Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
६०
अनुसन्धान-५८
हे भव!- शङ्कर!, द्य- खण्डय वादे- पक्षप्रतिपक्षपरिग्रहरूपे, शं- सुखम् । ५. भवतः- क्त्वाप्रत्ययस्य यबादेशो भवद्यबादेशस्तम् । यादृशं निर्दम्भशब्देनाऽर्थतो रूपमभिधीयते तादृशं विपूर्वस्य मीनातेः क्त्वाप्रत्ययस्य यबादेशे सति भवति । तथाहि - निर्दम्भशब्देन निर्गतमाय उद्यते, विमाय - अनेनाऽपि स एवेति भावः ॥९६॥
स्मृत्वा पक्षिविशेषेण जग्धं कमपि पक्षिणम् ।
वृष्णिवंशोद्भवो लक्ष्मी[मप्राक्षी]त् किं समोत्तरम्? ॥९७॥ यादवकङ्कः ।
हे इ!- लक्ष्मि!, आद- भक्षितवान् बकं- पक्षिणम् कः? । हे यादव!वृष्णिवंशोद्भव!, कङ्कः- पक्षिविशेषः ॥९७।।
प्रपञ्चक्व(वञ्च)नव(च)णं ध्यात्वा कि(क)मपि देहिनम् ।
विश्वम्भरा यदप्राक्षीत् ततः प्राह(प) तदुत्तरम् ॥९८॥ कोनालीकः ।
कः ना- पुरुषोऽलीकः? । हे को!- पृथ्वि!, नालिको दुंवालिकः (?) ॥९८॥
जात्यतुरगाहितमति-ल(ल)क्ष्मीपतिमप्सरोविशेषपतिः ।
यैर्वर्णैर्यदपृच्छत् तैरेव तदुत्तरं प्रापत् ॥९९।। मेनकाजानेययुता ।
माया इनो मेनस्तत्सम्बोधनम् – हे मेन!- लक्ष्मीपते!, काऽऽजानेययुताका अश्वयुता? । मेनका जाया यस्य स मेनकाजानिस्तस्य सम्बोधनम् - हे मेनकाजाने!- ऽप्सरोविशेषपते!, ययुता- अश्वता । जायाया जानिरिति विशेषलक्षणात् ॥९९।।
केन केषां प्रमोदः स्या-दिति पृच्छन्ति को(के)किनः? ।
सङ्गीतके च कीदृक्षाः प्राह शम्भुर्न भान्ति के? ॥१००॥ नीरवारवेणवः ।
१. नीरवाहो मेघस्तस्य रवः- शब्दस्तेन वो- युष्माकम् । २. निर्गतो

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47