Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान-५८
कैर्वहै- वहामि, हे अवनि!- पृथिवि!, रमां- लक्ष्मी, अत्र- जगति? वह प्रापणे, पञ्चमी ए । अमा- रोगास्तेषाममत्रं- भाजनं, तस्य सम्बोधनम् - हे अमामत्र!, कैरवनिवहै:- पद्मसमूहैः । अयमत्र भावः - यः किल कुमुदैः श्रीमान् स तैरेव लक्ष्मीमावहति ॥८९॥
'सदाऽऽहिताग्नेः क्व विभाव्यते का? पावृष्युपास्ते शयितं क्व का कम् ? ।
दीर्घक्षणा वक्ति पुरस्थिताऽहमवीक्ष्यमाणा प्रिय! किं करोमि? ॥९०॥ आयतनेत्रेतापयसिमां ।
१. आयतने- गृहे, त्रेता- [अग्नित्रयम्,], त्रेता अग्नित्रियते युगे इति वचनात् । २. पयसि- जले मा- लक्ष्मीः , अं- विष्णुम् । ३. हे आयतनेत्रे!विशाललोचने!, तापयसि मां कर्मभूतम् ॥९०॥
'लक्ष्मीर्वदति बलिजितं त्वमीश! किं पीतमंशुकं कुरुषे? ।
२अपरं पृच्छामि प्रिय! कुर्वेऽहं किं भवच्चरणौ? ॥९१॥ सेवसे । गतागतः ।
१. हे से!- लक्ष्मि!, वसे- परिदधामि । वस आच्छादने, वर्तमाना ए। २. सेवसे- सेवां कुरुषे ॥९१॥
प्रवीरवरशूद्रकं किमु जगुर्जनाः कीदृशं?,
२पयो वदति कीदृशीं नृपततिं श्रयन्त्यर्थिनः? । २चकार किमगं हरिर्वदंत विस्मये किं पदं?,
पनिनीपुरमृतास्पदं कथमिवाह जैनो जनान्? ॥९२॥ सदाजिनवरागमम्बुधनरावरा( मुदा )सेवत ॥
१ सदा-नित्यम् आजिषु- सङ्ग्रामेषु नवो- नूतनो रागो यस्याऽसौ स तथा। २. हेऽम्बु!- जल!, धनं राति- ददाति धनरा[म्] । ३. उदासेउत्पाटितवान् । उत्पूर्वोऽसु क्षेपणे, परोक्षा ए । ४. बत । ५. हे बुधनराः!, सदानित्यं, जिनवरागमं- जिनेन्द्रसिद्धान्तं मुदा- हर्षेण सेवत, जिनागमे सेवां कुरुत इत्यर्थः ॥९२॥
का दुरिता(त?)- सदू(दू)षणसान्त्वक्षि(क्ष)तिभूमिरिति सति प्रश्ने । यत् तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥१३॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47