- ] लक्ष्मीश्च, तस्याः सम्बोधनम्हे प्रसूनपुञ्जे!– जननीरहितपुरुषोद्भवलक्ष्मि!, नवमालिका - नवा चाऽसौ मालिका च ॥१०२॥ देवीं कमलासीनामन्तकचिरनगररक्षकः स्मृत्वा । यदपृच्छत् तत्रोत्तरमवाप कालीयमानवपुरत्र ॥ १०३॥ का लीयमानशरीरा त्रिजगति ? | यमस्याऽनवं- पुरातनं पुरं नगरं, तत् त्रायते य: स तथा, तस्य सम्बोधनम् - हे यमानवपुरत्र !, काली देवता ॥१०३॥ १सैन्याधिभूरभिषिषेणयिषुस्तदीयः, कं किं करोति विजयी नृपतेह(र्ह)वेन? । `कीदृक् क्व(च) मन्मथवतः प्रतिभाति कान्ता, पत्नीहितो वदति चेतसि कस्य पुंसः ? ॥ १०४॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47